योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०८६

← सर्गः ८५ योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)
सर्गः ०८६
वाल्मीकिः
सर्गः ८७ →


षडशीतितमः सर्गः ८६
श्रीवसिष्ठ उवाच ।
श्रृणु राम कथं तत्र महाकाशे तथा स्थितः ।
देहे भ्रान्तिं तु तां त्यक्त्वा स रुद्रोऽप्युपशाम्यति ।। १
स रुद्रस्तौ जगत्खण्डौ तदा चित्र इवार्पिताः ।
निस्पन्दा एव तत्रासन्प्रेक्षमाणे स्थिते मयि ।। २
ततो मुहूर्तमात्रेण स रुद्रस्तौ नभोन्तरे ।
खण्डौ विलोकयामास दृशार्केणेव रोदसी ।। ३
ततो निमेषमात्रेण घोणाश्वासेन खण्डकौ ।
तौ समानीय चिक्षेप पातालान्तरिवानने ।। ४
अतिष्ठदेक एवासावेकं खे खमिवाखिले ।
भुक्तब्रह्माण्डखण्डोग्रमण्डमण्डकमण्डलः ।। ५
ततो मुहूर्तमात्रेण लघुः सोऽभ्रमिवाभवत् ।
ततोऽभवद्यष्टिसमस्ततः प्रादेशमात्रकः ।। ६
ततः काचकणाकारो मया दृष्टः स तादृशः ।
ततः सोऽणूभवन्दृष्टो मया स्वाद्दिव्यदृष्टिना ।। ७
परमाणुरथो भूत्वा ततस्त्वन्तर्द्धिमाययौ ।
इत्यसौ शममायातः शरदम्बुदखण्डवत् ।। ८
तादृशोऽपि महारम्भः पुरः पश्यत एव मे ।
इति सावरणे तेन ते ब्रह्माण्डकवाटके ।। ९
विनिगीर्णे क्षुधार्तेन हरिणेनेव पर्णके ।
अथाभून्निर्मलं व्योम शान्तं ब्रह्मैव केवलम् ।। १०
अनादिमध्यपर्यन्तं संविदाकाशमात्रकम् ।
इत्यहं दृष्टवांस्तत्र कल्पान्तमुरुविभ्रमम् ।। ११
दर्पणप्रतिबिम्बाभं शिलाशकलकोटरे ।
अथ तामङ्गनां स्मृत्वा तां शिलां तच्च विभ्रमम् ।।१२
राजद्वारगतो ग्राम्य इवाहं विस्मयं गतः ।
तामालोकितवान्भूयः कलूधौतशिलामहम् ।। १३
यावत्सर्वत्र सन्त्यत्र सर्गाः काल्या इवाङ्गके ।
बुद्धिनेत्रेण दृश्यन्ते दिव्याक्ष्णा वा न ते यथा ।। १४
सर्वत्र सर्वदा सर्वं यदस्त्येव तदा तथा ।
दूरवत्प्रेक्ष्यते मांसदृशा यद्येव सा शिला ।। १५
दृश्यते तच्छिलैवैका न तु सर्गादि किंचन ।
सावस्थिता शिलैवैकरूपा निविडमण्डला ।। १६
कलधौतमयी स्फारा संध्याजलदसुन्दरी ।
ततोऽहं विस्मयाविष्टः प्रविचारितवान्पुनः ।। १७
शिलायामपरं भागं तथैव परया दृशा ।
यावत्तमपि पश्यामि जगदारम्भमन्थरम् ।। १८
तथैव सुषिराकार इव नानार्थसुन्दरम् ।
पुनरन्यं तथैवाहं प्रदेशं परिदृष्टवान् ।। १९
सर्गसंरम्भवलितं यावत्तमपि तादृशम् ।
यं यं प्रदेशं पश्यामि शिलायास्तत्र तत्र वै ।। २०
जगत्पश्यामि विमलमादर्श इव बिम्बितम् ।
मयातिकौतुकेनाथ सर्वास्तस्य गिरेः शिलाः ।। २१
अन्विष्टा भूतिभागाश्च तृणगुल्मादयस्तथा ।
यावत्सर्वत्र तत्तादृग्जगदस्ति यथास्थितम् ।। २२
बुद्ध्यैव दृश्यते नाक्ष्णा परया विविधाकृति ।
क्वचित्प्रथमसर्गात्म जायमानप्रजापति ।। २३
कल्प्यमानर्क्षचन्द्रार्कदिनरात्र्यृतुवत्सरम् ।
क्वचित्क्वचिन्महीपीठसंपन्नजनमण्डलम् ।। २४
क्वचित्किंचिदखातोग्रचतुःसागरखातकम् ।
कचित्किंचिदसंजातसुरसंजातदानवम् ।। २५
क्वचित्किंचित्कृतयुगाचारसज्जनभूतकम् ।
क्वचित्किंचित्कलियुगाचारदुर्जनभूतकम् ।। २६
क्वचित्किंचित्पुरव्यूहदैत्यसंगरदुस्तरम् ।। २७
क्वचित्किंचिन्महाशैलजालनिर्विवरावनि ।
क्वचित्किंचिदसंपन्नसर्गमेकाम्बुजोद्भवम् ।। २८
क्वचित्किंचिज्जरामृत्यून्मुक्तभूतलमानवम् ।
क्वचित्किंचिदसंजातचन्द्रशून्यशिरःशिवम् ।। २९
अनिर्मथितदुग्धाब्धिमृत्युमत्सुरपूरितम् ।
असंजातामृताश्वेभवैद्यगोकमलाविषम् ।। ३०
शुक्रामरमहाविद्यानाशनोत्कसुरव्रजम् ।
क्वचित्किंचिच्च गर्भाङ्गकर्तनोत्कसुरेश्वरम् ।। ३१
अपरिम्लानधर्मत्वात्स्वप्रकाशाखिलव्रजम् ।
क्वचित्किंचिच्च पूर्वान्यसंनिवेशक्रमस्थिति ।। ३२
अपूर्ववेदशास्त्रार्थसमाचारविचारणम् ।
क्वचित्किंचिन्न कल्पान्तसंक्षोभमिव संस्थितम् ।।३३
क्वचित्किंचिच्च दैत्यौघविलुण्ठितसुरालयम् ।
क्वचित्किंचित्सुरोद्यानगायद्गन्धर्वकिन्नरम् ।। ३४,
क्वचित्किंचित्समारब्धगीर्वाणासुरसौहृदम् ।
भूतभव्यभविष्यत्स्थजगदाडम्बरं मया ।। ३५
तदानुभूतं वपुषि महाविश्वगणात्मनि ।
एकत्र कल्पविक्षुब्धपुष्करावर्तमन्थरम् ।। ३६
एकत्र सौम्यसकलभूतसंततिसंस्थितम् ।
एकत्र समनुक्षुब्धसुरासुरनरेश्वरम् ।। ३७
एकत्रासंभवद्भानुनित्याभिन्नतमोघनम् ।
एकत्रासंभवद्ध्वान्त कान्तं ज्वालोदरोपमम् ।। ३८
एकत्र नलिनीनालनिलीनमधुकैटभम् ।
एकत्र पद्ममञ्जूषासुप्तबालनवाब्जजम् ।। ३९
एकत्रैकार्णवोदग्रवृक्षविश्रान्तमाधवम् ।
एकत्र कल्परजनीनिःशून्यतिमिराकुलम् ।। ४०
शिलाजठरनिस्पन्दं व्योमैव वितताकृति ।
सुषुप्तजठराकारमप्रज्ञातमलक्षणम् ।। ४१
अप्रतर्क्यमविज्ञेयं सुषुप्तमिव सर्वतः ।
एकत्र पक्षविक्षुब्धशैलकाकाकुलाम्बरम् ।। ४२
एकत्र वज्रनिष्पेषद्रवद्भूधरभासुरम् ।
एकत्रोद्वृत्तमत्ताब्धिह्रियमाणधराचलम् ।। ४३
एकत्र पुरवृत्रान्धवलिसंगरसंकुलम् ।
एकत्र मत्तपातालगजकम्पिवसुन्धरम् ।। ४४
एकत्र शेषशिरसः कल्पान्तलुठितावनि ।
क्वचिदल्पेन रामेण हतरावणराक्षसम् ।। ४५
रक्षसा रावणेनैव क्वचिद्विहतराघवम् ।
भूस्थपादेन देवाद्रिशिरस्थशिरसा परम् ।। ४६
पश्याम्यम्बरमाक्रान्तं क्वचिद्वै कालनेमिना ।
क्वचिच्चापसुरैर्नित्यं दानवैरेव पालितम् ।। ४७
क्वचिच्च भ्रष्टदनुजैरमरैरेव पालितम् ।
जिष्णुयुक्तेन गुप्तेन विष्णुपाण्डवकौरवैः ।। ४८
क्वचिद्भारतयुद्धेन निहताक्षौहिणीगणम् ।
श्रीराम उवाच ।
किमहं भगवन्पूर्वमभवं कथयेति मे ।। ४९
अभवं चेदनेनैव संनिवेशेन तत्कथम् ।
श्रीवसिष्ठ उवाच ।
सर्व एव विवर्तन्ते राम भावाः पुनःपुनः ।। ५०
पूर्यमाणा यथा माषाः क्रमेणान्येन तेन वा ।
सर्वक्रमसमाः केचित्तयैवान्येन वा मिथः ।। ५१
स्फुरन्त्यर्थसमा भावाः केचिदब्धितरङ्गवत् ।
पुनस्त्वं पुनरेवाहं पुनः पुनरिमे जनाः ।। ५२
न कदाचन नैवान्ये संभवन्त्यखिलं परे ।
त एवान्येऽथवाम्भोधौ तरङ्गा इव निर्णयः ।। ५३
यद्वन्न जायते तद्वद्भूतानां भ्रमतां भवेत् ।
आयान्ति यान्त्यनन्तानि भूतानीह भवद्भ्रमैः ।। ५४
तान्येवान्यानि चान्यानि समानि विषमाणि च ।
आवृत्तिमन्ति तान्येव तथैवान्यानि चाभितः ।। ५५
विद्धि सीकरजालानि भूतानि जगदम्बुधेः ।
वित्तबन्धुवयःकर्मविद्याविज्ञानचेष्टितैः ।। ५६
तैरेव केचिज्जायन्ते भूयोभूयः शरीरिणः ।
अर्धैस्तैः सदृशाः केचित्केचित्पादेन तैः समाः ।। ५७
तज्जीवास्तैर्विसदृशा भवन्त्यन्यशरीरिणः ।
सर्वैरेभिः समाः केचित्कालेनैव विलक्षणाः ।
कालेन सदृशाः केचिदनेन च विलक्षणाः ।। ५८
कालेनाकुलचेष्टयान्य इव ते गच्छन्त्यधोर्ध्वं पुन-
देहालेखनखेदितान्यगणितान्यन्यानि चान्यान्यलम्
भूताम्बूनि वहन्ति संसृतिमये तान्यम्बुधौ चञ्चले
चक्रावृत्तिमयानि संकलयितुं शक्नोति कस्तान्यलम्
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाण० उ० पाषा० जगदन्यायत्ववर्णनं नाम षडशीतितमः सर्गः ।। ८६ ।।