योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १०६

← सर्गः १०५ योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)
सर्गः १०६
वाल्मीकिः
सर्गः १०७ →


षडधिकशततमः सर्गः १०६
श्रीराम उवाच ।
कीदृशं स्याच्चिदाकाशं तद्ब्रह्मन्ब्रह्म यत्परम् ।
भूयः कथय तृप्तिर्हि श्रृण्वतो नास्ति मेऽमृतम् ।। १
श्रीवसिष्ठ उवाच ।
समयोर्यमयोर्भ्रात्रोर्व्यवहाराय नामनी ।
यद्वत्क्रियेते द्वे तद्वज्जाग्रत्स्वप्नशिलामये ।। २
वस्तुतस्त्वनयोर्भेदो न द्वयोः पयसोरिव ।
द्वयमप्येकमेवैतच्चिन्मात्रं व्योम निर्मलम् ।। ३
देशाद्देशान्तरं दूरं प्राप्तायाः संविदो वपुः ।
निमिषेणैव तन्मध्ये चिदाकाशं तदुच्यते ।। ४
यादृशस्तिष्ठतः स्वच्छं रसमाकर्षतस्तरोः ।
भवेद्भावो नभःस्वच्छस्तादृशं चिन्नभः स्मृतम् ।। ५
विनिवृत्ताखिलेच्छस्य पुंसः संशान्तचेतसः ।
यादृशः स्यात्समो भावस्तादृशं चिन्नभः स्मृतम् ।। ६
अनागतायां निद्रायां मनोविषयसंक्षये ।
पुंसः स्वस्थस्य यो भावः स चिदाकाश उच्यते ।। ७
तृणगुल्मलतादीनां वृद्धिमागच्छतामृतौ ।
यः स्यादुन्ममतो भावः स चिदाकाश उच्यते ।। ८
रूपालोकमनस्कारविमुक्तस्यामृतस्य यः ।
भावः पुंसः शरद्वद्योमविशदस्तच्चिदम्बरम् ।। ९
यदेतदासनं सृष्टं काष्ठपाषाणभूभृताम् ।
चेतनानां च सत्तात्म चिदाकाशः स उच्यते ।। १०
द्रष्टृदर्शनदृश्यानां त्रयाणामुदयो यतः ।
यत्र वास्तमयश्चित्खं तद्विद्धि विगतामयम् ।। ११
यत उद्यन्ति यस्मिंश्च चित्राः परिणमन्त्यलम् ।
पदार्थानुभवाः सर्वे चिदाकाशः स उच्यते ।। १२
यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ।
यश्च सर्वमयो नित्यं स चिदाकाश उच्यते ।। १३
दिवि भूमौ बहिश्चान्तस्तथान्यस्य समाभिधः ।
यो विभात्यवभासात्मा चिदाकाशः स उच्यते ।। १४
यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति ।
सदसदुत्थितं विश्वं विश्वाङ्गे तच्चिदम्बरम् ।। १५
यस्मात्सर्वाः प्रसूयन्ते सर्गप्रलयविक्रियाः ।
यस्मिंश्चैव प्रलीयन्ते यन्मयास्तच्चिदम्बरम् ।। १६
निद्रायां विनिवृत्तायां यतो विश्वं प्रवर्तते ।
निवर्तते च यच्छान्तौ तच्चिदम्बरमुच्यते ।। १७
यस्योन्मेषनिमेषाभ्यां जगत्सत्तालयोदयौ ।
स्वानुभूत्यात्मकं स्वान्तः स्थितं तद्विद्धिचिन्नभः ।। १८
नेदं नेदं तदित्येवं सर्वं निर्णीय सर्वथा ।
यन्न किंचित्सदा सर्वं तच्चिद्व्योमेति कथ्यते ।। १९
देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।
दूरतोऽर्धनिमेषेण तच्चिन्मात्रवपुः स्मृतम् ।। २०
विश्वं तन्मयमेवेदं यथा भूतं यथा स्थितम् ।
रूपालोकमनस्कारैर्युक्तमप्येवमीदृशम् ।। २१
ईषदुन्मेषणादेतदन्यतामिव गच्छति ।
अनन्यरूपमपि सच्चिद्व्योम विमलाकृति ।। २२
पश्यन्नेवेन्द्रियैरर्थान्नूनं निर्वासनाशयः ।
प्रबुद्ध एवैकघनः सुषुप्तावस्थितो भव ।। २३
निर्वासनः शान्तमना वद व्रज पिबाहर ।
पाषाण इव संजीवो नित्यं सुघनमौनवान् ।। २४
इदं न संभवत्येव दृश्यं पश्यसि यत्पुरः ।
मृगतृष्णाजलमिव द्वैतमिन्दाविवोदितम् ।। २५
इदमादावनुत्पन्नं कारणाभावतः किल ।
कारणेन विना कार्यं न हि नामोपपद्यते ।। २६
यद्वोपपद्यते किंचित्तदकारणकोद्भवम् ।
यथास्थितं परं रूपमुद्भूतमिव लक्ष्यते ।। २७
तद्यथास्थितमेवाङ्ग पूर्वरूपमवस्थितम् ।
भवत्यद्वयमेवाच्छं द्वयेनाप्युपलक्षितम् ।। २८
तत्रेदंप्रत्ययः प्रौढो भवत्यनुभवो हि यः ।
समायातमिदं भ्रान्तं तत्स्वप्नस्त्रीसमं विदुः ।। २९
तस्माद्दृश्यं न चोत्पन्नं नैवास्ति न भविष्यति ।
न च नश्यति यन्नास्ति तस्य किं नाम नश्यति ।। ३०
तत्तदेव परं शान्तं चिद्व्योमैव तथा स्थितम् ।
स्वरूपादच्युतं स्वस्थं सौम्यं जगदिवोदितम् ।। ३१
न हीदमग्रे यद्दृष्टं दृश्यं तत्सत्कदाचन ।
न चापि द्रष्टा दृष्टार्थाभावे क्व द्रष्टृता किल ।। ३२
श्रीराम उवाच ।
एवं चेत्तद्वद ब्रह्मन्द्रष्टृदृश्यावभासनम् ।
किमिदं कथमाभाति भूयोऽपि वदतांवर ।। ३३
श्रीवसिष्ठ उवाच ।
असद्रूपस्य दृश्यस्य कारणाभावतः सदा ।
दृश्यतास्येत्यपि प्रौढिनिर्देशस्यात्यसंभवात् ।। ३४
यदिदं भासते किंचिद्द्रष्टृदृश्यभ्रमात्मकम् ।
जगदादि परं रूपं तद्विद्धि परमात्मनः ।। ३५
स्वप्ने चिन्मात्र एवास्ते यथा गगनकाननम् ।
तथा जगत्तया भाति स्वयं चिन्मात्रमात्मनि ।। ३६
इहादिसर्गात्प्रभृति नास्त्युपादानकारणम् ।
किंचनापि क्वचिदपि भातीत्थं ब्रह्म केवलम् ।। ३७
यच्चिदाकाशकचनं स्वयमात्मनि जृम्भते ।
तदिदं भाति तस्यैव जगदित्युदितं वपुः ।। ३८
यथा भावस्य भावत्वं यथा शून्यस्य शून्यता ।
आकारिणो यथाकारस्तथा चिन्नभसो जगत् ।। ३९
इदं विद्धि चिदाभासं परमार्थघनं घनम् ।
इत्थं स्थितं स्वयं भातं द्रष्टृदृश्यदृगात्मकम् ।। ४०
वस्तुतस्तु द्वयाभावान्नाभासि न च भासनम् ।
किमपीदमनिर्देश्यं सद्वाऽसद्वेति वेत्ति कः ।। ४१
श्रीराम उवाच ।
एवं चेत्तद्वद ब्रह्मन्कार्यकारणतादिकः ।
कथं भेदः किमायातः कथं सत्यत्वमागतः ।। ४२
श्रीवसिष्ठ उवाच ।
चित्प्रकाशो यथाभानं यदा भावयति स्वयम् ।
स्वात्मा तथा तदेवाशु पश्यसीत्यसि दृष्टवान् ।। ४३
चिद्व्योमैवायमाकारः स्वे व्योम्न्येव न मुह्यति ।
स्वयमेव यथा स्वप्ने कोऽस्य पर्यनुयोगकृत् ।। ४४
भावाद्भावान्तरप्राप्तौ मध्ये यत्संविदो वपुः ।
तच्चिद्व्योम तदेवेदं सर्वं च स्थिति नेतरत् ।। ४५
कार्यकारणभावादिदृशोऽविद्याविजृम्भिकाः ।
जगद्वत्कल्पयत्येष कोऽस्य पर्यनुयोगकृत् ।। ४६
द्रष्टा भोक्ताथ कर्ता वा कश्चित्स्यादितरो यदि ।
तत्कथं किमिदं दृश्यमिति युज्येत नान्यथा ।। ४७
यत्र स्वप्ने निराभासं चिद्व्योमैव विराजते ।
शुद्धमेकमनेकात्म तत्र किं क्व विकल्प्यते ।। ४८
आस्वयंभुव एवेयं चिन्मात्रे भाति सर्गभाः ।
परिज्ञाता सती सा तु ब्रह्मैव भवति क्षणात् ।। ४९
एषैव त्वपरिज्ञाता भ्रान्तिर्मायेति कथ्यते ।
जगदित्युच्यते विद्या दृश्यमित्युपवर्ण्यते ।। ५०
चिदाकाशप्रकाशेन चित्ता दृश्यपिशाचकः ।
वेतालो बालकेनेव बुद्धोऽसन्नेव सन्निव ।। ५१
जगत्तात्मन्यसत्यापि चिद्व्योम्नैवानुभूयते ।
सत्येव साङ्गलेखेव स्वप्नेऽद्रिपुरता यथा ।। ५२
अहमद्रिरहं रुद्रः समुद्रोऽहमहं विराट् ।
चेत्यते खे चितैवेति स्वप्नेऽद्रिपुरता यथा ।। ५३
आकारि कारणाभावाज्जातं कार्यं न किंचन ।
महाप्रलयचिद्व्योम्नि चित्स्थितेत्थमिदन्तया ।। ५४
अकारणकमेवेदं व्योम व्योम्नानुभूयते ।
जगदित्येव शून्याङ्गं चिन्मात्रात्म चिदात्मनि ।। ५५
सर्व एव जडा जीर्णा दर्पणा इव जन्तवः ।
समीपगत एवान्तः कुर्वतस्तु विचारणम् ।। ५६
तत्तत्स्वरूपमुत्सृज्य बुद्ध्वा चिन्मात्रखं जगत् ।
अश्मना चेतनेनैव स्थेयं नास्थेतरोत्तमा ।। ५७
यथास्ते चलयद्देहं वार्यावर्तजगद्द्रवः ।
चेततीति तथा चित्त्वं स्थिता चित्तज्जगद्दृशा ।। ५८
यथा कल्पद्रुमोऽभीष्टं कुर्याच्चिन्तामणिर्यथा ।
तथा यद्भावितं स्वान्तस्तत्पूरयति चित्क्षणात् ।। ५९
चितिश्चिन्तामणिरिव कल्पद्रुम इवेप्सितम् ।
आशु संपादयत्यन्तरात्मनात्मनि खात्मिका ।। ६०
देशाद्देशान्तरप्राप्तौ मध्यदेशे चितेर्वपुः ।
यत्तन्मयमिदं दृश्यं कुतो द्वैतैक्यविभ्रमः ।। ६१
चिच्छायैवं कचत्यच्छमनन्ता भास्वरोदरा ।
अङ्गरिक्तापि दृश्यान्तःशून्यता नीलतेव खे ।। ६२
विसदृशकार्यानुभवो
न भवति सहकारिकारणाभावात् ।
सर्गादावत आद्या
चिदेव दृश्यं यथा स्वप्ने ।। ६३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वा० उत्तरार्धे कार्यकारणनिरासो नाम षडधिकशततमः सर्गः ।। १०६ ।।