योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १०८
← सर्गः १०७ | योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्) सर्गः १०८ अज्ञातलेखकः |
सर्गः १०९ → |
अष्टाधिकशततमः सर्गः १०८
श्रीराम उवाच ।
अविद्या दृश्यरूपेयं कचन्ती यस्य विद्यते ।
चिन्नभःस्वप्ननगरी दृश्यमानापि शून्यकम् ।। १
तस्याज्ञस्य कियत्कालं किंरूपा स्यात्किमात्मिका ।
कियती सा च वेत्येवं मुने मे कथ्यतां पुनः ।। २
श्रीवसिष्ठ उवाच ।
अविद्या विद्यते येषामज्ञानां भूतलादिका ।
तेषामस्यां ब्रह्मणीव नास्त्यन्तोऽत्र कथां श्रृणु ।। ३
सदृशं जगतोऽस्यास्ति क्वचिदम्बरकोणके ।
कस्मिंश्चिद्त्रिजगत्किंचिदनयैव व्यवस्थया ।। ४
अस्ति कश्चिद्भुवो भागो भूषणं तत्र भूस्थितेः ।
पुरी ततमितिर्नाम्ना सुव्यक्तकलनाऽवनौ ।। ५
तत्रासीत्पार्थिवः कश्चिद्विपश्चिदिति विश्रुतः ।
यः सभायां सुसभ्यायां विपश्चित्त्वाद्विराजते ।। ६
राजहंस इवाब्जिन्यामृक्षचक्र इवोडुराट् ।
सुमेरुरिव शैलौघे यः सभायामराजत ।। ७
निवर्तते यतोऽशक्त्या वचनं गुणवर्णनात् ।
कवीनामचलाकारा भवेद्भा भूधरो यथा ।। ८
प्रातःप्रातर्विकसितात्सर्वाशाभासनोद्यतात् ।
यतः प्रतापजनितश्रीरुदेत्यम्बुजादिव ।। ९
स ब्रह्मण्यमतिर्मानी वह्निमेवाधिदैवतम् ।
अपूजयत्समं भक्त्या देव वेत्ति स्म नेतरम् ।। १०
समत्स्यमकरव्यूहा गजवाजिगणान्विताः ।
आवर्तचक्रव्यूहाढ्याः कल्लोलबलमालिताः ।। ११
मर्यादापालने युक्ता अकम्पनबलाधिकाः ।
मन्त्रिष्वप्यस्य चत्वारो दिक्षु सत्सागरा इव ।। १२
तैरशेषककुप्चक्रनाभिराभासितावनिः ।
आसीत्सुदुर्जयो जेता स सुदर्शनचक्रवत् ।। १३
तमेकदा ययौ पूर्वदिङ्मुखाच्चतुरश्चरः ।
स उवाच रहो रंहोगतिघोराक्षरं वचः ।। १४
देव दोर्द्रुमविश्रान्तधरागोबन्धनाच्युत ।
श्रूयतां मन्मुखात्पश्चाद्यथाप्राप्तं विधीयताम् ।। १५
पूर्वदिङ्मुखसामन्तो ज्वरेणास्तमुपागतः ।
मन्ये जेतुं यमं यातस्त्वयारब्धो जितारिणा ।। १६
तस्मिन्समन्ततो जेतुं दक्षिणापथनायकः ।
पूर्वापराभ्यामाक्रम्य बलाभ्यामरिणाऽऽहतः ।। १७
तस्मिन्मृते समागम्य यावद्वारुणदिक्पतिः ।
बलेनायाति ककुभौ ते समादातुमादृतः ।। १८
पूर्वदेशनृपैः सार्धं दक्षिणापथपार्थिवैः ।
तावदेवारिभिरसावर्धमार्गे रणे हतः ।। १९
श्रीवसिष्ठ उवाच ।
अथास्मिन्कथयत्येवं त्वरार्तमपरश्चरः ।
उपप्लवजडोत्पीड इव हर्म्यं विवेश ह ।। २०
चर उवाच ।
उत्तराशाबलाध्यक्षो देवारिभिरुपद्रुतः ।
इत आयाति सबलो भग्नसेत्वम्बुपूरवत् ।। २१
श्रीवसिष्ठ उवाच ।
इति श्रुत्वा महीपालः कालक्षेपमवास्तवम् ।
मन्यमान उवाचेदं निर्गच्छन्वरमन्दिरात् ।। २२
राज्ञः सन्नह्य सामन्तानानीयन्तां च मन्त्रिणः ।
उद्धाट्यन्तां हेतिशाला दीयन्तां घोरहेतयः ।। २३
श्लेष्यन्तां कंकटा देहेष्वागच्छन्तु पदातयः ।
गण्यन्तामाशु सैन्यानि क्रियन्तां वरकल्पनाः ।। २४
कल्प्यन्तां च बलाध्यक्षाः प्रेष्यन्तामभितश्चराः ।
श्रीवसिष्ठ उवाच ।
वदत्येवं त्वरायुक्तं संरम्भवति राजनि ।। २५
प्रतीहार उवाचेदं प्रविश्याकुलमानतः ।
प्रतीहार उवाच ।
उत्तराशाबलाध्यक्षो देव द्वार्यवतिष्ठति ।
काङ्क्षत्यब्जमिवार्कस्य देवदेवस्य दर्शनम् ।। २६
राजोवाच ।
गच्छाविलम्बितं तावदेनमेव प्रवेशय ।
जानीमः किं दिगन्तेषु वृत्तं वृत्तान्तसंश्रवात् ।। २७
श्रीवसिष्ठ उवाच ।
इत्युक्त उत्तराशेशं प्रतिहारप्रवेशितम् ।
प्रणामपरमग्रेऽसौ राजाऽपश्यद्वलाधिपम् ।। २८
क्षतविक्षतसर्वाङ्गमङ्गमङ्गेषुसंततम् ।
श्वासाकुलं वमद्रक्तं धैर्येणाबलनिर्जितम् ।। २९
स प्रणम्य त्वरायुक्तमुवाचेदमुपक्रमम् ।
संस्तभ्याङ्गव्यथामाशु संततोच्छ्वासमुच्छ्वसन् ।। ३०
बलाध्यक्ष उवाच ।
देव त्रयोऽपि दिक्पाला बलेन बहुना सह ।
त्वदाज्ञयेव निर्जेतुं यमं यमपुरं गताः ।। ३१
तद्देशपालनाद्यर्थमशक्तं मामिमं ततः ।
अनुद्रवन्तो बहवो भूपाः प्राप्ता बलादिह ।। ३२
महत्परबलं प्राप्तमिदं देवस्य मण्डलम् ।
विधीयतां तथाप्राप्तं न देवस्यास्ति दुर्जयम् ।। ३३
श्रीवसिष्ठ उवाच ।
अथ तस्मिन्वदत्येवमार्तिमत्याजिविक्षते ।
सहसैवाभ्युवाचेदं प्रविश्य पुरुषोऽपरः ।। ३४
पुरुषा मण्डलस्यास्य विपुला दललीलया ।
स्थितान्यरिबलान्युच्चैश्चतुर्दिक्कं नरेश्वर ।। ३५
कचच्चक्रगदाप्रासकुन्तकाननकान्तिभिः ।
वलिता नोऽरिभिर्भूमिर्लोकालोकतटैरिव ।। ३६
पताकायुधयोध्रङ्गाश्चलत्परिकराकुलाः ।
विसरन्ति रथास्तत्र प्रोड्डीनत्रिपुरौघवत् ।। ३७
करानुन्नामयन्तः खे मांसवृक्षवनोपमाः ।
बृंहन्ति वारणव्यूहा वर्षावारिदवृन्दवत् ।। ३८
नतोन्नतानि कुर्वन्तः स्पन्देनोर्वीनतोन्नतैः ।
हेषन्ते हयसंघाता वातस्पन्दमहाब्धिवत् ।। ३९
रसन्ति तुरगापुराः फेनिलावर्तपातिनः ।
सर्वतो वलयाकारा लवणार्णववारिवत् ।। ४०
आकाशकान्तिसन्नाहैर्दिशं प्रति बलं बलम् ।
उदेत्यलघुकल्लोलैः प्रलयार्णवपूरवत् ।। ४१
शरास्त्रशस्त्रसन्नाहमुकुटाभरणत्विषः ।
कचन्ति त्वत्प्रतापाग्नेर्ज्वाला इव तदङ्गगाः ।। ४२
समत्स्यमकरव्यूहाः सचक्रावर्तवृत्तयः ।
उद्यन्ति सैन्यसंघट्टैः कल्लोला जलधेरिव ।। ४३
परस्परपरामर्शात्कुन्ताद्यायुधपङ्क्तयः ।
कोपादिवोग्रहुंकारैर्ज्वलन्ति विरटन्ति च ।। ४४
इति कर्तुमहं देव विज्ञप्तिं स्वामिनेरितः ।
तस्मान्मण्डलसीमान्तगुल्माद्युद्धाय गच्छता ।। ४५
तमहं देव गच्छामि शक्त्यृष्टिशरसंगतः ।
मयेहावेदितं सर्वं देवो जानात्यतः परम् ।। ४६
श्रीवसिष्ठ उवाच ।
इत्युक्त्वाथ प्रणामं च स कृत्वा त्वरया ययौ ।
कृत्वा गुलुगुलारावं शान्तो वीचिरिवाम्बुधेः ।। ४७
संभ्रान्तमन्त्रिनृपयोधनियोगिनाग-
नारीरथाश्वपरिचारकनागरौघम् ।
राज्ञो गृहं स्वभयतोलितहेतिसार्थं
चण्डानिलाकुलमहावनतुल्यमासीत् ।। ४८
इत्यार्षे श्रीवा०वा०दे०मो०नि०उ० अविद्योपाख्यानान्तर्गतविपश्चिदुपा०अविद्याक्षेपणे पार्थिवसंरम्भवर्णनं नामाष्टोत्तरशततमः सर्गः ।।