योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ११९

← सर्गः ११८ योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)
सर्गः ११९
अज्ञातलेखकः
सर्गः १२० →


एकोनविंशाधिकशततमः सर्गः ११९
सहचरा ऊचुः ।
कथयत्येष पथिकः पश्य मन्दरगुल्मके ।
प्रियायाश्चिरलब्धाया वृत्तां विरहसंकथाम् ।। १
एकत्र श्रृणु किंवृत्तमाश्चर्यमिदमुत्तमम् ।
दातुं त्वन्निकटे दूतमहं चिन्तान्वितोऽवदम् ।। २
अस्मिन्महाप्रलयकालसमे वियोगे
यो मां तयेह मम याति गृहं स कः स्यात् ।
नैवास्त्यसौ जगति यः परदुःखशान्त्यै
प्रीत्या निरन्तरतरं सरलं यतेत ।। ३
आ एष शिखरे मेघः स्मराश्व इव संयुतः ।
विद्युल्लताविलासिन्या वलितो रसिकः स्थितः ।। ४
भ्रातर्मेघ महेन्द्रचापमुचितं व्यालम्ब्य कण्ठेगुणं
नीचैर्गर्ज मुहूर्तकं कुरु दयां सा बाष्पपूर्णेक्षणा ।
बाला बालमृणालकोमलतनुस्तन्वी न सोढुं क्षमा
तां गत्वा सुगते गलज्जललवैराश्वासयात्मानिलैः ।। ५
चित्ततूलिकया व्योम्नि लिखित्वालिङ्गिता सती ।
न जाने क्वाधुनैवेतः पयोद दयिता गता।। ६
इत्थं चिन्तापरवशमतेस्तन्वि सार्धं त्वयाऽसा-
वन्तर्लीनप्रसरमनसः क्वापि याता स्मृतिर्मे ।
संपन्नोऽहं परवशवपुः काष्ठकुड्योपमाङ्गो
भङ्गं सोढुं क इव विरहक्लेशजं नाम शक्तः ।। ७
पश्चाज्जातः कलकलरवः संतते पान्थसार्थे
दीनालापैर्व्यसनविधुरैरालेपन्ते च मेघम् ।
कष्टं पान्थो मृत इति महारम्भसंपन्नहाहा-
शब्दः प्रोद्यत्पथिकवनिताविस्तृतोरःप्रहारः ।। ८
लोकेनायं मृत इति ततो बाष्पसंपूरिताक्षं
शावीं पूजां विरचितवता संचयीकृत्य दारु ।
दग्धुं नीतोऽस्म्यतिभयमहं प्रज्वलच्चित्यनन्त-
प्रोद्यत्स्फोटस्फुटपटपटारावरौद्रं श्मशानम् ।। ९
तत्राहं तैः कमलवदने बाष्पपूर्णाक्षिपक्षै-
र्न्यस्तः कैश्चिच्चितिशयनके बद्धलोकालिलेखे ।
धूमोद्गाराविरलजटिले मस्तके मत्तमृत्यो-
श्चूडारत्नोत्तम इव कलामात्रदृश्येऽग्निहेम्नि ।। १०
अस्मिन्काले कुवलयलताकोमला धूमलेखा
नासारन्ध्रं मृदुगलबिलं मे प्रवृत्ता नियातुम् ।
उष्णा कृष्णा नकुलकलिता सत्वरं बालसर्पी
भूमे रन्ध्रं तनुमिव दराद्दैर्घ्यसंकोचकुब्जा ।। ११
त्वत्संकल्पामृतकवचितो नापविद्धस्तयाहं
कुन्तश्रेण्या दृढपतनया वज्रकायो यथाजः ।
त्वामासन्नां मदनसरितं हृद्गृहे गाहमानो
मर्मच्छेदेष्वपि विलसिता नाविदं वेदनास्ताः ।। १२
एतावन्तं समयमुचितं तन्वि सार्धं त्वयान्त-
र्लीलालोलं हृदि चिरतरं तन्मयात्रानुभूतम् ।
यस्मिन्दृष्टेऽमृतह्रद इवोन्मज्जनौघैर्यथासौ
राज्याभोगो विशसनमिवाल्पाल्पमेवेति बुद्धिः ।। १३
सा लीला ते विलासा वचनमपि च तत्सस्मितं ते
कटाक्षाः
सानन्दानन्तरस्य प्रसरसमुचिता दूरमण्येकभूषा ।
तानीहारावसारावहसनचलनावेगविक्षोभितानि
किंवा तत्तन्न यत्संस्मृतममृतरसाह्लादमंतः करोति
त्वत्संगमे सुरतसौख्यरसायनेन
बाले ततोऽहमतितृप्ततया श्रमार्तः ।
तत्र स्थितो मृदुनि तल्पतले शशाङ्क-
बिम्बे शरच्छिशिरनिर्मलशोचिषीव ।। १५
अत्रान्तरे झटिति चन्दनपङ्कशीता-
द्दीर्घादिवेन्दुशकलादशनिः सशब्दः ।
दृष्टो मया चितितलज्वलितो हुताशः
क्षीराब्धिवाडवनिभोङ्गगतः स्वतल्पात् ।।१६
सहचरा ऊचुः ।
इत्युक्तवति कान्तेऽस्मिन् हा हतास्मीति वादिनी ।
मुग्धा मौग्ध्याद्वरावर्तशङ्कया मूर्च्छिता स्थिता ।।१७
तामेनामेष नलिनीदलवीजेन वारिभिः ।
आश्वासयंस्तथावस्थां कण्ठेकृत्वात्र संस्थितः ।। १८
पुनः पृष्टोऽनया वक्ति पश्य तामेव संकथाम् ।
एष पार्श्वगतामेनां गृहीत्वा चिबुके प्रियाम् ।। १९
हा हा हुताश इति किंचिदिवोपजात-
खेदो वदामि खलु यावदहं त्वरावान् ।
तावच्चितिर्झटिति तैरवलुण्ठिता सा
पान्थैः क्षणात्खरखराकुलिता लसद्भिः ।। २०
पान्थास्ततस्तरलतालविलासवाद्य-
मालिङ्ग्य मामतनुशेखरपूरिताङ्गम् ।
उत्थापितस्थितिमलं परिवार्य सर्वे
नेदुर्जगुर्जहसुराननृतुर्ववल्गुः ।। २१
विषमविनायकसुखदं
वलितं भस्माहिशवशिरःप्रकरैः ।
शशिधवलास्थिकपालं
वपुरिव रौद्रं श्मशानमथ दृष्टम् ।। २२
पार्श्वच्छायां हरन्तो विचलितविदलत्क्लिन्नकङ्काल-
गन्धा-
स्तन्वन्तो भूरिभस्मप्रविततमिहिकामाधुनानाः
शवानाम् ।
केशानाकाशकोशे शशिगलितशराकारिणः
शांकराणा-
मस्थीनां टांकृतेनारचितखरगिरस्तत्र वाता
वहन्ति ।। २३ ।।
ज्वलदनलचितिप्रवाहनिर्य-
त्पवनहतोष्मविशुष्कपर्णवृक्षा ।
ज्वलनपवनभास्करात्मजानां
रमणगृहानुकृतिं बिभर्ति सा भूः ।। २४
दृष्टं श्मशानं तदनन्तभीम-
करङ्ककंकालघनामगन्धि ।
माद्यच्छिवावायसकङ्कगृध्र-
पिशाचवेतालविरावरौद्रम् ।। २५
आनीतनानाशवबन्धुसार्थ-
संरोदनाह्रादिदिगन्तकुञ्जम् ।
खगावकृष्टार्द्रशिरान्त्रतन्त्री-
निबद्धदग्धद्रुमखण्डजालम् ।। २६
क्वचिच्चितिक्षोभकृतप्रकाशं
क्वचिन्महाकेशकृताब्दवृन्दम् ।
क्वचिच्च रक्ताक्तधरावितानं
नक्तं स्तनत्त्वभ्रमिवास्तशैलम् ।। २७
इत्यार्षे श्रीवा० वा० दे० मो० नि० उ० अवि० विप० पथिकविरहवृत्तवर्णनं नामैकोनविंशाधिकशततमः सर्गः ।। ११९ ।।