योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १२६
षड्विंशाधिकशततमः सर्गः १२६
श्रीराम उवाच ।
अनन्तरं मुनिश्रेष्ठ कुर्वन्तः किं विपश्चितः ।
आसंस्तेषु दिगन्तेषु सद्वीपाब्धिवनाद्रिषु ।। १
श्रीवसिष्ठ उवाच ।
श्रृणु किंवृत्तमेतेषां तात तत्र विपश्चिताम् ।
तालीतमालमालाढ्यद्वीपाद्रिवनचारिणाम् ।। २
क्रौञ्चद्वीपगिरेरेको विपश्चित्पश्चिमे तटे ।
कटेनाद्रितटे पिष्टः करिणा कमलं यथा ।। ३
द्वितीयो नभसा नीतो रक्षसा विक्षताङ्गकः ।
निक्षिप्तो वाडवे वह्नौ तत्र भस्मत्वमागतः ।। ४
तृतीयस्त्रैदशं देशं नीतो विद्याधरेण वै ।
गतोऽप्रणामकुपितशक्रशापेन भस्मताम् ।। ५
चतुर्थश्चतुरं गच्छन्कुशद्वीपगिरेस्तटे ।
दुर्वारेण नदीकच्छे मकरेणाष्टधा कृतः ।। ६
इति ते पञ्चतां प्राप्ता दिङ्मुखेष्वाकुलाशयाः ।
क्षये चतुर्षु चत्वारो भूपाला लोकपालवत् ।। ७
अथ तेषां ददर्शासौ व्योम्न्येव व्योमरूपिणाम् ।
संवित्प्राक्तनसंस्काराद्व्योमात्मावनिमण्डलम् ।। ८
सप्तद्वीपाब्धिवलयं पुरपत्तनभूषणम् ।
सुरशैलशिरःपीठं ब्रह्मलोकशिरोमणिम् ।। ९
चन्द्रार्कबिम्बनयनं तारामुक्ताकलापकम् ।
विलोलमेघवसनं नानावनतनूरुहम् ।। १०
देहान्विपश्चितां संविद्ददर्श चतुरोऽपि सा ।
प्राग्वत्कल्पपरावृत्तौ द्यौर्दिगन्तानिवाततान् ।। ११
आतिवाहिकसंवित्तेस्तेऽव्योम्नि व्योमतात्मकाः ।
आधिभौतिकदेहत्वभावान्ददृशुरग्रतः ।। १२
अस्यात्मकत्वेऽविद्येयं कियती स्यादितीक्षितुम् ।
चत्वारोऽपि प्रवृत्तास्ते संस्कारवशतः पुरः ।। १३
दृश्यदर्शनयोरुर्वीमण्डलानुभवाकृतेः ।
निष्ठां द्रष्टुमविद्याया भ्रेमुर्द्वीपान्तराणि ते ।। १४
द्वीपसप्तकमुल्लङ्घ्य समहार्णवसप्तकम् ।
विपश्चित्पश्चिमः प्राप घनभूमौ जनार्दनम् ।। १५
तस्मादनुपमं ज्ञानं समासाद्य दिगन्तरे ।
तस्मिन्नेव समाधाने सोऽतिष्ठद्वर्षपञ्चकम् ।। १६
ततो देहं परित्यज्य चित्ते सत्तामुपागते ।
स तत्प्राण इवाकाशं परं निर्वाणमाययौ ।। १७
पूर्वः पर्वणि शीतांशुबिम्बपार्श्वे स्थितं वपुः ।
चिन्तयंश्चिरमुन्नष्टदेहश्चन्द्रपुरे स्थितः ।। १८
दक्षिणः शाल्मलिद्वीपे राज्यमुत्सन्नशात्रवः ।
करोत्यद्यापि न सतो विस्मृतान्यविनिश्चयः ।। १९
उत्तरस्तरलास्फालकल्लोले सप्तमाम्बुधौ ।
सहस्रमेकं वर्षाणामुवास मकरोदरे । २०
मकरोदरमांसाशी मृते मकरनायके ।
मकरोदरतोऽब्धेश्च निर्गतो मकरो यथा ।। २१
ततोऽशीतिसहस्राणि योजनानां घनावनिम् ।
हिमकल्पजलाम्भोधेरुल्लङ्घ्य सुघनोदरीम् ।। २२
प्राप्तो दशसहस्राणि योजनानां महामहीम् ।
सौवर्णीं सुरसंचारसरणिं मृतवानसौ ।। २३
तस्यां भूमौ च मध्ये च विपश्चिन्नाकितामगात् ।
उत्तमामग्निमध्यस्थं क्षणात्काष्ठमिवाग्निताम् ।। २४
प्रधानदेवो भूत्वासौ लोकालोकगिरिं गतः ।
अस्य भूमण्डलतरोरालवालमिव स्थितम् ।। २५
स पञ्चाशत्सहस्राणि योजनानां समुन्नतः ।
आलोकलोकाचाराढ्यो भाग एकोऽस्य नेतरः ।। २६
लोकालोकशिरःप्राप्तं तारकामार्गसंस्थितम् ।
अधःस्थिता अपश्यंस्तमुच्चनक्षत्रशङ्कया ।। २७
तस्मात्प्रदेशात्तत्पारे तमस्तस्य महागिरेः ।
चतुर्दिक्कं महाखातं नभः शून्यमनन्तकम् ।। २८
ततो भूगोलकोऽयं हि समाप्तो वर्तुलाकृतिः ।
नभःशून्यं महाखातं ततस्तिमिरपूरितम् ।। २९
तत्रालिकज्जलतमालनभोन्तराल-
नीलं तमो न च मही न च जंगमादि ।
नालम्बनं न च मनागपि वस्तुजातं
किंचित्कदाचिदपि संभवतीति विद्धि ।। ३०
इत्यार्षे श्रीवा० वा० दे० मो० निर्वा० उ० अवि० विप० विपश्चिज्जन्मान्तराचरणं नाम षडविंशाधिकशततमः सर्गः ।। १२६ ।।