योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १२८
अष्टाविंशाधिकशततमः सर्गः १२८
श्रीवसिष्ठ उवाच ।
अस्मदादेर्जनस्यैतत्प्रत्यक्षं नानुमानिकम् ।
शुद्धबोधशरीरेण नाधिभौतिकरूपिणा ।। १
एतदस्मज्जगत्स्वप्ने नान्येषु कथितं मया ।
अन्येष्वस्ति जगत्स्वप्नेष्वेवमन्यापि च स्थितिः ।। २
जगत्स्वप्नेषु चान्येषु संस्थानकथनेन किम् ।
न ह्यौपयोगिकादन्या कथा भवति धीमताम् ।। ३
सर्वेषामुत्तरे मेरुर्लोकालोकश्च दक्षिणे ।
येषामित्यनुमाऽशेषभूतौघे तेन पण्डिताः ।। ४
प्रत्यक्षमेतदन्येषां यत्र तेऽन्ये जगद्भ्रमाः ।
नास्माकं विषये ते हि तथा संस्थानशोभिनः ।। ५
सर्वेषामुत्तरे मेरुर्लोकालोकश्च दक्षिणे ।
सप्तद्वीपनिवासानां नान्येषामिति निश्चयः ।। ६
प्रकृतं श्रृणु हे राम तद्ब्रह्माण्डकवाटकम् ।
यत्प्रमाणं ततो वारि बाह्ये दशगुणं स्थितम् ।। ७
तद्ब्रह्माण्डकवाटं तु तृणं तृणमणिर्यथा ।
धत्ते वारि स्वभावेन नित्यं कल्पकरत्नवत् ।। ८
सर्वेषामेव भावानां स्थितः कल्पकरत्नवत् ।
सर्वदा पार्थिवो भागस्तेनात्रैते पतन्त्यलम् ।। ९
जलाद्दशगुणं बाह्ये स्थितं तेजो निरिन्धनम् ।
आकाशविशदं शान्तस्तब्धज्वालोदरोपमम् ।। १०
तस्माद्दशगुणो बाह्ये संस्थितो वायुरायतः ।
वायोर्दशगुणं बाह्ये व्योम तिष्ठति निर्मलम् ।। ११
ततः परतरं शान्तं ब्रह्माकाशमनन्तकम् ।
न प्रकाशं न च तमो महाचिद्धनमव्ययम् ।। १२
अनादिमध्यपर्यन्ते तस्मिन्ब्रह्ममहाम्बरे ।
महाचिन्नाम्नि सर्वात्मन्ययोनिर्वाणरूपिणि ।। १३
ब्रह्माण्डानां तादृशानां दूरे दूरे पुनःपुनः ।
मिथोलक्षाणि लक्षाणि कचन्त्युपरमन्ति च ।। १४
न किंचित्कचयत्यत्र समे कचनरूपिणि ।
तादृद्ध्ययं तथारूपं तदात्मन्येव संस्थितम् ।। १५
एष ते कथितः सर्वो दृश्यानुभवनक्रमः ।
अधुना श्रृणु किंवृत्तं लोकालोके विपश्चितः ।। १६
स्वभ्यस्तपूर्वसंस्कारो विलसन्निश्चयेरितः ।
लोकालोकगिरेर्मूर्घ्नस्तमःश्वभ्रं पपात सः ।। १७
ददर्श तत्र शिखरप्रतिमैर्विहगैर्वपुः ।
विकर्तितं मनोदेहं प्रसृतं च स्वचिन्तिते ।। १८
देशस्य तस्य पुण्यत्वाद्देहं तच्चातिवाहिकम् ।
आधिभौतिकताबोधं नानयन्निर्मलाशयः ।। १९
तावन्मात्रप्रबोधोऽसौ नाधिकं बोधमागतः ।
चिन्तयित्वाऽसितं कार्यं बभूव प्रकृतेर्हितः ।।
श्रीराम उवाच ।
अदेहं प्रसरत्येतच्चित्तं कार्ये कथं मुने ।
आतिवाहिकसंवित्तेर्बोधः स्यात्कीदृशोऽधिकः ।। २१
श्रीवसिष्ठ उवाच ।
संकल्पपथिकत्वेन यथान्तःपुरवासिनः ।
इदं मनः प्रसरति तथास्य प्रसृतं मनः ।। २२
भ्रमे स्वप्ने मनोराज्ये मिथ्याज्ञाने कथाश्रुतौ ।
यथा मनः प्रसरति तथा तत्प्रसृतं मनः ।। २३
पतन्ति तु शरीरं तदातिवाहिकमुच्यते ।
आधिभौतिकधीर्भाति विस्मृत्यात्रैव कालतः ।। २४
ते तदान्तर्धिमायाते सर्परज्जुभ्रमोपमे ।
आधिभौतिकदेहेऽस्मिञ्छिष्यतेत्वातिवाहिकः ।। २५
आतिवाहिक एषोऽङ्ग निपुणं प्रविचार्यताम् ।
चिन्मात्रव्यतिरेकेण यावदत्रान्यदस्ति नो ।। २६
देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।
चिन्मात्रस्यास्य तद्रूपमनन्तस्यैकरूपिणः ।। २७
क्व द्वैतं क्व च वा द्वेषः क्व रागादि तु कथ्यताम् ।
सर्वं शिवमनाद्यन्तं परो बोध इति स्मृतः ।। २८
निर्मनोमननं शान्तमासितं बोध उत्तमः ।
आतिवाहिकदेहस्थो न तं बोधमुपागतः ।। २९
विपश्चित्तद्विबोधोऽसौ ददर्श विसरन्मनः ।
आतिवाहिकबोधेन गर्भवासोपमं तमः ।। ३०
तमसोऽन्ते विरिञ्चाण्डकवाटच्छेदभूतलम् ।
वज्रसारं हेममयं कोटियोजनविस्तृतम् ।। ३१
तदन्ते प्राप सलिलं तस्मादष्टगुणं ततः ।
कपाटभूम्यैव समं स्थितमर्णवपृष्ठवत् ।। ३२
तमतीत्य ततः प्राप तेजोऽर्कगणभीषणम् ।
प्रलयाग्निघनज्वालापिण्डकोटरभास्वरम् ।। ३३
दाहशोकादिमुक्तेन वपुषा मानसेन तत् ।
तत्र गच्छन्त्य बुबुधे वहनं पूर्ववासितम् ।। ३४
उह्यमानो विवेदासावात्मानं त्वातिवाहिकम् ।
चित्तमात्रात्मनः स्वस्य किमिवोह्यत इत्यपि ।। ३५
इति बोधेन धीरात्मा तं तताराऽनिलार्णवम् ।
प्राप तद्विततं व्योम तस्माद्दशगुणं स्थितम् ।। ३६
तदतिक्रम्य स प्राप ब्रह्माकाशमनन्तकम् ।
यत्र सर्वं यतः सर्वं यन्न किंचिच्च किंचन ।। ३७
मनसा प्रभ्रमंस्तत्र दूराद्दूरतरं ययौ ।
तेन दृष्टं च पृथ्व्यापस्तेजो वायुस्तथा जगत् ।। ३८
पुनः संसाररचनाः पुनः सर्गाः पुनर्दिशः ।
पुनर्महीधरा व्योम पुनर्देवाः पुनर्नराः ।। ३९
पुनः पञ्चमहाभूतपर्यन्ते ब्रह्म निर्घनम् ।
पुनस्तत्र जगन्त्युच्चैः पुनः सर्गाः पुनर्दिशः ।। ४०
ब्रह्माकाशस्ततः सर्गाः पुनरन्ये त्वनिष्ठिताः ।
इत्यसौ विहरन्दीर्घकालमद्यापि संस्थितः ।। ४१
स्वनिश्चयाच्चिराभ्यस्तान्नासौ विरतिमेति हि ।
अन्तो नैवास्त्यविद्यायाः सा हि ब्रह्मैव सत्यता ।। ४२
वस्तुतो नास्त्यविद्येह ब्रह्मण्यविकलात्मनि ।
इदं दृश्यमविद्येयमित्यात्मैष विकासितः ।। ४३
यद्यथा जाग्रति स्वप्ने दृष्टं द्रक्ष्यसि पश्यसि ।
तत्तथा ब्रह्म सच्छान्तमासीदस्ति भविष्यति ।। ४४
घनतमःप्रविलोकनचक्रकं
क्रमजगत्प्रतिभानमिदं महत् ।
परतया प्रतिभात्मतयानया
न च सदङ्ग न वाप्यसदाकृति ।। ४५
तेष्वेव तेष्विव च तेषु तनूतरेषु
ब्रह्मोदरेषु चिरदूरतरं जगत्सु ।
सोऽद्याप्यसंविदिततत्त्वतया तयोच्चैः
खण्डेषु रङ्कुरिव राघव बंभ्रमीति ।। ४६
इ० श्रीवा० वा० दे० मो० नि० उ० अ० वि० ब्रह्मगीतासु ब्रह्माकाशविपश्चिज्जगच्चन्द्रदर्शननामाष्टाविंशत्युत्तरशततमः सर्गः ।।१२८।।