योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १३३


त्रयस्त्रिंशाधिकशततमः सर्गः १३३
विपश्चिदुवाच ।
कस्मिंश्चिदन्यत्र जगत्यपूर्वे
दृष्टं मयेदं श्रृणु किं विचित्रम् ।
महाघवृत्तान्तदशासमान-
मविद्ययान्धेन बलात्कृतं यत् ।। १
अस्ति क्वचित्खे भवतामगम्ये
जगज्ज्वलद्दीप्तिविचित्रसर्गः ।
एतादृगप्यम्बरतस्तदन्यत्
स्वाप्नं पुरं जाग्रति चेतसीव ।। २
तस्मिन्मया विहरता हृदयस्थमर्थ-
मन्वेष्टुमक्षि निहितं ककुभां मुखेषु ।
पश्यामि यावदचलप्रतिमा धरायां
छायालिजालमलिना परिबंभ्रमीति ।। ३
आश्चर्यमात्रमुचितं किमिदं निमेषा-
दित्यक्षि वै जगति यावदहं त्यजामि ।
खात्तावदद्रिमतुलं पुरुषाकृतिं द्रा-
गावर्तवृत्तिभिरपश्यमहं पतन्तम् ।। ४
कः स्यादयं गिरिगुरुः पुरुषो विराड्वा
पर्यस्तपर्वतवदाशु पतच्छरीरः ।
आकाशपूरकवपुः परमाम्बरोऽपि
यो नैव भाति पिहिताखिलवासरश्रीः ।। ५
एवंविधां हृदि मनाक्कलयामि याव-
त्तावत्पपात सहसा नभसो विवस्वान् ।
कल्पान्तवातपरिवृत्तपितामहाण्ड-
पृष्ठावपातघनघोषजुषा जवेन ।। ६
तस्मिन्पतति भीमात्मन्यपारावारदेहिनि ।
सप्तद्वीपां वसुमतीं परिपूरयति क्षणात् ।। ७
स्वात्मनो नाशमाशंक्य सद्वीपभुवनैः सह ।
अवश्यभाविपार्श्वस्थमहमग्निमथाविशम् ।। ८
स जातवेदा भगवान्जन्मान्तरशतार्चितः ।
मा भैषीरिति देहेन मामुवाचेन्दुशीतलः ।। ९
जय देव त्वमस्माकं प्रतिजन्म परायणम् ।
अकाल एव कल्पान्तो जातोऽतः पाहि मां प्रभो ।। १०
इत्युक्तेनाग्निना प्रोक्तं मा भैषीरिति तत्पुनः ।
उत्तिष्ठागच्छ गच्छावो मल्लोकमिति चानघ ।। ११
इत्युक्त्वा शुकपृष्ठेऽसावारोप्य भगवांस्ततः ।
देहैकदेशे तत्पाति भूतं दग्ध्वा नभः प्लुतः ।। १२
अनन्तरं नभः प्राप्य दृष्टः कष्टाकृतिर्मया ।
स तादृग्भूतसंपातमहोत्पातो भयप्रदः ।। १३
तस्मिन्जवेन पतिते वसुधा चचाल
साम्भोधिशैलवनपत्तनजङ्गलौघा ।
चक्रे भृगुद्वयमयानजलस्रवन्ती
भीमाकृतीन्व्यधुरदेहविभेदगर्तान् ।। १४
उर्वी ररास ककुबुत्तरतो ररास
पूर्वा ररास विररास च दक्षिणा दिक् ।
द्यौराररास विररास सशैलभूतं
सर्वं जगत्प्रलयसंभ्रमभीतमुच्चैः ।। १५
उर्वी ररास धरणे सविरावरंहः-
संरम्भतर्जितसमस्तदिगन्तरासा ।
व्योमापि घुंघुममलङ्घ्यमलं चकार
नागारिवृन्दभयविद्रवणप्रचण्डम् ।। १६
निर्घातशब्द उदभूदभितो भयाय
भीमाय भूधरदरीदृढदारणोत्थः ।
उत्पातभीमजवजालयुगान्तवात-
संरब्धकल्पघनघोषवितीर्णतर्जः ।। १७
तस्मिञ्जवेन पतिते वसुधा ररास
सारावदिंमुखतया शतवेधमागात् ।
तत्रास्फुटन्कुलगिरीन्द्रमहातटानि
पातालदेशमविशन्हिमवच्छिरांसि ।। १८
आसीत्तत्पतनं तस्य मेरुशैलशिलाकृतेः ।
दलनं शैलश्रृङ्गाणां विदारणकरं भुवः ।। १९
क्षोभणं जलराशीनामद्रीणां भूतलार्पणम् ।
पीडनं सर्वभूतानां क्रीडनं प्रलयार्थिनाम् ।। २०
पातनं भूतले भानोः स्थगनं द्वीपपद्धतेः ।
चूर्णीकरणमद्रीणां दलनं मण्डलावनेः ।। २१
द्वितीयमिव भूपीठं ब्रह्माण्डार्धमिवापरम् ।
पतितं खमिवाकृत्या तदपश्यन्नभश्चराः ।। २२
अथ पश्याम्यहं यावदसौ मांसमयोऽचलः ।
न माति सप्तद्वीपायां भुवि तस्याङ्गमेककम् ।। २३
तमालोक्य मया देवः प्रसादे समवस्थितः ।
संपृष्टो भगवान्वह्निः प्रभो किमिदमित्यथ ।। २४
कथं मांसमयः सार्धं स चार्कः पतितो दिवः ।
स न माति हि भूपीठे सपर्वतवनाम्बुधौ ।। २५
अग्निरुवाच ।
प्रतिपालय पुत्र त्वं क्षणमेकं गतत्वरः ।
यावच्छाम्यतु दोषोऽयं कथयिष्यामि ते ततः ।। २६
अथ तस्मिन्वदत्येवं समाजग्मुर्नभश्चराः ।
तज्जगज्जालजातीया दिग्भ्यो गगनजाखिलाः ।। २७
सिद्धसाध्याप्सरोदैत्यगन्धर्वोरगकिन्नराः ।
ऋषयो मुनयो यक्षाः पितरो मातरोऽमराः ।। २८
अथ सर्वेश्वरीं देवीं शरण्यां ते नभश्चराः ।
भक्तिनम्रशिरःकायाः कालरात्रिं प्रतुष्टुवुः ।। २९
नभश्चरा ऊचुः ।
बद्ध्वा खट्वाङ्गश्रृङ्गे कपिलमुरुजटामण्डलं पद्मयोनेः
कृत्वा दैत्योत्तमाङ्गैः स्रजमुरसि शिरःशेखरं
तार्क्ष्यपक्षैः ।
या देवी भुक्तविश्वा पिबति जगदिदं साद्रिभू पीठभूतं
सा देवी निष्कलङ्का कलिततनुलता पातु नः
पालनीयान् ।। ३०
इत्यार्षे श्रीवासिष्ठमहारामा० वा० दे० मो० नि० उ० अ० वि० शवोपाख्याने महाशववर्णनं नाम त्रयस्त्रिंशाधिकशततमः सर्गः ।।१३३ ।।