योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १४०


चत्वारिंशदधिकशततमः सर्गः १४०
व्याध उवाच ।
भगवंस्त्वादृशस्तां तामवस्थां च कथं गतः ।
कथं ध्यानप्रयोगेण तदा नोपशमं गतः ।। १
मुनिरुवाच ।
कल्पान्तेषु विनश्यन्ति नाशैर्नानाविधात्मभिः ।
जगन्ति भ्रान्तिरूपाणि नभस्याभासरूपिभिः ।। २
कदाचित्क्रमशो नाशः कल्पान्ते संप्रवर्तते ।
अशङ्कितं कदाचिद्द्रागेकधादिविकारतः ।। ३
तदा द्रागित्येव यदा विकृतं वारि तत्तथा ।
तेन यावत्सरन्त्याद्यं तावन्नीता जलैः सुराः ।। ४
अन्यच्च विपिनाधीश कालः सर्वंकषो ह्ययम् ।
यत्र काले ततस्तस्मिंस्त्ववश्यंभावि तत्तथा ।। ५
बलं बुद्धिश्च तेजश्च क्षयकाल उपस्थिते ।
विपर्यस्यति सर्वत्र सर्वथा महतामपि ।। ६
अन्यच्च विपिनाधीश मयैतत्तव वर्णितम् ।
स्वप्नदृष्टं किल स्वप्ने किं न संभवतीह कम् ।। ७
व्याध उवाच ।
असदेतद्यदि विभो स्वप्नसंभ्रममात्रकम् ।
कथितेन तदैतेन कोऽर्थः कल्याणकोविद ।। ८
मुनिरुवाच ।
त्वद्बोधनात्मकं कार्यं महदस्त्यत्र बुद्धिमन् ।
एतद्भ्रमात्मकं वेत्ति भवान्सत्यं तु मे श्रृणु ।। ९
अनन्तरमहं तस्मिन्मत्तैकार्णवरंहसि ।
जन्तोरोजः स्थितः स्वप्ने भ्रान्तं भ्रान्तो व्यलोकय ।। १०
यावत्ससकलं वारि क्वापि निर्गन्तुमुद्यतम् ।
विक्षुब्धवज्रवित्रस्तसपक्षाद्रीन्द्रवृन्दवत् ।। ११
लब्धवानुह्यमानोऽहं कंचिद्दैववशात्तटम् ।
अवसं तमवष्टभ्य शिखरप्रान्तसंनिभम् ।। १५
अथ क्षणेन सलिलं तदशेषेण निर्ययौ ।
वीच्यग्रस्फुटिताकारैर्देवैस्तारकिताम्बरम् ।। १३
तारागणैश्च पातालगतैर्मणिमयोदरम् ।
आवर्तेषु परावृत्तैः स्फारमद्रिजरत्तृणैः ।। १४
हेमद्वीपोपमैर्व्याप्तं गीर्वाणपुरमन्दिरैः ।
भ्रमत्सुराङ्गनालीननलिनीजालमालितम् ।। १५
मध्योह्यमानकल्पाभ्रनीलशैवालजालकम् ।
विद्युद्गोरोचनाम्भोदनीलनीरजनिर्भरम् ।। १६
स्फुरत्सीकरनीहारमेघाद्रिकृतदिक्तटम् ।
उल्लोलद्वीचिसंदिग्धवहत्कल्पद्रुमव्रजम् ।। १७
अथैकार्णवखातोऽसावभवच्छुष्ककोटरः ।
क्वचिद्गलितसह्याद्रि क्वचित्संशीकमन्दरः ।। १८
क्वचित्कङ्कनिमग्नेन्दुयमवासवतक्षकः ।
क्वचित्पङ्कनिमग्नाधःशाखकल्पद्रुमोत्करः ।। १९
क्वचित्कमलवत्कीर्णलोकपालशिरःकरः ।
क्वचित्पङ्कजविश्रान्तरुधिरह्रदपाटलः ।। २०
क्वचिदाकण्ठनिर्मग्नक्वणद्विद्याधरीगणः ।
क्वचित्स्वप्नमृतेभाभयाम्योग्रमहिषावृतः ।। २१
क्वचित्सन्नमहाकायगरुडामरपर्वतः ।
क्वचिन्मत्तमहासेतुर्यमदण्डेन भूजुषा ।। २२
क्वचित्प्रमृतवैरिञ्चहंससस्मितपङ्कभूः ।
क्वचित्पङ्कविनिर्मग्नदेहार्धामरवारणः ।। २३
एतस्मिन्नन्तरे तत्र सानुं प्राप्याश्रमे श्रमात् ।
विश्रान्तोस्मि यदा तेन भृशं निद्राजगाम माम् ।। २४
ततः सुषुप्तनिद्रान्तस्तया वासनयान्वितः ।
तं तादृगेव कल्पान्तमपश्यं स्वौजसि स्थितः ।। २५
दृष्ट्वा तद्द्विगुणं दुःखं चिरेणात्राहमाकुलः ।
प्रबुद्धो दृष्टवान्सानुं तमेवास्य हृदि स्थितम् ।। २६
अथ तत्र द्वितीयेऽह्नि भास्करोदयसुन्दरम् ।
सलोकाकाशभूशैलं भुवनं दृष्टवानहम् ।। २७
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
इति मे चेतसो जातं पत्रादि विटपादिव ।। २८
ततस्तस्मिंस्तथा दृष्टे भूतले तैः पदार्थकैः ।
व्यवहारं प्रवृत्तोऽहं किंचिद्विस्मृतधीरितः ।। २९
जातस्य मेऽद्य वर्षाणि षोडशैष पिता मम ।
इयं मातास्पदं चेदमिति मे प्रतिमोदभूत् ।। ३०
अपश्यं ग्रामकं कंचित्कंचिच्च ब्राह्मणाश्रमम् ।
किंचिद्गेहं तथा कश्चिद्वन्धुः कस्मिंश्चिदाश्रमे ।। ३१
अथ मे तिष्ठतः सार्धं बन्धुभिर्ग्राममन्दिरे ।
अहोरात्रेषु गच्छत्सु जाग्रदादींस्तदेव सत् ।। ३२
ततः कालवशात्तत्र प्राक्तनी बोधधीर्मम ।
विस्मृता तादृशाभ्यासादहो तस्येव मत्स्यता ।। ३३
इत्यहं ग्रामवास्तव्यः संपन्नो ब्राह्मणस्तदा ।
देहमात्रकबद्धास्थो दूरीकृतविवेकभूः ।। ३४
शरीरमात्रात्मवपुर्दारमात्रानुरञ्जितः ।
वासनामात्रसारात्मा धनमात्रैकतत्परः ।। ३५
जीर्णगोमात्रकधनः संरोपितलतावृतिः ।
संचिताग्न्यवनिप्राणिरुपार्जितकमण्डलुः ।। ३६
चलवृक्षकबद्धास्थो लोकाचाररतः सदा ।
गृहपार्श्वगतानीलशाद्वलस्थलिकास्थितिः ।। ३७
शाकशाकायतारामरचनानीतवासरः ।
सरिद्ह्रदनदीतीर्थसरसि स्नानतत्परः ।। ३८
गोमयान्नजलाम्ब्वग्निकाष्ठेष्टा कष्टसंचयी ।
इदं कार्यमिदं नेति पाशाभ्यां विवशीकृतः ।। ३९
इति मे जीवतस्तत्र संवत्सरशतं गतम् ।
एकदाभ्यागतो दूरात्तापसोऽतिथिरात्मवान् ।। ४०
पूजितोऽसौ विशश्राम मृद्गृहे स्नानपूर्वकम् ।
भुक्तवाञ्छयने स्थित्वा रात्रौ वर्णितवान्कथाम् ।। ४१
नानादिग्देशशैलोर्वीव्यवहारमनोहरे ।
कथाप्रसङ्गे कस्मिंश्चिन्नानाविधरसाश्रये ।। ४२
सर्वं चिन्मात्रमेवेदमनन्तमविकारि च ।
जगत्तयेव कचति यथास्थितमपि स्थितम् ।। ४३
इत्यहं बोधितस्तेन बोधैकघनतां गतः ।
स्मृतवांस्तमशेषेण वृत्तान्तं धारणावशात् ।। ४४
स्मृतवानात्मवृत्तान्तं यस्याहमुदरे स्थितः ।
तं विराडपमाशङ्क्य तस्मान्निर्गन्तुमुद्यतः ।। ४९
तदास्यं निर्गमद्वारमथ जानामि नो यदा ।
विस्तीर्णे भुवने यस्मिन्भूम्यब्ध्यद्रिसरिद्वृते ।। ४६
तदा तमत्यजन्नेव देशं बन्धुजनावृतम् ।
तस्य प्राणं प्रविष्टोऽहं निर्गन्तुं पवनं बहिः ।। ४७
इहस्थस्य विराजोऽस्य बाह्यमाभ्यन्तरं तथा ।
अन्यजं सर्वमीक्षेऽहमिति निर्णीय तादृशम् ।। ४८
धारणां संविदा बद्ध्वा प्रदेशं स्वं तमत्यजम् ।
तत्प्राणैः सह निर्यात आमोदः कुसुमादिव ।। ४९
पवनस्कन्धमासाद्य प्राप्य तन्मुखकोटरम् ।
बहिर्वातरथेनाहं निर्गतो दृष्टवान्पुरः ।। ५०
यावत्तथैव मद्देहो बद्धपद्मासनः स्थितः ।
क्वापि मुन्याश्रमः शिष्यैः पालितो गिरिकन्दरे ।। ५१
पुरो मे तिष्ठतां तेषां मत्संरक्षणकर्मणाम् ।
मुहूर्तमात्रं च गतः कालश्चान्ते निवासिनाम् ।। ५२
हृदयं संप्रविष्टोऽसौ यस्याहं स पुमानपि ।
पृष्ठेनोत्सवलब्धेन शेते तृप्तोऽन्धसा सुखम् ।। ५३
तदाश्चर्यं मया दृष्ट्वा नोक्तं किंच न कस्यचित् ।
पुनस्तस्यैव हृदयं प्रविष्टः कौतुकादहम् ।। ५४
प्राप्तोऽस्म्योजःप्रदेशं तं तस्य तस्मिन्हृदन्तरे ।
अवेक्षितुं स्वबन्धूंस्तान्व्याप्तो वासनया तया ।। ५५
यावत्तत्र युगस्यान्तः संप्रवृत्तोऽतिदारुणः ।
भुवनं तद्विपर्यासमागतं सह संस्थया ।। ५६
अन्य एवाचलास्तत्र वसुधान्या च संस्थिता ।
अन्य एव ककुब्भेदस्तथान्या भुवनस्थितिः ।। ५७
ते बन्धवः स च ग्रामः स भूभागः स दिक्तटः ।
न जाने क्व गतं सर्वं व्यूह्य नीतमिवानिलैः ।। ५८
तदा पश्यामि भुवनं यावदन्यदवस्थितम् ।
अपूर्वसंनिवेशं तज्जगदन्यदिवोदितम् ।। ५९
तपन्ति द्वादशादित्याः प्रज्वलन्ति दिशो दश ।
शीताश्यानाम्बुवच्छैलाः प्रवृत्ता गलितुं बलात् ।। ६०
अद्रावद्रौ दिशिदिशि ज्वलन्ति वनपङ्क्तयः ।
दग्धाः स्मृतिपदं याताः समस्ता रत्नभूतयः ।। ६१
सर्व एवाब्धयः शुष्का महावाताः पुरःस्थिताः ।
अङ्गारराशितां यातं भूमण्डलमशेषतः ।। ६२
पातालतो भूतलतोऽथ दिग्भ्यो
ज्वाला विनिर्गन्तुमनुप्रवृत्ताः ।
संध्याभ्रवच्चाशु बभूव विश्वं
ज्वालामये मण्डलमेकमेव ।। ६३
ज्वालामये सद्मनि हेमपद्म-
कोशे भ्रमद्भृङ्ग इव प्रविष्टः ।
ततोऽहमाराच्छलभक्रमेण
न चाप्तवान्दाहविकारदुःखम् ।। ६४
ज्वालामये साधु महाम्बुवाहे
भ्रमाम्यहं विद्युदिवानिलात्मा ।
ज्वालापरिस्पन्दविलोलवर्ष्मा
स्थलाब्जखण्डभ्रमरोपमश्रीः ।। ६५
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अ० वि० हृदयकल्पनावर्णनं नाम चत्वारिंशदधिकशततमः सर्गः ।। १४० ।।