योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १४२
मुनिरुवाच ।
वर्तमाने तदा तस्मिन्कष्टे संभ्रान्तसंभ्रमे ।
उह्यमानोऽहमत्यन्तं खेदमभ्यागतोऽभवम् ।। १
अचिन्तयं तत्स्वप्नोऽयं परस्य हृदये मम ।
तदतः परिनिर्वामि दुःखं पश्यामि किं मुधा ।। २
व्याध उवाच ।
किंस्वित्स्यात्स्वप्न इत्येव किल संदेहशान्तये ।
प्रविष्टो हृदयं तस्य किं तं निर्णीतवानसि ।। ३
किमेतद्भवतां दृष्टं हृदये क्व महार्णवः ।
जठरे कल्पवातः किं हृदि कल्पानलः कथम् ।। ४
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
कथं हृदि जगन्नाम कथयेति यथास्थितम् ।। ५
मुनिरुवाच ।
अकारणत्वात्सर्गादावेवानुत्पादतः स्फुटात् ।
अज्ञातौ सर्गशब्दार्थावेव न स्तो मनागपि ।। ६
तच्चैतौ सर्वशब्दार्थौ त्वज्ञातौ परमात्मनि ।
यतस्तत्पदमज्ञानज्ञानात्मकमनामयम् ।। ७
अतः सुभग सिद्धान्ते त्वत्पक्षे बोधमागते ।
मौर्ख्यशान्तावनाद्यन्ते पदे परमपावने ।। ८
वच्मीदं मूढसंवित्तौ यदिद तन्न वेद्म्यहम् ।
वस्त्ववस्तुजमाभातं बोधमात्रमिदं ततम् ।। ९
क्व शरीरं क्व हृदयं क्व स्वप्नः क्व जलादि च ।
क्व बोधो बोधविच्छित्तिः क्व जन्ममरणादि च ।।१०
स्वच्छं चिन्मात्रमस्तीह तन्नाम यदपेक्षया ।
स्थूलमेव खमप्यद्रिरणूनां निकटे यथा ।। ११
स्वभावात्स चिदाकाशः किंचिच्चेतति चिन्तया ।
खमेव वपुराकाशं यत्तद्वेत्ति जगत्तया ।। १२
यथा स्वप्ने पुरतया चिदेवाभाति केवला ।
न तु किंचित्पुराद्येवं जगच्चिन्मात्रमेव खे ।। १३
इदं शान्तमनाभातमनन्यन्नैतदात्मनि ।
चिति दृशौ तमसि खे चक्रकादीव भाति ते ।। १४
अस्माकं तु न चाभानं न चासन्न च सन्न खम् ।
अनाकारमनाद्यन्तमेकं चिद्व्योम केवलम् ।। १५
भात्यकारणकं स्वप्ने शुद्धौ द्रष्टैव केवलः ।
तेनात्र कारणाभावो न द्रष्टास्ति न दर्शनम् ।। १६
शुद्धं किमपि तद्भाति स्वानुभूतमपि स्फुटम् ।
यदवाच्यमनाद्यन्तमेकं द्वैतैक्यवर्जितम् ।। १७
एकः कालो यथा कल्पः प्रकाशश्चोभयात्मकः ।
बीजं वा फलपुष्पान्तं ब्रह्म सर्वात्मकं तथा ।। १८
यदन्यस्य महत्कुड्य तदन्यस्यामलं नभः ।
दृष्टमेतत्स्थिरस्वप्नसंकल्पभ्रमभूमिषु ।। १९
स्वच्छं तदा तदात्मैकं भाति चिन्मात्र खं यथा ।
स्वप्ने जागृतिवत्तद्वज्जाग्रत्स्वप्नेऽपि नान्यथा ।। २०
अदृश्ये पवने यद्वददृश्यं सौरभं स्थितम् ।
चिन्मात्रेऽप्रतिघे तद्वज्जगदप्रतिघं स्थितम् ।। २१
समस्तमननत्यागे योऽसि सोऽसि निरामयः ।
बहिरन्तरनन्तात्मा सुस्थितोऽपि निरन्तरम् ।। २२
व्याध उवाच ।
भगवन्प्राक्तनं कर्म केषामिह हि विद्यते ।
केषां न विद्यते तद्वद्विनापि भवतः कथम् ।। २३
मुनिरुवाच ।
सर्गादिषु स्वयं भान्ति ब्रह्माद्या ये स्वयंभुवः ।
विज्ञप्तिमात्रदेहास्ते न तेषां जन्मकर्मणी ।। २४
तेषामस्ति न संसारो न द्वैतं न च कल्पनाः ।
विशुद्धज्ञानदेहास्ते सर्वात्मानः सदा स्थिताः ।। २५
सर्गादौ प्राक्तनं कर्म विद्यते नेह कस्यचित् ।
सर्गादौ सर्गरूपेण ब्रह्मैवेत्थं विजृम्भते ।। २६
यथा ब्रह्मादयो भान्ति सर्गादौ ब्रह्मरूपिणः ।
भान्ति जीवास्तथान्येऽपि शतशोऽथ सहस्रशः ।।९७
किंतु ये ब्रह्मणोऽन्यत्वं बुध्यन्ते सात्त्विकोद्भवाः ।
अबोधा ये त्वचिदाख्यं बुद्ध्वा द्वैतमिदं स्वयम् ।। २८
तेषामुत्तरकालं तत्कर्मभिर्जन्म दृश्यते ।
स्वयमेव तथा भूतैस्तैरवस्तुत्वमाश्रितम् ।। २९
यैस्तु न ब्रह्मणोऽन्यत्वं बुद्धं बोधमहात्मनि ।
निरवद्यास्त एतेऽत्र ब्रह्मविष्णुहरादयः ।। ३०
सर्वात्म संविदोऽच्छत्वं ब्रह्मात्मन्येव संस्थितम् ।
तत्क्वचिज्जीववद्भानं स्वयमात्मनि पश्यति ।। ३१
यत्र वेत्ति तु जीवत्वं तत्राविद्येति तिष्ठति ।
तत्र संसृतिनाम्नात्मा धत्ते रूपं तथास्थितम् ।। ३२
स्वयमेव हि कालेन बुद्ध्वा स्वं रूपमात्मनः ।
स्वयमेव स्वरूपस्थं ब्रह्मैव भवति स्वयम् ।। ३३
यथा द्रवत्वादम्ब्वन्तरेति चावर्ततामिव ।
ब्रह्म चित्त्वात्तथैतीव सर्गतामस्य सर्गकम् ।। ३४
ब्रह्मभानमयं सर्गो न स्वप्नो न च जागरः ।
कस्य कान्यत्र कर्माणि कीदृशानि कियन्ति वा ।।३५
वस्तुतः कर्म नास्त्येव नाविद्यास्ति न सर्गधीः ।
स्वसंवेदनतः सर्वमसदेव प्रवर्तते ।। ३६
ब्रह्मैव सर्गो भूतात्मा कर्म जन्मेति कल्पनाः ।
स्वयं कुर्वदिदं भाति विभुत्वात्कल्पितार्थभाक् ।। ३७
न संभवति जीवस्य सर्गादौ कर्म कस्यचित् ।
पश्चात्स्वकर्म निर्माय भुङ्क्ते कल्पनया स चित् ।। ३८
जलावर्तस्य को देहः कानि कर्माणि चोच्यताम् ।
यथाम्बुमात्रमावर्तो ब्रह्ममात्रं तथा जगत् ।। ३९
यथा स्वप्नेषु दृष्टानां न प्राक्कर्म नृणां भवेत् ।
आदिसर्गेषु जीवानां तथा चिन्मात्ररूपिणाम् ।। ४०
सर्गे सर्गतया रूढे भवेत्प्राक्कर्मकल्पना ।
पश्चाज्जीवा भ्रमन्तीमे कर्मपाशवशीकृताः ।। ४१
सर्ग एव न सर्गोऽयं ब्रह्मेत्थं किल तिष्ठति ।
यत्र तत्र क्व कर्माणि कानि वा कस्य तानि वा ।। ४२
अपरिज्ञानमात्रं यत्स्वयं वै परमात्मनः ।
तदेतत्कर्म बन्धाय तत्तज्ज्ञस्योपशाम्यति ।। ४३
यावद्यावत्परिज्ञानं पण्डितस्य प्रवर्तते ।
तावत्तावत्तदैवास्य कर्म शाम्यति बन्धनम् ।। ४४
यन्नाम किल नास्त्येव तच्छान्तौ का कदर्थना ।
परमार्थादृते बन्धः किंचिन्नाम न विद्यते ।। ४५
तावन्माया भवभयकरी पण्डितत्वं न याव-
त्तत्पाण्डित्यं पतसि न पुनर्येन संसारचक्रे ।
यत्नं कुर्यादविरतमतः पण्डितत्वेऽमलात्म-
ज्ञानोदारे भयमितरथा नैव वः शान्तिमेति ।। ४६
इत्यार्षे श्रीवासिष्ठमहा० वा० दे० मो० नि० उ० अ० वि- शवो- कर्मनिर्णयो नाम द्विचत्वारिंशदधिकशततमः सर्गः ।। १४२।।