योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १४८


अष्टचत्वारिंशदधिकशततमः सर्गः १४८
व्याध उवाच ।
एवं चेत्तन्मुनिश्रेष्ठ सत्यतासत्यता कथम् ।
स्थितः स्वप्नदृशा चैष सुमहान्संशयो मम ।। १
मुनिरुवाच ।
देशकालक्रियाद्रव्यैर्या संविन्निश्चितोदिता ।
काकतालीयवद्भाति सा सत्यस्वप्ननामिका ।। २
मणिमन्त्रौषधिद्रव्यैः क्वचिदव्यभिचारिणी ।
क्वचित्सव्यभिचारा चित्सत्यस्वप्नाभिधा स्मृता ।। ३
सत्यस्वप्नस्थितिर्लोकेष्वीदृग्रूपा यदा स्थिता ।
तदैषा काकतालीयन्यायादन्या न लभ्यते ।। ४
यं यं निश्चयमादत्ते संवित्स्वदृढनिश्चया ।
तथा तथा भवत्येषा फलयुक्तस्वभावतः ।। ५
तमेव निश्चयं त्वस्या अन्यः प्रतिनिहन्ति चेत् ।
तत्रासौ निश्चयः प्रौढः स कथं लक्ष्यभाग्भवेत् ।। ६
न बहिर्नान्तरे सन्ति पदार्थाः केचन क्वचित् ।
संविदेका जगद्रूपैर्यथेच्छति तथा स्थिता ।। ७
स्वप्नोऽयं सत्य इत्यन्तर्निश्चयेन तथोदिता ।
तथैवाशु भवत्येषा संशयात्संशयं व्रजेत् ।। ८
अन्यतोऽपि फलं प्राप्तं स्वप्नसत्यत्वकल्पनात् ।
स्वप्नेन सूचितमिदं फलमित्येव वेत्त्ययम् ।। ९
सर्व एव निजया जगत्त्रये
संविदातिशयिता दृढा अपि ।
कालतो व्यभिचरन्ति देशतो
यत्नतश्च चिरतोऽचिरेण वा ।। १०
सर्गादावेव चिद्व्योम भानमप्रतिघं जगत् ।
वस्तुसत्तां चिदेवातो यथेष्टं तनुते तनुः ।। ११
चिन्मात्रं वर्जयित्वैकं ब्रह्मान्यत्सर्वदाखिलम् ।
विद्धि सत्यमसत्यं च नियतानियतं स्थितम् ।। १२
यस्माद्ब्रह्मैव सर्वात्म सदेकमेव नेतरत् ।
तस्मात्किं नाम तत्सत्यं किमसत्यं च वा भवेत् ।। १३
अतः स्वप्नः क्वचित्सत्यः क्वचिच्चासत्य एव वा ।
अबुद्धानां प्रबुद्धानां नासद्रूपो न सन्मयः ।। १४
संविद्भ्रान्तिरियं भाति जगन्नाम्नी स्वरूपिणी ।
स्वयं च भ्रान्तिरस्मीतिवादिनी कात्र निश्चिता ।। १५
चितिरेव चिरायेदं चित्तं चिमचिमायते ।
यदात्मन्येव सलिलं द्रववत्तदिदं जगत् ।। १६
यथा स्वप्नं समालोक्य सुषुप्तमनुभूयते ।
तथा जाग्रत्समालोक्य निद्रा समनुभूयते ।। १७
अतस्त्वं जाग्रदेवेदं स्वप्नं विद्धि महामते ।
स्वप्नं च विद्धि जाग्रत्त्वमेकमेतदजं द्वयम् ।। १८
व्योमैवाचेत्यचिन्मात्रभानमेकमिदं ततम् ।
जाग्रत्स्वप्नसुषुप्त्याख्याः पर्यायरचना इह ।। १९
नेह नामास्ति नियतिर्न चानियतिरस्ति च ।
नियत्यनियती ब्रूहि कीदृशे स्वप्नसंविदि ।। २०
यावद्भानं किल स्वप्ने तावत्सैव नियन्त्रणा ।
स एव संविद्भानस्य कुर्यान्नियमनं मुनिः ।। २१
स्वच्छन्दं वातलेखायाः स्फुरन्त्याः संविदस्तथा ।
अकारणकमेवाङ्ग नियतिः केव कीदृशी ।। २२
अथाकारादि यन्नाम कल्प्यते कारणं विदः ।
तदकारणकं सर्गः स्यादनन्यन्न वै चितेः ।। २३
एतावत्येव नियतिरत्र यन्नाम यद्यथा ।
यावत्प्रस्फुरितं भानं तत्तथा न तदन्यथा ।। २४
कदाचित्सत्यता स्वप्ने कदाचिच्चाप्यसत्यता ।
अभावान्नियतेरेव काकतालीयमेव तत् ।। २५
यत्स्वेनैवात्मना भाति मणिमन्त्रौषधात्मना ।
यन्नाम नियतं तत्तु जाग्रत्यपि हि दृश्यते ।। २६
जाग्रत्स्वप्नश्च चिद्भानमात्रमेवान्यतात्र का ।
जाग्रति स्वप्ननगरे वेदनात्सदृशात्मकम् ।। २७
जाग्रन्न संभवत्येव यज्जाग्रदिति शब्दितम् ।
स्वप्न एव जगद्रूपं निर्निद्रस्यैव चात्मनः ।। २८
स्वप्नो वा नाम नास्त्येव यः स्वप्न इव शब्दितः ।
सुप्तासुप्तैकरूपस्य ब्रह्मणो बोधरूपता ।। २९
जाग्रत्स्वप्नादयो वैते न केचन कदाचन ।
दृश्यं पश्यति सत्ताशु मृतिभ्रान्तेरनन्तरम् ।। ३०
यथानवरतं कालमनन्तं सीकरोर्मयः ।
त एवान्यवदभ्राशावदनन्याः स्फुरन्त्यलम् ।। ३१
तथानन्ये परे सर्गाः स्फुरन्त्यस्फुरिता अपि ।
शिलाकोशान्तलेखावज्जाग्रत्स्वापादि तत्र किम् ।। ३२
जाग्रत्स्वप्नसुषुप्ततुर्यकवपुः साकारतावर्जितं
सर्वाकारमपि व्यतीतकलनं सर्गं शरीरं दधत् ।
व्याप्तं चिद्वपुषा तथापि सुषिरं शून्येन दृश्यात्मना
चिन्मात्रं खमिदं मनागपि नभोमात्रान्न भिन्नं पुनः
साकाशानिलवह्निवारिधरणीलोकान्तराम्भोधरं
सर्गादावपि कारणाननुभवाच्चित्तात्मकं केवलम् ।
नाम्ना वर्जितमेव बोधवपुषा संयुक्तमेवान्ततः
शुद्धं वेदनमात्रमेव सकलं दृश्यं न वस्त्वन्तरम् ।। ३४
इत्यार्षे श्रीवा० वाल्मी० दे० मो० निर्वा० उ० अवि० वि० श० स्वप्ननिर्णयो नामाष्टचत्वारिंशदधिकशततमः सर्गः ।। १४८ ।।