योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १४९


एकोनपञ्चाशदधिकशततमः सर्गः १४९
व्याध उवाच ।
अनन्तरं मुने ब्रूहि तत्तत्त्वं जागतस्य ते ।
किं वृत्तमुरुवृत्तान्तशतनिर्वाणसंसृतेः ।। १
मुनिरुवाच ।
ततः श्रृणु तदा साधो तस्मिंस्तद्धृदयौजसि ।
अपूर्वं एव वृत्तान्तः को वृत्तो वृत्तसस्पृह ।। २
तथा मम च तत्रस्थविस्मृतात्मचमत्कृतेः ।
अभ्यवर्तत वै कालो ऋतुसंवत्सरात्मकः ।। ३
कलत्ररञ्जितमतेर्मम वर्षाणि षोडश ।
तत्र तानि व्यतीतानि गृहस्थाश्रमतोऽमतेः ।। ४
कदाचिच्चाजगामाथ गृहमुग्रतपा मम ।
मुनिर्मान्यो महाबोधो बुधोऽतिथितया तथा ।। ५
सोऽत्र संपूजितस्तुष्टः सुप्तवान्भुक्तवांस्ततः ।
इदमङ्ग मया पृष्टो विमृश्य जनताक्रमम् ।। ६
भगवन्भूरिबोधोऽसि जानासि जगतो गतीः ।
यस्माददृष्टक्रोधोऽसि सुखे गृह्णासि नो रतिम् ।। ७
सुखदुःखान्युपायान्ति कर्मभिः कर्मशालिनाम् ।
शुभाशुभैः शरत्काले सस्यानीव फलार्थिनाम् ।। ८
सममेवाशुभं कर्म किमिमाः सकलाः प्रजाः ।
कुर्वन्त्यासां यदा यान्ति दोषाः सर्वादयः समम् ।। ९
दुर्भिक्षावग्रहोत्पातं सर्वादि सममेव किम् ।
जनजालस्य फलति समाना कस्य दुष्क्रिया ।। १०
इत्याकर्ण्य समालोक्य स्मयमान इवोन्मनाः ।
स उवाच वचो वन्द्यममृतस्यन्दसुन्दरम् ।। ११
अन्यमुनिरुवाच ।
साधो साधु विविक्तान्तःकरणे यत्तु कारणम् ।
सद्वासद्वास्य दृश्यस्य कस्माज्जानासि कथ्यताम् ।। १२
संस्मरात्मानमखिलं कस्त्वं क्वेह स्थितोऽसि च ।
क्वाहं वा किमिदं दृश्यं किं सारं किंचिदेव च ।। १३
स्वप्नमात्रमिदं भाति किल कस्मान्न वेत्सि भो ।
अहं स्वप्ननरो यत्ते त्वं स्वप्नपुरुषोपमः ।। १४
अनाकारमनाख्येयमनाद्यमपकल्पनम् ।
इदं चिन्मात्रकाचस्य काचकच्यं जगत्स्थितम् ।। १५
रूपमीदृशमेवास्य चिन्मात्रस्यास्त्यकृत्रिमम् ।
सर्वगस्य यदेतद्यद्यत्र वेत्यस्ति तत्र तत् ।। १६
सकारणत्वकलनात्सर्वमस्य सकारणम् ।
अकारणत्वकलनादस्य सर्वमकारणम् ।। १७
आसां प्रजानां त्वस्माकं विराडात्मा स आततः ।
वयं हृदि स्थिता यस्य स चास्मच्चिद्वशादितः ।। १८
भविष्यत्यपरोऽन्यासां विराडात्मा स एव च ।
कारणं सुखदुःखानां भावाभावात्मकर्मणाम् ।। १९
विराड्धातुविकारेण विषमस्पन्दनादिना ।
तदङ्गावयवस्यास्य जनजालस्य वै समम् ।। २०
दुर्भिक्षावग्रहातीतमायाति शममेति वा ।
यस्माद्विराजो या सत्ता सा सर्गस्यास्य सर्गता ।। २१
काकतालीयवत्साधो केषुचिद्दुष्टकर्मसु ।
समं पतति दुःखादि पादपेष्वशनिर्यथा ।। २२
कर्मकल्पनया संवित् स्वकर्मफलभागिनी ।
कर्मकल्पनयोन्मुक्ता न कर्मफलभागिनी ।। २३
या या यत्र यथोदेति कल्पनाल्पाथवाधिका ।
सा सा तत्र तथैवास्ते सहेतुकमहेतुकम् ।। २४
नास्त्येव स्वप्नमये
कारणसहकारि कारणादिपुरे ।
तस्मात्तदनादि शिवं
चेतनमजरं परं ब्रह्म ।। २५
एष स्वप्नभ्रमो नाम भाति कश्चिदकारणम् ।
कश्चित्सकारणो भाति शून्यः सदसदात्मकः ।। २६
काकतालीयवद्भान्ति स्वप्नाः सकलसंविदः ।
ताभ्यस्तुल्योपलम्भत्वान्नान्यज्जगदिदं ततम् ।। २७
सकारणतया रूढमिह यत्तत्सकारणम् ।
अकारणतया रूढमिह यत्तदकारणम् ।। २८
कार्यकारणमयक्रमोदितं
स्वप्न एष चितिभानमात्रकं ।
जाग्रदाख्यमहतः स्वभावकं
तेन शान्तमखिलं परं विदुः ।। २९
सत्यकारणका भावाः के ते श्रृणु महामते ।
कारणं किं स्वभावानां किमिहाकाशकारणम् ।। ३०
पृथ्व्यादेर्घनपिण्डत्वसर्गादेः किं च कारणम् ।
किं कारणमविद्यायाः कारणं किं स्वयंभुवः ।। ३१
सर्गादौ कारणं किं स्याद्वायूनां तेजसां च किम् ।
किमपां वेदनामात्ररूपाणां गगनात्मकम् ।। ३२
पिण्डग्रहे देहलाभे मृतानां किं च कारणम् ।
एवमेव प्रवर्तन्ते सर्गाः प्रथमतोऽखिलाः ।। ३३
एवमेव प्रवर्तन्ते जगत्यावलयन्ति च ।
चक्रकाणीव नभसि चिरसंप्रेक्षणादृशा ।। ३४
एवमेव प्रवृत्तेन सर्गेण ब्रह्मरूपिणा ।
पश्चात्स्वस्यैव रूपस्य संज्ञाः पृथ्व्यादिकाः कृताः ३५
वातस्पन्दवदाभान्ति सर्गाः पूर्वं चिदम्बरे ।
स्वयमेव च कुर्वन्ति देहकारणकल्पनाः ।। ३६
यद्यथा कल्प्यते धत्ते तत्तथा नियतिर्वपुः ।
कल्पितायाश्चितेर्यस्मादेवमेतन्निजं वपुः ।। ३७
यद्यद्भानात्मकं रूपं प्रथमं चेतितं चिता ।
स्वतोऽहमेव चित्येव तदद्यापि तथा स्थितम् ।। ३८
पुनरन्येन यत्नेन तदुत्कृष्टेन सैव चित् ।
शक्ता तदन्यथाकर्तुं यत्नेन महता पुनः ।। ३९
कल्प्यते कारणं यत्र तत्र कारणसारता ।
न कल्प्यते विदा यत्र कारणं तदकारणम् ।। ४०
वात्यावर्तवदाभातमिदं प्रथममाततम् ।
असदेव यथा भातं तथैवाद्यापि संस्थितम् ।। ४१
संभूय केचन शुभाशुभमात्मकर्म
कुर्वन्ति तस्य सदृशं फलमाप्नुवन्ति ।
संप्राप्नुवन्ति च शिलाशनिवच्च केचि-
द्दुःखं त्वकारणकमेव सहस्रसंख्याः ।। ४२
इत्यार्षे श्रीवा० वा० दे० मो० नि० उ० अवि० वि० श० कारणविचारो नामैकोनपञ्चाशदधिकशततमः सर्गः ।। १४९ ।।