योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १५०
पञ्चाशदधिकशततमः सर्गः १५०
मुनिरुवाच ।
एवंप्रकारया युक्त्या तेनायं मुनिना तदा ।
तथाहं बोधितो येन गतो विदितवेद्यताम् ।। १
ततोऽसौ न मया त्यक्तश्चिरप्रार्थनया तया ।
अवसत्तेन तत्रासौ मृतस्यापि तथैव च ।। २
येनैतन्मुनिना प्रोक्तमिन्दूदयशुभं वचः ।
सोऽयं पश्य मुनिश्रेष्ठस्तव पार्श्वे व्यवस्थितः ।। ३
अनेनोक्तमनुक्तेन ममैतन्मोहघातिना ।
दृश्यपूर्वापरज्ञेन यज्ञेनेवात्तमूर्तिना ।। ४
अग्निरुवाच ।
तदाकर्ण्य वचस्तस्य मुनेर्व्याधोऽभवत्तदा ।
प्रत्यक्षः स्वप्नसर्गः किमिति खिन्न इव स्मयात् ।। ५
व्याध उवाच ।
अहो महच्चित्रमिदं मुने मनसि दुःसहम् ।
कथितं मेऽद्य भवता भवतापापहारिणा ।। ५
यत्स्वप्नकथितस्येयं जाग्रत्प्रत्यक्षतोच्यते ।
लभ्यतेऽपि च तन्नाम वेद चित्रमिदं मुने ।। ७
कथमेष महान्स्वप्नपुरुषः स मुनीश्वर ।
जाग्रत्यपि स्थिरीभूतो भूतो बालमतेरिव ।। ८
एवमाश्चर्यमाख्यानमुच्यतां मे यथाक्रमम् ।
कुतः कस्य किमेतद्वा परमो हि स विस्मयः ।। ९
मुनिरुवाच ।
ततः श्रृणु महाभाग वृत्तं चित्रं किमत्र मे ।
कथयामि समासेन सहसा मां कुरु त्वराम् ।। १०
अनेनैतत्तदा तत्र वर्णितं बोधनाय मे ।
बुधोऽहमभवं चाशु महतोऽस्य तया गिरा ।। ११
तत एतद्गिरा पूर्वः स्वस्वभावः स्मृतो मया ।
अवदातोऽवदातेन नभसेव तपात्यये ।। १२
अहो नु सोऽहमभवं मुनिरित्युदिताशयम् ।
अहमासं हृदा स्फीतात्स्नातोऽवस्थितविस्मयात् ।।१३
इमां भोगास्थयावस्थां प्राप्तोऽस्म्यज्ञ इवाध्वगः ।
धावञ्छ्रमार्तिरम्ब्वर्थी व्यर्थया मृगतृष्णया ।। १४
कष्टं दृश्योपलम्भेन भ्रान्तिमात्रात्मना सता ।
बालो वेतालकेनेव प्राज्ञोऽपि च्छलितो ह्यहो ।। १५
अहो नु चित्रमेतेन मिथ्याज्ञानेन वल्गता ।
नीतः सर्वार्थशून्येन पदवीं कामिमामहम् ।। १६
अथवा यः सोऽहमपि भ्रान्तिमात्रं न सन्मयः ।
तथापि चित्रशतता यन्नामासद्विडम्ब्यते ।। १७
नाहमस्मि न चैवेयमिदं नायमपि भ्रमः ।
चित्रं सर्वमिदं मिथ्या सर्वं च सदिव स्थितम् ।। १८
किमिदानीं मया कार्यमिह बन्धभिदान्तरः ।
विद्यते मेऽङ्कुरश्छेद्यं तत्तावत्संत्यजाम्यहम् ।। १९
आस्तामेतदविद्यैषा व्यर्थरूपा किमेतया ।
भ्रान्त्या भ्रान्तिरसद्रूपा त्यक्तैवैषा मयाधुना ।। २०
उपदेष्टा मुनिरयमेषोऽत्र भ्रान्तिमात्रकम् ।
ब्रह्मैवाहमिवाभाति रूपमेतद्दिवाभ्रवत् ।। २१
तदेवं तावदुदितज्ञानं वक्ष्ये महामुनिम् ।
इति संचिन्त्य स मुनिस्तत्र प्रोक्त इदं मया ।। २२
मुनिनायक गच्छामि तच्छरीरमिदं निजम् ।
द्रष्टुं यच्च प्रवृत्तोऽस्मि शरीरं तदपीक्षितुम् ।। २३
इत्याकर्ण्य स मामाह हसन्मुनिवरस्तदा ।
कुतस्तौ भवतो देहौ तौ सुदूरतरं गतौ ।। २४
गच्छात्मनैव वा पश्य वृत्तान्तं वृत्तकोविद ।
पश्य तावद्यथावृत्तं दृष्टान्तं ज्ञास्यसि स्वयम् ।। २५
इति संचिन्त्य तं देहं विदं भूसत्तयाऽऽस्मिकम् ।
त्यक्त्वा चिदात्मा तत्प्राणात्पवने योजितो मया ।। २६
प्राक्तनं देहमालोक्य यावदायाम्यहं मुने ।
इहैव तावत्स्थातव्यमित्युक्त्वाहं गतोऽनिलम् ।। २७
अथ वातरथारूढो गगनं भ्रान्तवानहम् ।
पुष्पामोद इवानन्तं गत्वा च त्वरया चिरम् ।। २८
ततश्चिरमपि भ्रान्त्वा यदा गलविलं चलन् ।
अहं न प्राप्तवांस्तस्य किंचिदस्याशयस्थितः ।। २९
तदा खेदमुपायातः परमं पुनरागतः ।
इदमेव जगज्जालमहमालानमात्मनः ।। ३०
इहेमं लब्धवानग्रे ततो मुनिमनुत्तमम् ।
पृष्टवानहमेकाग्रस्तत एवमिदं गृहे ।। ३१
किमेतद्भगवन्ब्रूहि पूर्वापरविदांवर ।
त्वं पश्यसि यथावृत्तमुत्तमज्ञानचक्षुषा ।। ३२
यस्य देहं प्रविष्टोऽहं स च मद्वपुरेव च ।
क्व तावुभौ गतौ देहौ न लब्धौ केन हेतुना ।। ३३
मयातिचिरमाभोगि भ्रान्तं संसारमण्डलम् ।
स्थावरादाऽऽत्मनः कस्मात्प्राप्तं गलबिलं न तत् ।। ३४
गत्वेति पृष्टः स मुनिः समुवाच महाशयः ।
जानासि तत्स्वयं कस्मादिति तामरसेक्षण ।। ३५
एतदालोकयसि चेत्स्वयं योगैकसंविदा ।
तत्पश्यस्येव निःशेषं यथा करतलाम्बुजम् ।। ३६
तथापि यदि शुश्रूषा तवास्ति वचसा मम ।
तदिदं श्रृणु वक्ष्यामि यथावृत्तमखण्डितम् ।। ३७
तपस्तामरसोष्णांशुः कल्याणकमलाकरः ।
ज्ञानाब्जस्य हरेर्नाभिर्नास्ति तावदयं भवान् ।। ३८
स त्वं कदाचित्तपसि स्थितः स्वप्नदिदृक्षया ।
कस्यचिद्धृदयं जन्तोः प्रविष्टः पुष्टसंविदा ।। ३९
यत्त्वं प्रविष्टो हृदयं तत्रेदं भुवनत्रयम् ।
दृष्टवानसि विस्तीर्णं रोदसी विपुलोदरम् ।। ४०
इति त्वयि चिरं व्यग्रे देहस्तस्य तथापि च ।
स संसुप्ताकृतिर्यत्र स्थितस्तत्र महावने ।। ४१
लग्नोऽग्निर्धूमधूम्राभ्रसाम्बराम्बरडम्बरः ।
वलद्वलचलालातचक्रसूर्येन्दुमण्डलः ।। ४२
दग्धाभ्रभस्मसंपूर्णधूमाभ्रासितकम्बलैः ।
आनीलाकाशदलपैरिव संछादिताम्बरः ।। ४३
दरीगृहविनिष्क्रान्तसिंहनिर्ह्रादतर्जितैः ।
स्फुटैश्चटचटास्फोटैर्जडीकृतदिगन्तरः ।। ४४
तालीतमालमालानां गतानामग्निवृक्षताम् ।
पातैरुत्पातवह्न्यभ्रकवत्करकरैर्घनः ।। ४५
दूरदेशगतैर्दृष्टस्थिरसौदामनीधिया ।
द्रवत्कनकनिष्यन्दकुट्टिमं व्योम दर्शयन् ।। ६
कणैस्तारागणं कान्तैर्व्योम्नि द्विगुणतां नयन् ।
वक्षःस्थबालवनितानयनानन्दनन्दनः ।। ४७
ज्वालाधमधमाशब्दप्रध्मातगगनोदरः ।
दरीगृहविनिष्क्रान्तभ्रान्तोन्निद्रवनेचरः ।। ४८
अर्धदग्धद्रवत्सिंहमृगव्याधविहंगमः ।
क्वथत्सरःसरित्स्रोतोरन्धितोग्रवनेचरः ।। ४९
वलज्ज्वालाज्वलद्बालचमरीचारुचञ्चुरः ।
दह्यमानवनप्राणिमेदोगन्धावृताम्बुदः ।। ५०
तेन कल्पाग्निकल्पेन वल्गता वनवह्निना ।
सयुष्मदाश्रमो दग्धः सर्पेणेव प्रसर्पता ।। ५१
व्याध उवाच ।
तत्र तस्याग्निदाहस्य हेतुः कः प्राकृतो मुने ।
तद्वनं ते बटुवराः सर्वं नष्टं कथं सह ।। ५२
मुनिरुवाच ।
संकल्पकमनस्पन्दः संकल्पादिक्षयोदये ।
यथा हेतुर्निरास्पन्दोऽचिराद्धि त्रिजगत्तथा ।। ५३
हृदये च वनान्ते च क्षोभाक्षोभेषु कारणम् ।
यथा स्पन्दोऽचिरात्स्पन्दस्तथा त्रिजगतामिह ।। ५४
धातुः संकल्पनगरं जगत्तत्स्पन्दनं त्विह ।
प्रजोदयक्षयक्षोभवर्षावर्षादिकारणम् ।। ५५
ब्रह्मादिमानसोऽप्यस्य सोऽप्यन्यत्र चिदम्बरे ।
इत्यपर्यवसानेयं शान्तैका चिन्नभोगतिः ।। ५६
चितिनभसि चिन्नभःश्रीः
कचतीति निरामया विदुषाम् ।
मूर्खाणां तु यथैषा
यादृग्वा तन्मयीह न सत् ।।
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो०नि०उ०अ०वि० श० परमोपदेशो नाम पञ्चाशदधिकशततमः सर्गः ।।१५० ।।