योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १५१
एकपञ्चाशदधिकशततमः सर्गः १५१
अन्यमुनिरुवाच ।
तत्र ते नगरं तानि गृहाणि तरवश्च ते ।
क्षिप्रेण शुष्कतृणवत्सर्वं भस्मत्वमागतम् ।। १
तत्रैवं भस्मतां प्राप्ते सुप्ते ते भवतस्तव ।
तनू तथातिसंतापविदारितमहाशिले ।। २
स शशाम शनैर्वह्निर्निःशेषीकृतकाननः ।
परिपीतार्णवोऽगस्त्य इवास्तं समुपाययौ ।। ३
तस्मिन्नस्तं गतेवह्नौ तद्भस्मेद्धं सुशीतलम् ।
दुधाव कणशो वायुरशेषं पुष्पराशिवत् ।। ४
ततो न ज्ञायते नासीत्क्वाश्रमः क्व तनू तथा ।
क्व पेटकं बहूनां तत्स्वप्नपूर्जाग्रतो यथा ।। ५
अभावमुपयाते ते यदैवं भवतस्तनू ।
स्वपतस्ते भ्रमवतः संविदेव विजृम्भते ।। ६
तस्मात्क तद्गलबिलं विराडात्मा स च क्व ते ।
दग्धो दग्धस्य सौजस्कः सौजस्कस्यैव देहकः ।। ७
लब्धवानसि नो तस्माद्धेतोर्देहद्वयं मुने ।
अनन्ते स्वप्नसंसारजाग्रतीहावतिष्ठसे ।। ८
तदेवं स्वप्न एवायं जाग्रद्भावमुपागतः ।
सर्वे वयमिह स्वप्नपुरुषास्तव सुव्रत ।। ९
अस्माकं त्वं स्वप्ननरस्तव स्वप्ननरा वयम् ।
अयमेव चिदाकाशः सर्वदात्मात्मनि स्थितः ।। १०
ततः प्रभृति संपन्नो भवान्स्वप्ननरो भवन् ।
जाग्रत्प्रत्ययवाञ्जाग्रन्नरो गार्हस्थ्यसुस्थितः ।। ११
एतत्ते कथितं सर्वं यथावृत्तमशेषतः ।
अनुभूतं सुदृश्यं च ध्यानेनैतच्च पश्यसि ।। १२
इत्यादिमध्यरहितोऽयमनन्तरूपः
संविद्धनः कचति काञ्चनतापवत्खे ।
तत्फाललोलवपुरात्मनि चिन्मयात्मा
सर्गात्मभिर्विकसितैरसितैः सितैश्च ।। १३
इत्यार्षे श्रीवासिष्ठ० वाल्मी० दे० मो० नि० उ० अवि० वि० श० अभावदर्शनं नामैकपञ्चाशदधिकशततमः सर्गः ।। १५१ ।।