योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १६६


षट्षष्ट्यधिकशततमः सर्गः १६६
श्रीवसिष्ठ उवाच ।
सार्थकेनात्मशब्देन ख्यातिशब्देन चोज्झिताम् ।
आत्मख्यातिमिमां विद्धि शिलाजठरनिर्घनाम् ।। १
आदिसर्गात्प्रभृत्येव चिद्व्योमैवेत्थमाततम् ।
कचत्यात्मनि यत्तस्य बुद्धा तेनैव सर्गता ।। २
न वहन्तीह सरितो नेहोन्मज्जनमज्जने ।
व्योम व्योम्न्येव चिद्रूपं कचत्येवमनिङ्गितम् ।। ३
कचनोक्त्या तु रहितां समग्रेणास्तकल्पनाम् ।
विनोत्तरपदार्थेन त्वात्मख्यातिमिमां विदुः ।। ४
आत्मैवेदं जगत्सर्वं ख्यातिर्यत्र न किंचन ।
अख्यातो नाम न ख्यात्या कदाचित्ख्यापितः क्वचित् ।।५
ख्यातिरख्यातिरित्यत्र वाचोयुक्तिरवास्तवी ।
किं तत्र ख्यापनं नाम स्याद्वाप्यख्यापनं च किम् ।। ६
अख्यातिरन्यथाख्यातिरसत्ख्यातिरितीतरा ।
दृश्याश्चिन्मात्ररूपस्य भासश्चित्त्वचमत्कृताः ।। ७
यथा यथा यदा ये ये चिन्मात्रव्योमभास्वतः ।
चिदंशवः कचन्त्यच्छास्तदा ते ते तथा तथा ।। ८
आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा ।
इत्येताश्चिच्चमत्कृत्या आत्मख्यातेर्विभूतयः ।। ९
आत्मख्यातिपदस्यार्थ आत्मख्यातिपदोज्झितः ।
अनाद्यन्तो निरुल्लेखः सोऽयमेकघनः स्थितः ।। १०
तत्रेदं महदाख्यानं श्रृणु श्रवणभूषणम् ।
दूषणं द्वैतदृष्टीनां द्योतनं बोधभास्वतः ।। ११
अस्ति योजनकोटीनां सहस्राणि प्रमाणतः ।
आनीलकुड्यकठिना विमला विपुला शिला ।। १२
नसंधिबन्धा निबिडा वज्रसारा विसारिणी ।
अत्यन्तपुष्टकठिनजठराकाशनिर्मला ।। १३
असंख्यकल्पनिचयमविनाशा घनाङ्गिका ।
कान्ताङ्गी निर्मलत्वेन व्योमरूपैव लक्ष्यते ।। १४
जातिस्तु ज्ञायते तस्या विशिष्टा नैव केनचित् ।
कथं कुत्र कदा चेति न विज्ञाता सदैव सा ।। १५
अन्तस्तस्यास्तु हृदये भूतधातुविवर्जिते ।
निबिडानन्तकठिना वज्रसाराऽविनाशिनी ।। १६
लेखामयानि विद्यन्ते स्वाङ्गभूतानि भूरिशः ।
पद्मजालानि शङ्खाश्च गदाश्चक्रादयस्तथा ।। १७
खं वायुः सलिलं तेजो वसुधेत्यभिधा कृता ।
नासीत्तत्र स्वलेखानां जीव इत्येव वै तया ।। १८
श्रीराम उवाच ।
शिलासौ चेतनं तस्याः कुत इत्युच्यतां मम ।
अचेतना शिला नाम कथं नाम करोति च ।। १९
श्रीवसिष्ठ उवाच ।
न चेतना न च जडा सा शिला विपुलोज्ज्वला ।
जातिं जानाति कस्तस्याः कस्तत्रान्यश्च विद्यते ।। २०
श्रीराम उवाच ।
तस्याः पश्यति ता लेखाः कः कथं जठरस्थिताः ।
कथं वा केन सा भग्ना कदा नामेति मे वद ।। २१
श्रीवसिष्ठ उवाच ।
न भेत्तुं युज्यते सोग्रा न च भेत्ता च विद्यते ।
तथैवापारपर्यन्तदेहिन्यां सर्वमावृतम् ।। २२
लेखामयानि विद्यन्ते तत्रानन्तानि कोटरे ।
वृक्षपर्वतजालानि नगराणि पुराणि च ।। २३
तत्र लेखामयाः सन्ति देवदानवनामकाः ।
सूक्ष्मासूक्ष्मा निराकाराः साकारा इव पुत्रिकाः ।। २४
आकाशनाम्नी तत्रास्ति लेखा वैपुल्यशालिनी ।
उपलेखाश्च सन्त्यस्या मध्ये चन्द्रार्कनामिकाः ।। २५
श्रीराम उवाच ।
केन दृष्टा वद ब्रह्मँल्लेखास्तास्तत्र किंविधाः ।
कथं वा वद दृश्यन्ते निपिण्डोपलकोशगाः ।। २६
श्रीवसिष्ठ उवाच ।
मया राघव ता दृष्टास्तादृश्यस्तत्र लेखिकाः ।
तवापीच्छा यदि भवेत्तत्तास्त्वमपि पश्यसि ।। २७
श्रीराम उवाच ।
तादृशी वज्रसारा सा शिला भंक्तुं न युज्यते ।
तथापि भवता दृष्टा लेखास्तत्कोशगाः कथम् ।। २८
श्रीवसिष्ठ उवाच ।
एतस्या जठरे राम लेखाहं जठरे स्थितः ।
तेन पश्यामि तत्रस्थो लेखाजालं तदक्षतम् ।। २९
कोऽसौ शक्तोऽन्यथा भंक्तुं तां शिलामहमन्तरे ।
तत्सर्वं दृष्टवांस्तस्या अहं तत्रान्तरस्थितः ।। ३०
श्रीराम उवाच ।
कासौ शिलाथ कश्च त्वं वद मे क्वासि संस्थितः ।
किमेतद्वदसि ब्रूहि किमेतद्दृष्टवानसि ।। ३१
श्रीवसिष्ठ उवाच ।
परमात्ममहासत्ता कथितैषा मया तव ।
अनयैव वचोभंग्या न त्वेषा विपुला शिला ।। ३२
परमात्ममहासत्ताशिलाया जठरे वयम् ।
तच्छिलामांसमेवेमे सौषिर्यपरिवर्जिते ।। ३३
तच्छिलाङ्गं नभो विद्धि तच्छिलाङ्गं सदागतिः ।
तच्छिलाङ्गं क्रियाशब्दा वासना कालकल्पना ।। ३४
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहंकार इतीदं तत्तच्छिलाङ्गमुदाहृतम् ।। ३५
परमात्ममहासत्ता शिला मांसमिमे वयम् ।
सर्व एव ततोऽनन्येऽप्यन्ये त्विति च विद्महे ।। ३६
चिन्मात्रैकात्मिका येयं किलातिमहती शिला ।
एतस्या व्यतिरेकेण क्व तदस्ति किमुच्यताम् ।। ३७
शुद्धं वेदनमेवेदं घटावटपटादिकम् ।
यथा स्वप्ने तथा भाति जलमूर्मितया यथा ।। ३८
इदं ब्रह्म घनं सर्वं चिन्मात्रघनमाततम् ।
परमार्थघनं शान्तं सर्वमेकघनं विदुः ।। ३९
एकं महाचिति शिलोदरमेव सर्वं
सौषिर्यवर्जितमपारमनादिमध्यम् ।
तेनात्मनैव कलिता कलनात्मनेयं
सर्गो जगद्भुवनमित्यपि दृश्यनाम्नी ।। ४०
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० शिलोपाख्यानं नाम षट्षष्ट्यधिकशततमः सर्गः ।। १६६ ।।