योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १६८


अष्टषष्ट्यधिकशततमः सर्गः १६८
श्रीवसिष्ठ उवाच ।
अबुद्धिपूर्वमेवागो यथा शाखाविचित्रताम् ।
करोत्येवमजश्चित्राः सर्गाभासः ख एव खम् ।। १
यथा करोत्यबुद्ध्यादिरावर्तादि पयोनिधिः ।
तथा करोति खे स्वात्मा सर्वेशः सर्ववेदनाः ।। २
तासां स्वसंविदामेव ततः स कुरुते स्वयम् ।
मनो बुद्धिरहंकार इत्याद्या विविधाभिधाः ।। ३
अबुद्धिपूर्वमारम्भो दृश्यरूपः स्वतश्चितेः ।
संकल्प्यमानो बुद्ध्यादिस्तरङ्गादिर्यथाम्बुधेः ।। ४
चिन्मात्रात्संप्रवर्तन्ते मनोबुद्ध्यादयस्तथा ।
आवर्तकणकल्लोलवीचयो वारिधेर्यथा ।। ५
भित्तिमात्रं यथा चित्रजगदालोकमात्रकम् ।
चिति चिद्व्योममात्रात्म तथैवाभासमात्रकम् ।। ६
अबुद्धिपूर्वमारम्भो नियत्या संनिवेशवान् ।
यथा संपद्यते वृत्ते तथा सर्गात्मकश्चिति ।। ७
तरौ गुलुच्छकादीनां यथान्यः कुरुतेऽभिधाः ।
तथा चिद्वृक्षपुष्पादिपृथ्व्यादिविहिताभिधम् ।। ८
अनन्यत्पुष्पपत्रादि यथा नाम महातरोः ।
तथैवानन्यदेवेदं चिद्व्योम्नः परमात्मनः ।। ९
तराववयवेप्वन्यः करोति विविधाभिधाः ।
चिद्व्योमात्मनि सर्वेषु भूत्वान्य इव खात्मसु ।। १०
चित्तरोः पल्लवाः सर्गाश्चित्त्वादेव न सन्त्यलम् ।
कार्यकारणवद्भाति स एव स्वप्नवत्स्वयम् ।। ११
वक्षि चेत्कथमेतस्माद्व्यर्थं तदनुभूयते ।
सर्गाद्यमुत्र स्वप्नादिष्वेषु कोऽपह्नवं भजेत् ।। १२
तरावाकारवत्येषा कल्पना रचिता यथा ।
चितेराकाशमात्रायास्तथैषा कल्पना कृता ।। १३
यथा गन्धादयः पुष्पे गगने शून्यतादयः ।
यथा स्पन्दादयो वायौ तथा बुद्ध्यादयः परे ।। १४
यथा गन्धादयः पुष्पे गगने शून्यतादयः ।
यथा स्पन्दादयो वायौ तथेमाः सृष्टयश्चिति ।। १५
यथा खानिलपुष्पाणां शून्यतास्पन्दगन्धदृक् ।
शून्यरूपानुभूता च तथा सर्गस्थितिश्चिति ।। १६
न पृथक् शून्यता व्योम्नो न पृथग्द्रवताम्भसः ।
न पृथक् कुसुमाद्गन्धो नानिलात्स्पन्दन पृथक् ।।१७
अग्नेर्न पृथगुष्णत्वं पृथक् शैत्यं च नो हिमात् ।
चिद्व्योमैकात्मनः स्वच्छान्न जगत्पृथगीश्वरात् ।। १८
सर्गादावेव यद्व्योम्नि स्वप्नाद्धृदि च दृश्यते ।
अकारणं तच्चिद्व्योम्नः कथमन्यद्भवेत्किल ।। १९
स्वप्न एवात्र दृष्टान्तो नित्यदृष्टो विचार्यताम् ।
चिन्मात्रव्यतिरेकेण सारं किं तत्र कथ्यताम् ।। २०
तदिदं बुद्धिसंस्कारदृश्यमित्यादिका स्मृतिः ।
न संभवति यत्तत्त्वं कथयेदं कथं भवेत् ।। २१
यत्तत्र दृष्टं तदिह स्मृतिकाले भवेद्यदि ।
नानुभूयेत तत्तत्र कैवैकस्य द्विधा स्थितिः ।। २२
तस्मादावर्तवृत्त्येदं काकतालीयवज्जगत् ।
चिति यद्भाति तत्रैषा पश्चात्स्वप्नादिकल्पना ।। २३
अबुद्धिपूर्वं संपन्ने सर्गे वीच्यादयो यथा ।
संनिवेशः स्थितिः पश्चात्स्वयं संपद्यते तथा ।। २४
जातमेव न तज्जातं जातं यत्कारणं विना ।
यतोऽजातं तदेवाद्य तत्समं संस्थितं तथा ।। २५
अबुद्धिपूर्वं संजाता रत्नादीनां यथार्चिषः ।
सत्तैव संनिवेशेन तथैवासां जगद्दृशाम् ।। २६
यथाकथंचिदेवेदमादौ संपद्यते जगत् ।
पश्चाद्गृह्णाति नियतिमावर्तोऽब्धाविवात्मनि ।। २७
चिद्व्योम्नि स्वप्नजालानि चिज्जगन्त्यपकारणम् ।
प्रवर्तन्ते निवर्तन्ते शून्यशून्यात्मकान्यपि ।। २८
यावत्सर्वमथान्योन्यं याति कारणतां चिरम् ।
तेषां शून्यात्मका एव पदार्था ईश्वरादयः ।। २९
जायते शून्यमेवेदं शून्यमेव च वर्धते ।
ननु शून्यतयात्यन्तं शून्यमेव विनश्यति ।। ३०
शून्यं कचत्यशून्याभं दृष्टान्तं स्वप्नमत्र यः ।
अपह्णुतेऽनुभूतं स पशुभर्तृकुकं कुधीः ।। ३१
असदेवेदमाभाति भ्रान्तिमात्रं सुकृत्रिमम् ।
चिच्चमत्कारमात्रात्म ज्ञे सन्मात्रकृत्रिमम् ।। ३२
अयं चिरस्थसंकल्पः सर्गप्रलयविभ्रमः ।
ज्ञानं स्वभावकचनमज्ञानं भ्रान्तिजृम्भणम् ।। ३३
झटित्युदेति ब्रह्मात्म दृश्यं दृष्टमकारणम् ।
खे सुषुप्तादिव स्वप्नः पश्चान्नियतिमृच्छति ।। ३४
काकतालीयवच्चित्त्वाच्चिति दृश्यं प्रकाशते ।
स्वयमेव स्वभावस्थमावर्तादि यथाम्बुधौ ।। ३५
ईदृशो नाम चिद्धातुरयमाकाशमात्रकः ।
यदित्थं नाम कचति जगद्रूपेण चिद्वपुः ।। ३६
तेन चिद्रूपिणा पश्चाद्दृश्येनात्मनि कल्पिताः ।
संज्ञाः स्मृत्यादिपृथ्व्यादिबुद्ध्यादिकलनात्मिकाः ।।३७
श्रीराम उवाच ।
एवं स्थिते हे भगवन्बुद्धिसंस्कारतः स्मृतिः ।
इति किं प्राप्यते ब्रूहि संबुद्धा यदि न स्मृतिः ।। ३८
श्रीवसिष्ठ उवाच ।
श्रृणु राम भिनद्म्येनं प्रश्नं सिंह इवेभकम् ।
अभेदं स्थापयाम्येकमालोकमिव भास्करः ।। ३९
विद्यते जगदात्मेदं दृश्यं चिन्मात्रकोटरे ।
अनुत्कीर्णा यथा वृक्षे वनस्था शालभञ्जिका ।। ४०
उद्धरेद्वृक्षतस्तक्षा कदाचिच्छालभञ्जिकाम् ।
अद्वितीयाच्चितिस्तम्भादुत्कीर्णां कः करोति ताम् ।। ४१
स्तम्भे जडेन सा व्यक्तिमनुत्कीर्णेह गच्छति ।
चिति त्वन्तर्गता चित्त्वादेवात्मन्येव भात्यलम् ।। ४२
भासमाना त्वनुत्कीर्णदेहैवापि च खात्मिका ।
स्वरूपादच्युता चैव चिन्मात्रादात्मनि स्थिता ।। ४३
सर्गादौ सर्गकलनाः करोति कलनावती ।
सा चित्स्वभावतः स्वप्ने खात्मन्यद्योदितामिव ।। ४४
आकाश एव हृदये परमाकाशरूपिणी ।
संकल्पयति चिच्छालभञ्जिकाः स्वात्मनात्मनि ।। ४५
इयं ब्रह्मकला सेह चिन्मात्रकलना त्वियम् ।
इयं चितिरियं जीवस्त्वहंकारस्त्वसाविति ।। ४६
इयं बुद्धिरियं चित्तमयं काल इदं नभः ।
अयं सोऽहं क्रिया चेयमिदं तन्मात्रपञ्चकम् ।। ४७
इन्द्रियाणामिदं वृन्दं पुर्यष्टकमिदं स्मृतम् ।
इहातिवाहिको देहस्तथायं चाधिभौतिकः ।। ४८
ब्रह्माहं शंकरश्चाहमुपेन्द्रोऽहमहं रविः ।
इदं बाह्यमिदं चान्तरयं सर्ग इदं जगत् ।। ४९
इत्यादिकलनाजालं चिद्व्योमैवातिनिर्मलम् ।
तस्मात्क्वैते पदार्थौघाः क्व स्मृतिः क्व द्वयैकते ।। ५०
अकारणकमेवेति जगदाभोगिखण्डकः ।
सर्गादौ स्वप्नवद्भाति खे खात्मैव विकारिवत् ।। ५१
व्योम्न्येव कचति व्योम चिन्मये चिन्मयं हि यत् ।
बुद्धं तदेव तेनैव जगद्वोधात्क्व तज्जगत् ।। ५२
क्व स्मृतिः क्व च वा स्वप्नः क्व कालाः कलनाश्च काः ।
चिदाभानमिदं भाति शान्तं शून्यमिवाम्बरे ।। ५३
यदन्तश्चिद्धनस्यास्ति तद्वहिर्भूततां गतम् ।
वस्तुतस्तु न तद्बाह्यं नान्तः सन्मात्रकादृते ।। ५४
निरस्तावयवाच्छान्तादनाख्याद्यत्प्रवर्तते ।
अकारणं भवेद्भूतं तदन्धाः कथमन्यथा ।। ५५
तस्माद्यादृक्परं ब्रह्म तादृग्दृश्यमिदं परम् ।
यदेव चिन्नभः स्वप्ने तदेव स्वप्नपत्तनम् ।। ५६
न किंचित्किंचनापीदं दृश्यमस्ति मनागपि ।
क्व रजः पूर्णजलधौ क्व दृश्यं परमाम्बरे ।। ५७
तच्चेदं भाति वा किंचित्तच्चिन्मात्रमचेत्यकम् ।
अकचत्त्वेव संशान्तमात्मनीत्थमवस्थितम् ।। ५८
पूर्णाद्वै ब्रह्मणः पूर्णमप्यनुद्धतमुद्धृतम् ।
इवेदं भाति भारूपमाभानं परमात्मकम् ।। ५९
इत्थं मयि प्रकथयत्यनुभूयभान-
मप्युच्चकैर्बत जनस्य विमूढतान्तः ।
स्वप्ने जगद्वपुषि जाग्रदिति प्रतीतिं
नाद्यापि यत्त्यजति नाम विदन्नपि द्राक् ।। ६०
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० शालभञ्जिकोपदेशो नामाष्टषष्ट्यधिकशततमः सर्गः ।। १६८ ।।