योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १७०


सप्तत्यधिकशततमः सर्गः १७०
श्रीराम उवाच ।
ब्रह्मन्कोऽस्य सुहृद्ब्रूहि येनासौ रमते सह ।
रमणं किंस्वभावं स्यादुत रत्यात्म वास्य तत् ।। १
श्रीवसिष्ठ उवाच ।
स्वप्रवाहेहितं नाम स्वप्रायेहितनाम च ।
स्वकर्म नाम चास्यास्ते मित्रमेकमकृत्रिमम् ।। २
पितृवद्विहिताश्वासं दारा इव नियन्त्रणम् ।
संकटेषु दुरन्तेषु नित्यमव्यभिचारि च ।। ३
अशङ्कितोपचरणं सुसंपादितनिर्वृति ।
कोपेष्वकोपनतया वितीर्णावर्जनामृतम् ।। ४
दुर्गदुर्गमदुर्वारदोषोद्धरणतत्परम् ।
सर्वविश्वासरत्नानां कोश आशैशवोषितम् ।। ५
सहपांसुकृताक्रीडमाबाल्यादेव संगतम् ।
विनिवारितदुश्चेष्टं पितृवद्रक्षणोन्मुखम् ।। ६
वह्नेरिवौष्ण्यं सौगन्ध्यं कुसुमस्येव सर्वदा ।
अविनाभावि विमलं रवेरिव च वासरम् ।। ७
लालनैकरतं नित्ये पालनैकपरायणम् ।
सर्वसंकटसंघट्टरक्षणैकसमुद्यतम् ।। ८
हेम्नोऽग्निरिव देहस्य सर्वावस्थस्य शुद्धिदम् ।
इदं हेयमुपादेयमिति दर्शनतत्परम् ।। ९
आह्लादकमनिन्द्याभिः कथाभिरिव नागरम् ।
सच्चेष्टामणिमाणिक्यभाण्डसंभारमन्दिरम् ।। १०
सूर्यस्तम इवाजस्रमप्रदर्शयदप्रियम् ।
अनुरक्ता महेलेव प्रियमेवाप्रदर्शयत् ।। ११
जनं प्रियंवदं कुर्वत्प्रियमेव समाचरत् ।
पेशलं मधुरं स्निग्धमक्षुब्धमुदिताशयम् ।। १२
लोकोपचारकं पूज्यं स्मितपूर्वाभिभाषणम् ।
कामोपशान्तं सद्रूपं परमार्थैककारणम् ।। १३
रणेऽज्ञानसमुद्भूते पूर्वं प्रहरणोद्यतम् ।
अपूर्वनर्मनिर्माणलीलाललनलालकम् ।। १४
पालकं शीलसाराणां दाराणां च कुलस्य च ।
आधिव्याधिपरीतस्य चेतसोऽमृतमौषधम् ।। १५
विशेषविद्यावैदग्ध्यवादवन्द्यविनोदनम् ।
समानकुलशीलत्वाद्द्विधाभाव इव स्थितम् ।। १६
अनुरक्तान्नृपान्साधून्वदान्यान्कारयत्सदा ।
यज्ञदानतपस्तीर्थन्यायार्थप्रेरणोन्मुखम् ।। १७
पुत्रदारद्विजातिस्त्रीभृत्यबन्धुजनैः सह ।
शुभभोजनपानार्हमुत्तमश्लाघ्यसंगति ।। १८
भोगादिबद्धतृष्णत्वं दुःखदं विनिवारयत् ।
सुस्निग्धसंकथोदारं समाश्वासोत्तमास्पदम् ।। १९
ईदृशेनात्ममित्रेण स कलत्रेण संयुतः ।
स्वकर्मनाम्ना रमते स्वभावेनैव नेरितः ।। २०
श्रीराम उवाच ।
कलत्रमस्य मित्रस्य तदीयस्य मुनीश्वर ।
किं तत्किंरूपमेव स्यात्समासेनेव मे वद ।। २१
श्रीवसिष्ठ उवाच ।
स्नानदानतपोध्याननामानोऽस्य महामते ।
सन्ति पुत्रा महात्मानः स्वनुरक्ताखिलप्रजाः ।। २२
चन्द्रलेखेव लोकस्य दृष्ट्यैवाह्लाददायिनी ।
अविनाभाविनी भार्या मुदितास्यानुरागिणी ।। २३
करुणाकारणाकीर्णधना हृदयहारिणी ।
आनन्दजननी चास्य वयस्याऽव्यभिचारिणी ।। २४
समतास्य मता नित्यमास्ते हृदयवल्लभा ।
प्रतीहारी पुरः प्रह्वा संमुखं सुखदायिनी ।। २५
धैर्ये धर्मे च धीः साधो नित्यमाधीयते च या ।
सास्य धीरस्य धुर्यस्य पुरो धन्यस्य धावति ।। २६
अस्य सन्ना समं स्कन्धे सर्वदैव महौजसः ।
विषयारिजये राज्ञो मैत्री मन्त्रप्रदायिनी ।। २७
कार्याणामार्यमर्यादाचार्या चातुर्यशालिनी ।
सर्वेषामस्य मान्यस्य सत्यता स्वार्थदायिनी ।। २८
इत्येवंपरिवारेण मित्रेण सह मन्त्रिणा ।
स्वकर्मणा व्यवहरन्न हृष्यति न कुप्यति ।। २९
स यथास्थितमेवास्ते विनिर्वाणमना मुनिः ।
चित्रार्पित इवाजस्रं लोके व्यवहरन्नपि ।। ३०
वस्तुशून्येषु वादेषु मूकः शैलमयो यथा ।
निष्प्रयोजनशब्देषु परं बाधिर्यमागतः ।। ३१
लोकाचारविरुद्धेषु शवं सकलकर्मसु ।
आर्याचारविचारेषु वासुकिर्वा बृहस्पतिः ।। ३२
प्रवृत्तवाक्पुण्यकथो जिह्मानां प्रतिभानवान् ।
निमेषेणैव निर्णेता वक्ताशु बहु वस्तुनः ।। ३३
समदृष्टिरुदारात्मा वदान्यः संविभागवान् ।
पेशलस्निग्धमधुरः सुन्दरः पुण्यकीर्तनः ।। ३४
स्वभाव एषैव भवेत्प्रबुद्ध-
धियां प्रयत्नेन तु नेदृशास्ते ।
भवन्ति नेन्द्वर्कहुताशनाद्याः
क्वचित्परप्रेरणया प्रकाशाः ।। ३५
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अवि० वि० तत्त्वज्ञव्यवहारवर्णनं नाम सप्तत्यधिकशततमः सर्गः ।।१७० ।।