योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १७१


एकसप्तत्यधिकशततमः सर्गः १७१
श्रीवसिष्ठ उवाच ।
संविदाकाशकचनमिदं भाति जगत्तया ।
वस्तुतो न जगन्नाभा न शून्यं न च संविदः ।। १
यदिदं भाति चिद्व्योम जगदाख्यं न तत्ततः ।
आकाशादिव शून्यत्वमन्यदन्यदपि स्थितम् ।। २
देशाद्देशान्तरप्राप्तौ मध्ये यत्संविदो वपुः ।
तद्दृश्यमिति भातीदं दृश्यमन्यन्न विद्यते ।। ३
महाप्रलयसंपत्तावादिसर्गः पुनः किल ।
परस्मात्कारणाभावे कुतो दृश्यस्य संभवः ।। ४
तदाणुमात्रमपि हि दृश्यबीजं न विद्यते ।
किल यस्मादिदं चक्रं पुनर्मूर्तं प्रवर्तते ।। ५
उत्पन्नमेव नैवातो मूर्तं दृश्यमिदं जगत् ।
वन्ध्यापुत्र इवात्यन्तमतोऽस्त्येव न दृश्यधीः ।। ६
यच्चेदं किंचिदाभाति दृश्यमित्यभितः स्थितम् ।
तच्चिन्मात्रं खमेवाच्छं परमेव पदं विदुः ।। ७
यथा सुषुप्तात्स्वप्नत्वं गच्छद्यात्यनवस्थितिम् ।
चिन्मात्रमजहत्स्वच्छं निजं रूपमनामयम् ।। ८
सर्गस्यादौ तथैवेदमात्मैव स्वात्मनात्मनि ।
व्योमात्मैव चिदाभासं दृश्यमित्यवभासते ।। ९
यथा पुरतया भाति मनः संकल्पमन्थरम् ।
तथा दृश्यमिवाभाति सर्गादौ चिन्नभः परम् ।। १०
यथात्मन्यनिलः स्पन्दश्चक्रावर्तवदीहते ।
सर्गादौ चिन्नभः स्थित्वा दृश्यमित्येव तिष्ठति ।। ११
अतो ज्ञातमनाभातमेव दृश्यं जगत्त्रयम् ।
ब्रह्मैवेदं परं भाति स्वात्मनीत्थमवस्थितम् ।। १२
नास्त्येव मूर्तं पृथ्व्यादि किंचनापि कदाचन ।
अस्तु मूर्तममूर्तं वा ब्रह्मैवेदं विराजते ।। १३
प्रबोधकाले स्वप्नाद्रिर्यथा व्योमैव निर्वपुः ।
तथेदं शान्तचिन्मात्रं खं प्रवोधे जगत्त्रयम् ।। १४
प्रबुद्धानां परं ब्रह्म निर्विभागमिदं जगत् ।
धीमन्तोऽपि न तद्विद्मो यदिदं त्वप्रबोधनम् ।। १५
देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।
स्वस्वभावो हि भूतानां तत्पदं परमात्मकम् ।। १६
देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।
एतत्तत्परमाकाशमत्र सर्वं प्रतिष्ठितम् ।। १७
यादृगेतत्पदं तादृगिदं सदसदात्मकम् ।
येनार्थपञ्चकादन्यत्किंचनापि न विद्यते ।। १८
रूपालोकमनस्कारा एतदेव पदं विदुः ।
एते ते द्रवतावर्ताः पदस्यास्य महाम्भसः ।। १९
देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।
एतस्याव्यतिरेकेण जगत्ता नास्ति काचन ।। २०
रागद्वेषादयो भावा भावाभावदृशस्तथा ।
एतद्रूपममुञ्चन्त एतस्यावयवाः स्थिताः ।। २१
त्यक्त्वा पूर्वापरे कोट्यौ मध्ये यत्संविदो वपुः ।
स स्वभावः परो ज्ञेयो जगत्पयसि संज्ञितः ।। २२
देशाद्देशान्तरप्राप्तौ विद्धि मध्यमसंविदः ।
जगदित्यपरं नाम स्वरूपादच्युतात्मनः ।। २३
आदिसर्गात्प्रभृत्येव दृश्यमुत्पन्नमेव नो ।
यन्नाम तदिहास्तीति मायाशम्बरडम्बरः ।। २४
कष्टं नास्त्येव यद्दृश्यं तदप्यस्तीति संस्थितम् ।
यदप्यस्ति परं ब्रह्म कष्टं नास्तीति तत्स्थितम् ।। २५
अब्रह्मण्यं क्व गच्छामि विपरीतमतो जगत् ।
असदृश्यं सदित्युक्तं ब्रह्मैवं नावगम्यते ।। २६
न चोत्पन्नं न चाभाति दृश्यं किंचन कुत्रचित् ।
यदिदं भाति तद्ब्रह्म व्योमैव कचति स्वयम् ।। २७
यथा मणिः प्रकचति स्वभासाऽव्यतिरिक्तया ।
आत्मनोऽनन्यया सृष्ट्या चिद्व्योम कचितं तथा ।।२८
तस्मिन्नेव पदे शान्ते तपत्येष दिवाकरः ।
तस्यैवावयवश्चैव न नामान्योऽस्ति भास्करः ।। २९
स्थितोऽपि तत्र न तपत्यर्को न च निशाकरः ।
प्रकाशयति देवोऽसावर्कं नार्कस्तमीश्वरम् ।। ३०
तस्य भासा विभातीदं तदहो दृश्यमण्डलम् ।
सर्वचन्द्रार्कवह्नीनां पदार्थानां स दीपकः ।। ३१
स साकारो निराकार इति शब्दार्थकल्पना ।
खपुष्पवदसद्रूपा न संभवति तद्विदाम् ।। ३२
साङ्गभूतो यथैकोऽणुर्भाति जीवार्कतेजसि ।
न भान्ति भान्ति वा तत्र तथा सूर्यादयोऽणवः ।।३३
चिन्मात्राकाशरत्नस्य सृष्टयोऽर्कादिसंयुताः ।
या भासस्ताः कथं तस्माद्व्यतिरिक्ताः स्युरुच्यताम्।।३४
चिन्मात्रेणापि रहितं शून्यत्वेनापि वर्जितम् ।
पदं सर्वात्मरिक्तं तत्सर्वार्थैश्च समन्वितम् ।। ३५
पृथ्व्यादीन्यपि सन्त्येव तत्र सन्ति न कानिचित् ।
जीवन्तोऽपि न विद्यन्ते जीवास्तत्र च केचन ।। ३६
अत्यजन्तो द्वयस्थौल्यं तत्रैते परमाणवः ।
स्वरूपमत्यजद्द्वैतमैक्यं वात्र न किंचन ।। ३७
किंचिदत्र न किंचिद्वै न किंचिच्च न किंचन ।
किंचिन्न किंचिदित्येषा कलनात्रातिदूरगा ।। ३८
एका निरन्तरानन्ता नित्यमत्याततात्मना ।
चिन्मात्रव्योमसत्तैव जगन्नाम्नात्मनि स्थिता ।। ३९
एकं चेत्यं त्यक्तवत्या अप्राप्तायाश्चितोऽपरम् ।
यद्रूपं जगतो रूपमस्य नानात्मनोऽपि तत् ।। ४०
नानेवेदमनानैव चिद्व्योमैवेदमाततम् ।
भूतपञ्चकरूपेण स्वप्ने चितिरिव स्थितम् ।। ४१
सुषुप्ताद्विशतः स्वप्नं सुषुप्तस्थैव चिद्यथा ।
यथा स्थितैव स्वप्नत्वमेत्येवं सर्गतामिमाम् ।। ४२
यादृक्सुषुप्तं स्वप्नस्तु तादृगेव तथैव च ।
जाग्रत्तुर्यं तथैवेदमतो व्योमसमं जगत् ।। ४३
जाग्रत्स्वप्नः सुषुप्तं च तुर्यमेवाखिलं स्थितम् ।
तत्त्वविद्गोत्रमूढस्तु यद्वै वेत्ति न वेद्मि तत् ।। ४४
जडानामजडानां यः सर्वार्थानामनारतम् ।
दुर्लक्ष्यपरिणामोऽन्तर्मनोबुद्ध्यादिवर्जितः ।। ४५
सुशुद्धायाश्चितो रूपं पदार्थास्तन्मयाश्च ते ।
ते वसन्ति न सद्रूपास्तदेव हि तथा स्थितम् ।। ४६
परिणामादिशब्दार्थदृशामत इहानघ ।
उपदेशार्थमुक्तीनां गन्धोऽप्येवं न विद्यते ।। ४७
आदिसर्गात्प्रभृत्येव महासत्तात्मनात्मनि ।
चिन्मात्रपरमाकाशं स्थितमेकं महात्मनः ।। ४८
प्रपूर्णैकात्मनि प्रख्या सा सर्वव्यापिनी चितिः ।
स्थिता तयात्मन्येवान्तर्जगदित्यभिधाः कृताः ।। ४९
परिज्ञाते यथा स्वप्ने स्वाङ्गीकारात्सुखं सुखम् ।
अनङ्गीकारतो दुःखं सदुःखं भवति क्षणात् ।। ५०
गच्छतस्तिष्ठतश्चैव जाग्रतः स्वपतस्तथा ।
नित्यमेकं समाधानं स्थितं शान्तस्य तद्विदः ।। ५१
भेदेऽप्यभेदनिष्ठस्य दुःखेऽपि हि सुखस्थितेः ।
सतोऽप्येवासतो ज्ञस्य किमन्यदवशिष्यते ।। ५२
न संत्यजति नादत्ते किंचिद्व्यवहरन्नपि ।
हृदयेन बहिःकार्येऽकार्यं एवावतिष्ठते ।। ५३
यथा हिमस्य शीतत्वं वह्नेरौष्ण्यं तथेदृशः ।
स्वभावोऽस्य भवेन्नित्यं न त्वाहार्यो गुणोऽस्य सः।। ५४
यस्य त्वेष स्वभावः स्यान्न नाम न स तत्त्ववित् ।
एतदेवाज्ञताचिह्नं यदिच्छा प्रकृतेतरा ।। ५५
आश्वस्तान्तःकरणः
क्षीणविकल्पः स्वरूपसारमयः ।
परमशमामृततृप्त-
स्तिष्ठति विद्वान्निरावरणः ।। ५६
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० दैतैक्यनिरामययोगोपदेशो नामैकसप्तत्यधिकशततमः सर्गः ।। १७१ ।।