योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १७३
त्रिसप्तत्यधिकशततमः सर्गः १७३
श्रीराम उवाच ।
सर्वानुभवरूपस्य तथा सर्वात्मनोऽप्ययम् ।
अनन्तस्यात्मतत्त्वस्य देहेऽपि किमहंग्रहः ।। १
चितः पाषाणकाष्ठत्वं स्वप्नादिषु कथं भवेत् ।
इदं पाषाणकाष्ठादि कथं नास्त्यस्ति वा कथम् ।। २
श्रीवसिष्ठ उवाच ।
शरीरिणो यथा हस्ते हस्ततायां यथाग्रहः ।
सर्वात्मनस्तथा देहे देहतायां तथाग्रहः ।। ३
पादपस्य यथा पत्रे पत्रतायां यथाग्रहः ।
सर्वात्मनस्तथा वृक्षे वृक्षतायां तथाग्रहः ।। ४
आकाशस्य यथा शून्ये शून्यतायां यथाग्रहः ।
सर्वात्मनस्तथा द्रव्ये द्रव्यतायां तथाग्रहः ।। ५
स्वप्नोचितः स्वप्नपुरे रूपतायां यथाग्रहः ।
सर्वात्मनस्तथा स्वप्नजाग्रदादौ तथाग्रहः ।। ६
यथागेन्द्रे दृषद्वृक्षवार्यादौ स तथाग्रहः ।
तथा सर्वात्मनोऽगेन्द्रपुरतायां तथाग्रहः ।। ७
शरीरस्य यथा केशनखादिषु यथाग्रहः ।
सर्वात्मनस्तथा काष्ठदृषदादौ तथाग्रहः ।। ८
चित एव यथा स्वप्ने भवेत्काष्ठोपलादिता ।
चिदाकाशस्य सर्गादौ तथैवावयवादिता ।। ९
चेतनाचेतनात्मैकं पुरुषस्य यथा वपुः ।
नखकेशजलाकाशधर्ममाकारभासुरम् ।। १०
चेतनाचेतनात्मैकं तथा सर्वात्मनो वपुः ।
जङ्गमं स्थावरमयं किंतु नित्यमनाकृति ।। ११
यथास्थितं शाम्यतीदं सम्यग्ज्ञानवतो जगत् ।
स्वप्ने स्वप्नपरिज्ञातुर्यथा दृष्टार्थसंभ्रमः ।। १२
चिन्मात्राकाशमेवेदं न द्रष्टास्ति न दृश्यता ।
इति मौनमलं स्वप्नद्रष्टुर्यत्सा प्रबुद्धता ।। १३
कल्पकोटिसहस्राणि सर्गा आयान्ति यान्ति च ।
त एवान्ये च चिद्व्योम्नि जलावर्ता इवार्णवे ।। १४
करोत्यब्धौ यथोर्म्यादौ नाना कचकचं वपुः ।
चित्करोति तथा संज्ञाः सर्गाद्याश्चेतने निजे ।। १५
यथास्थितमिदं विश्वं ब्रह्मैवानामयं सदा ।
तत्त्वज्ञं प्रत्यतत्त्वज्ञजनतानिश्चयादृते ।। १६
नाहं तरङ्गः सलिलमहमित्येव युक्तितः ।
बुद्धं येन तरङ्गेन कुतस्तस्य तरङ्गता ।। १७
ब्रह्मणोऽस्य तरङ्गत्वमिवाभानं यतस्ततः ।
तरङ्गत्वातरङ्गत्वे ब्राहयौ शक्ती स्थितिं गते ।। १८
चिद्व्योम्नोऽत्यजतो रूपं स्वप्नवद्व्यस्तवेदनम् ।
तदिदं हि मनो राम ब्रह्मेत्युक्तः पितामहः ।। १९
एवमाद्यः प्रजानाथो निराकारो निरामयः ।
चिन्मात्ररूपसंकल्पपुरवत्कारणोज्झितः ।। २०
येनाङ्गदत्वं नास्तीति बुद्धं हेमाङ्गदेन वै ।
अङ्गदत्वं कुतस्तस्य तस्य शुद्धैव हेमता ।। २१
अजे संकल्पमात्रात्म चिन्मात्रव्योमदेहिनि ।
अहं त्वं जगदित्यादि यद्विभातं तदेव तत् ।। २२
चिच्चमत्कृतयो भान्ति याश्चिद्व्योमनि शून्यताः ।
एतास्ताः सर्गसंहारस्थितिसंरम्भसंविदः ।। २३
अच्छं चिन्मात्रनभसः कचनं स्वयमेव तत् ।
स्वप्नाभं चित्ततामात्रं स एष प्रपितामहः ।। २४
यथा तरङ्गस्तेनैव रूपेणान्येन वाऽनिशम् ।
स्फुरत्येवमनाद्यन्तः सर्गप्रलयविभ्रमः ।। २५
चिद्व्योम्नः कचनं कान्तं यद्विराडिति शब्दितम् ।
भवेत्संकल्पपुरवत्तस्य कुर्यान्मनोऽपि वै ।। २६
सर्गः स्वप्नः स्वप्न एव जाग्रद्देहः स एव च ।
घनं सुषुप्तं तैमिर्याद्यथा संवेदनं भवेत् ।। २७
तस्य कल्पान्तरजनी शिरोरुहतयोदिता ।
प्रकाशतमसी कालक्रियाख्याः स्वाङ्गसंधयः ।। २८
तस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ।
चन्द्रार्कौ दृगू दिशौ श्रोत्रे कल्पनेति विजृम्भिता ।। २९
एवं सम्यग्दृश्यमानो व्योमात्मा वितताकृतिः ।
अस्मत्संकल्पशैलाभो विराड् स्वप्नाकृतिस्थितः ।। ३०
यच्च चेतच्चिदाकाशे स्वयं कचकचायते ।
तदेतज्जगदित्येवं तेनात्मैवानुभूयते ।। ३१
विराडात्मैवमाकाशं भाति चिन्मयमाततम् ।
स्वभावस्वप्ननगरं नगनागमयात्मकम् ।। ३२
अनुभवितैवानुभवं
सत्यं स्वात्मानमप्यसन्तमिव ।
अनुभवतीयत्त्वेन
स्वप्ननटः स्वप्नदेशमिव ।। ३३
वेदान्तार्हतसांख्यसौगतगुरुत्र्यक्षादिसूक्ता दृशो
ब्रह्मैव स्फुरितं तथात्मकलया स्तादात्मनित्यं यतः ।
तेषां चात्मावेदोऽनुरूपमखिलं स्वर्गं फलं तद्भव-
त्यस्य ब्रह्मण ईदृगेव महिमा सर्वात्म यत्तद्वपुः ।। ३४
इत्यार्षे श्रीवासिष्ठ० वा० दे० मो० नि० उ० ब्रह्मगीतासु परमार्थोपदेशो नाम त्रिसप्तत्यधिकशततमः सर्गः ।। १७३ ।।