योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १७७


सप्तसप्तत्यधिकशततमः सर्गः १७७
श्रीराम उवाच ।
अकारणकमेवेदं जगद्ब्रह्म परात्पदात् ।
यदि प्रवर्तते नाम स्वप्नसंकल्पनादिवत् ।। १
तदकारणतः सिद्धेः संभवेऽन्यदकारणम् ।
कथं न जायते वस्तु क्वचित्किंचित्कदाचन ।। २
श्रीवसिष्ठ उवाच ।
यद्यथा कल्पितं येन स संपश्यति तत्तथा ।
कल्पनैवान्यथा न स्यात्तादृक्कारणविच्युतेः ।। ३
यथेदं कल्पितं दृश्यं मनसा येन तत्तथा ।
वेत्त्यसौ यादृगन्येन कल्पितं वेत्त्यसौ तथा ।। ४
कल्पनाकल्पनात्मैकं तच्च ब्रह्म स्वभावतः ।
कल्पनात्मेदृशं जन्तुर्यथा केशनखादिमान् ।। ५
अकारणपदार्थत्वं सकारणपदार्थता ।
ब्रह्मणि द्वयमप्यस्ति सर्वशक्त्यात्म तद्यतः ।। ६
यतः स्याद्ब्रह्मणस्त्वन्यत्क्वचित्किंचित्कदाचन ।
तत्कारणविकल्पेन संयोगस्तस्य युज्यते ।। ७
यत्र सर्वमनाद्यन्तं नानानानात्म भासते ।
ब्रह्मैव शान्तमेकात्म तत्र किं कस्य कारणम् ।। ८
नेह प्रवर्तते किंचिन्न च नाम निवर्तते ।
स्थितमेकमनाद्यन्तं ब्रह्मेव ब्रह्म खात्मकम् ।। ९
किं कस्य कारणं केन किमर्थं भवतु क्व वा ।
किं कस्य कारणं केन किमर्थं मास्तु वा क्वचित् ।। १०
नेह शून्यं न वा शून्यं न सन्नासन्न मध्यता ।
विद्यते न महाशून्ये न नेति न न नेति च ।। ११
इदं न किंचित्किंचिद्वा यन्नामास्त्यथ नास्ति वा ।
सर्वं ब्रह्मैव तद्विद्धि यत्तथैवातथैव तत् ।। १२
श्रीराम उवाच ।
अतज्ज्ञविषये ब्रह्मन्कार्ये कारणसंभवे ।
किमकारणतात्म स्यात्कथं वेति वद प्रभो ।। १३
श्रीवसिष्ठ उवाच ।
अतज्ज्ञो नाम नास्त्येव तावत्तज्ज्ञजनं प्रति ।
असतो व्योमवृक्षस्य विचारः कीदृशस्ततः ।। १४
एकबोधमयाः शान्तविज्ञानघनरूपिणः ।
तज्ज्ञास्तेषामसद्रूपे कथमर्थे विचारणा ।। १५
अतज्ज्ञत्वं च बोधेऽन्तरवभाति तदङ्गता ।
गते स्वप्नसुषुप्तेऽन्तरिव निद्रात्म केवलम् ।। १६
तथाप्यभ्युपगम्यापि मूर्खनिश्चय उच्यते ।
मयेदमणु सर्वात्म यस्माद्ब्रह्म निरामयम् ।। १७
सन्त्यकारणका एव सन्ति कारणजास्तथा ।
भावाः संविद्यथा यस्मात्कल्प्यते लभ्यते तथा ।। १८
सर्वकारणसंशान्तौ सर्वानुभवशालिनाम् ।
सर्गस्य कारणं नास्ति तेन सर्गस्त्वकारणः ।। १९
हृदयंगमतात्यक्तमीश्वरादि प्रकल्प्यते ।
यदत्र किंचिद्दुःस्वादु व्यर्थं वाग्जालमेव तत् ।। २०
अन्यथानुपपत्त्यैव स्वप्नाभाकलनादृते ।
स्थूलाकारात्मिका काचिन्नास्ति दृश्यस्य दृश्यता ।। २१
स्वप्नपृथ्व्याद्यनुभवे किमबुद्धस्य कारणम् ।
चित्स्वभावादृते ब्रूहि स्वप्नार्थो नाम कीदृशः ।। २२
स्वप्नार्थो ह्यपरिज्ञातो महामोहभरप्रदः ।
परिज्ञातो न मोहाय यथा सर्गास्तथैव च ।। २३
शुष्कतर्कहठावेशाद्यद्वाप्यनुभवोज्झितम् ।
कल्प्यते कारणं किंचित्सा मौर्ख्याभिनिवेशिता ।। २४
अग्नेरौष्ण्यमपां शैत्यं प्राकाश्यं सर्वतेजसाम् ।
स्वभावो वाखिलार्थानां किमबुद्धस्य कारणम् ।। २५
किं ध्यातृशतलब्धस्य ध्येयस्यैकस्य कारणम् ।
किं च गन्धर्वनगरे पुरे भित्तिषु कारणम् ।। २६
धर्माद्यमुत्रामूर्तत्वान्मूर्ते देहे न कारणम् ।
देहस्य कारणं किं स्यात्तत्र सर्गादिभोगिनः ।। २७
भित्त्यभित्त्यादिरूपाणां ज्ञानस्य ज्ञानवादिनः ।
किं कारणमनन्तानामुत्पन्नध्वंसिनां मुहुः ।। २८
स्वभावस्य स्वभावोऽसौ किल कारणमित्यपि ।
यदुच्यते स्वभावस्य सा पर्यायोक्तिकल्पना ।। २९
तस्मादकारणा भ्रान्तिर्भावा भान्ति च कारणम् ।
अज्ञे ज्ञे त्वखिलं कार्यं कारणाद्भवति स्थितम् ।। ३०
यद्वत्स्वप्नपरिज्ञानात्स्वप्ने द्रव्यापहारिभिः ।
न दुःखाकरणं तद्वज्जीवितं तत्त्वदर्शनात् ।। ३१
सर्गादावेव नोत्पन्नं दृश्यं चिद्गगनं त्विदम् ।
स्वरूपं स्वप्नवद्भाति नान्यदत्रोपपद्यते ।। ३२
अन्या न काचित्कलना दृश्यते सोपपत्तिका ।
अस्मान्न्यायादृते कस्माद्ब्रह्मैवैषानुभूतिभूः ।। ३३
ऊर्म्यावर्तद्रवत्वादि शुद्धे जलघने यथा ।
तथेदं सर्गपर्यायं ब्रह्मणि ब्रह्म भासते ।। ३४
स्पन्दावर्तविवर्तादि निर्मले पवने यथा ।
तथायं ब्रह्मपवने सर्गस्पन्दोऽवभासते ।। ३५
यथानन्तत्वसौषिर्यशून्यत्वादि महाम्बरे ।
स सन्नासन्नबोधात्म तथा सर्गः परापरः ।। ३६
एषु निद्रादिकेष्वेते सूपलब्धा अपि स्फुटम् ।
भावा असन्मया एवमेतेऽनन्यात्मका यतः ।। ३७
सर्गप्रलयसंस्थानान्येवमात्मनि चिद्धने ।
सौम्ये स्वप्नसुषुप्ताभा शुद्धे निद्राघने यथा ।। ३८
स्वप्नात्स्वप्नान्तराण्यास्ते निद्रायां मानवो यथा ।
सर्गात्सर्गान्तरान्मास्ते स्वसत्तायामजस्तथा ।। ३९
पृथ्व्यादिरहितोऽप्येष ब्रह्माकाशो निरामयः ।
अतद्वांस्तद्वदाभाति यथा स्वप्नानुभूतिषु ।। ४०
स्थिता यथास्यां पश्यन्त्यां शब्दा घटपटादयः ।
जाताजाताः स्थिताः सर्गास्तथानन्ये महाचिति ।। ४१
पश्यन्त्यामेव पश्यन्ती यथा भाति तथैव च ।
यथा शब्दास्तथा सर्गाश्चितैव चिति चिन्मयाः ।। ४२
किं शास्त्रकं तत्रकथाविचारै-
र्निर्वासनं जीवितमेव मोक्षः ।
सर्गे त्वसत्येवमकारणत्वा-
त्सत्येव नास्त्येव न नाम काचित् ।। ४३
एषा च सिद्धेह हि वासनेति
सा बोधसत्तैव निरन्तरैका ।
नानात्वनानारहितैव भाति
स्वप्ने चिदेवेह पुरादिरूपा ।। ४४इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० ब्रह्मगीतासु सत्यवर्णनं नाम सप्तसप्तत्यधिकशततमः सर्गः ।। १७७ ।।