योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १८७


सप्ताशीत्यधिकशततमः सर्गः १८७
श्रीराम उवाच ।
विचित्राणामसंख्यानां भावानां नियतिः कुतः ।
कथं स्वभावो भावानामेकरूपः स्थितोऽचलः ।। १
सत्स्वसंख्येषु देवेषु सूर्य एवोग्रभाः कथम् ।
दीर्घत्वमथ ह्रस्वत्वं दिवसानां तु किंकृतम् ।। २
श्रीवसिष्ठ उवाच ।
काकतालीयवद्भानं यत्परे नियतं स्वतः ।
यथास्थितं यथारूपं स्थिते तज्जगदुच्यते ।। ३
सर्वशक्तेर्यथा यद्यद्भाति तत्तत्तथैव सत् ।
संविन्सारतया यायात्कथं भातमभातताम् ।। ४
यथा स्थितं यथा भाति चित्त्वाद्ब्रह्म चिराय यत् ।
तस्य भानमभानाभं नियत्यभिधमेव तत् ।। ५
इदमित्थमिदं चेत्थं स्वयं ब्रह्मेति भाति यत् ।
तन्नियत्यभिधं प्रोक्तं सर्गसंहाररूपधृक् ।। ६
जाग्रत्स्वप्नसुषुप्ताख्यं यत्स्वतः कचनं चिति ।
तत्ततोऽनन्यदेकाच्छं द्रवत्वमिव वारिणि ।। ७
यथा शून्यत्वमाकाशे कर्पूरे सौरभं यथा ।
यथौष्ण्यमातपे नान्यज्जाग्रदादि तथा चिति ।। ८
सर्गप्रलयनाम्न्येकप्रवाहानन्यसत्तया ।
चिन्मात्रगगनात्मैकब्रह्मात्मन्येव संस्थितम् ।। ९
सर्गोऽयमिति तद्बुद्धं क्षणं यत्कचनं चितः ।
कल्पोऽयमिति तद्बुद्धं क्षणं तत्कचनं चितः ।। १०
तत्कालस्तत्क्रिया तत्त्वं देशद्रव्योदयादि तत् ।
यत्स्वप्न इव चिन्मात्रकचनं स्वस्वभावतः ।। ११
रूपालोकमनस्कारदेशकालक्रियादि तत् ।।
चित्त्वं कचति चिद्व्योम्नि यन्नामानाकृति स्वतः ।। १२
यद्यथा कचितं कालं यत्किंचित्कल्पितं तथा ।
तेनैवेयं हि नियतिरित्यप्याकाशरूपकम् ।। १३

आकल्पाख्यं निमेषं यत्कचनं चैकरूपकम् ।
स्वाभाविकाः स्वभावं तं प्राहुः प्रसृतबुद्धयः ।। १४
एकस्य संविन्मात्रस्य पदार्थशतता तथा ।
यथेदं संविदंशस्य रूपं स्वं स्वमनुज्झतः ।। १५
संविन्मये संविदो याः कचन्तीव परे तथा ।
ताभिस्तेषां स्वदेहानां यासां सा कलना कृता ।। १६
चिदुर्वी सलिलं तेजः स्पन्दः शून्यत्वमेव च ।
प्रत्येकमाकरस्त्वेषां तानि स्वप्न इवाम्बरम् ।। १७
तत्र सप्रतिघस्यास्य कठिनस्याकरो महान् ।
भूपीठं जनताधारो राजव्राजेव राजते ।। १८
अपामब्धिः प्रधानानां तेजसामेष भास्करः ।
स्पन्दस्य पवनो व्योम शून्यताया जगद्गतम् ।। १९
पञ्चानामिति भूतानामाकरत्वेन संविदः ।
पञ्च तान्युचिता ब्राह्म्यः प्रश्नः किं भास्करं प्रति ।। २०
बुधा संविच्चिदित्युक्ता सर्वगा सर्वरूपिणी ।
सर्वत्र स्वमहिम्नैषा सर्वेणैवानुभूयते ।। २१
ब्रह्मात्मा ब्रह्मबालोऽयं स्वसंवित्स्फुरणामिमाम् ।
व्योमात्मक्षौमभूनाम्नीं स्फारयत्यम्बराकृतिः ।। २२
सा यदैतत्तथैतच्च चिरमत्त्यजसंविदा ।
तदा तदङ्गस्यार्कादेर्नाऽतो नोत्पादि चञ्चलम् ।। २३
संकल्पपूर्वमशकजालवद्धिष्ण्यचक्रकम् ।
आवर्तवर्तिना भाति चिद्व्योमेदं च दृश्यवत् ।। २४
तत्र प्रभास्वराः केचित्केचिदप्यल्पभास्वराः ।
केचिच्चाभास्वरा भाताः पदार्थाश्चित्ररूपिणः ।। २५
पदार्थजातं त्वेतावन्न जातं न च दृश्यते ।
ज्ञस्याजातमिदं भाति खमात्मा स्वप्नदृश्यवत् ।। २६
चिन्मात्रमात्मा सर्वेशः सर्व एवातिदृश्यवत् ।
नश्यतीव विदेहे स्वे न च भाति न नश्यति ।। २७
स्वप्नदर्शनवद्भाति यच्चिद्व्योम चिदम्बरे ।
चिद्व्योमत्वादृते रूपं तदस्य जगतः कुतः ।। २८
यद्यथा स्फुरितं तस्य यावत्सत्तं स्फुरद्वपुः ।
तत्स्वभावनियत्याख्यैः शब्दैरिह निगद्यते ।। २९
गगनाङ्गस्य सत्तान्तः शब्दतन्मात्रकल्पया ।
कुसूलबीजाङ्कुरवत्तिष्ठत्याशान्तरूपिणी ।। ३०
संपद्यते तत इदमितीयं रचनेहया ।
कृता सा मुग्धबोधाय मूर्खैर्विरचिता मुधा ।। ३१
नास्तमेतीह नोदेति तत्कदाचन किंचन ।
शिलाजठरवच्छान्तमिदं नित्यं सदप्यसत् ।। ३२
यथावयविनो नान्तः सदैवावयवाणवः ।
नास्तं यान्ति न चोद्यन्ति जगन्त्यात्मपदे तथा ।।३३
ब्रह्म व्योम्नि जगद्व्योम व्योम व्योम्नीव विद्यते ।
तत्कथं किल संशुद्धमस्तमायात्युदेति वा ।। ३४
तस्यानन्तप्रकाशात्मरूपस्याततचिन्मणेः ।
सत्तामात्रात्मकचनं यदजस्रं स्वभावतः ।। ३५
तदात्मना स्वयं किंचिच्चेत्यतामिव गच्छति ।
अगृहीतात्मकं संविदूहामर्शनसूचकम् ।। ३६
भाविनामार्थकलनैः किंचिदूहितरूपकम् ।
आकाशादणु शुद्धं च सर्वस्मिन्भाविबोधनम् ।। ३७
ततः सा परमा सत्ता सती तच्चेतनोन्मुखी ।
चिन्नामयोग्या भवति किंचिल्लभ्यतया तया ।। ३८
घनसंवेदनात्पश्चाद्भाविजीवादिनामिका ।
सा भवत्यात्मकलना यद्भवन्ती परं पदम् ।। ३९
गर्भीकृत्य स्थिताऽनाख्या चिदाकाशापिधानताम् ।
संप्रति त्वतिशुद्धस्य पदस्यानन्यरूपिणी ।। ४०
स्वतैकभावनामात्रसारसंसरणोन्मुखी ।
तदा विनाभावकृता अनुतिष्ठन्ति तामिमाः ।। ४१
शून्यरूपा स्वसत्तैका शब्दादिगुणगर्भिणी ।
चिद्भावनाभिसंपन्ना भविष्यदभिधार्थता ।। ४२
अहंतोदेति तदनु सह वै कालसत्तया ।
भविष्यदभिधार्थे ते बीजं मुख्यं जगत्स्थितेः ।। ४३
चितिशक्तेः परायास्तु स्वसंवेदनमात्रकम् ।
जगज्जालमसद्रूपं चेतनात्सदिव स्थितम् ।। ४४
एवंप्रायात्मिका सा चिद्बीजं संकल्पशाखिनः ।
अहंतां भावयत्यन्तः सैवेह भवति क्षणात् ।। ४५
जीवाभिधाना सैषाद्य भावाभावप्लवभ्रमैः ।
भ्रमत्यात्मपदे वीचिरूपैर्वारीव वारिणि ।। ४६
चिदेवंभावनवती व्योमतन्मात्रभावनाम् ।
स्वतो घनीभूय शनैः खतन्मात्रं प्रचेतति ।। ४७
भाविनामार्थरूपं तद्बीजं शब्दौघशाखिनः ।
पदवाक्यप्रमाणाढ्यवेदार्थादिविकारि च ।। ४८
तस्मादुदेष्यत्यखिला जगच्छ्रीः शब्दतत्त्वतः ।
शब्दौघनिर्मितार्थौघपरिणामविसारिणी ।। ४९
चिदेवंव्यवसाया सा जीवशब्देन कथ्यते ।
भाविशब्दार्थजालेन बीजं भूतौघशाखिनः ।। ५०
चतुर्दशविधं भूतजातमावलिताम्बरम् ।
जगज्जठरकर्णौघं तस्मात्संप्रसरिष्यति ।। ५१
असंप्राप्ताभिधाचारा जीवत्वाच्चेतनेन चित् ।
काकतालीयवत्स्पन्दचिन्मात्रं चेतति स्वयम् ।। ५२
पवनस्कन्धरूपस्य बीजं त्वक्स्पर्शशाखिनः ।
सर्वभूतक्रियास्पन्दस्तस्मात्संप्रसरिष्यति ।। ५३
तत्र यच्चिद्विलासस्य प्रकाशानुभवो भवेत् ।
रूपतन्मात्रकं तद्वद्भविष्यदभिधार्थदम् ।। ५४
प्रकाशचेतनं तेजो न तेजोऽन्यकृतं भवेत् ।
स्पर्शसंवेदनं स्पर्शो नेतरस्पर्शसंभवः ।। ५५
शब्दसंवेदनं शब्दः स्वत एवानुभूयते ।
खं खेनेव स्वयं कोशे नान्यच्छब्दकृदस्ति हि ।। ५६
किल तस्यामवस्थायां कोऽपरः शब्दकृद्भवेत् ।
यथा तथा तदाद्यापि द्वैतैक्यस्यात्यसंभवात् ।। ५७
एवं हि रसतन्मात्रं गन्धतन्मात्रमेव च ।
असत्यमेव सदिव स्वप्नाभमिव चेत्यते ।। ५८
तेजः सूर्यादिजृम्भाभिर्बीजमालोकशाखिनः ।
तस्माद्रूपविभेदेन संसारः प्रसरिप्यति ।। ५९
भविष्यदभिधस्याथ खतः स्वत इवासतः ।
स्वदनं तस्य संघस्य रसतन्मात्रमुच्यते ।। ६०
भविष्यद्रूपसंकल्पनामासौ सकलो गणः ।
संकल्पात्माथ तन्मात्रं गन्धाद्यमनुचेतति ।। ६१
भाविभूगोलकत्वेन बीजमाकृतिशाखिनः ।
सर्वाधारात्मनस्तस्मात्संसारः प्रसरिष्यति ।। ६२
अजात एव संजातस्तन्मात्राणां गणस्त्विति ।
अनाकारोऽपि साकारः संपन्नः कल्पनावशात् ।। ६३
एष तन्मात्रकगणः काकतालीयवत्स्वयम् ।
रूपं येन प्रदेशेन वेत्त्यक्षीति तदुच्यते ।। ६४
शब्दं येन प्रदेशेन वेत्ति श्रोत्रं तदुच्यते ।
स्पर्शं येन प्रदेशेन वेत्ति तत्तु त्वगिन्द्रियम् ।। ६५
रसं येन प्रदेशेन वेत्ति तद्रसनेन्द्रियम् ।
गन्धं येन प्रदेशेन वेत्ति घ्राणेन्द्रियं तु तत् ।। ६६
दिक्कालभेदाज्जीवोऽयं नियतामाकृतिं गतः ।
सर्वेणाङ्गेन नो सर्वं वेत्त्यसर्वात्मतावशात् ।। ६७
इति कलनमनन्तमात्मनोन्त-
र्गतमनुमेयमनन्यदात्मभूतम् ।
न तदुदयमुपैति नास्तमेति
स्थितमुपलोदरवद्धनं सुमौनम् ।। ६८
इत्यार्षे श्रीवासि० वाल्मी० दे० मो० नि० उ० जीवत्वसंसृतिप्रतिपादनं नाम सप्ताशीत्यधिकशततमः सर्गः ।। १८७ ।।