योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः २००


द्विशततमः सर्गः २००
श्रीवाल्मीकिरुवाच ।
निर्वाणवाक्यसंदर्भसमाप्तौ मुनिनायके ।
पाश्चात्यवाक्यविरतिं कुर्वति क्रमपालिताम् ।। १
निर्विकल्पसमाधानसमतां समुपागते ।
शान्तस्वच्छमनोवृत्तौ सर्वस्मिंश्च सभाजने ।। २
सत्त्वकोटिमुपारूढे परां पावनतां गते ।
संवित्तत्त्वे समग्रस्य जनस्य श्रुतशालिनः ।। ३
झटित्येवाम्बरहृता पूर्वमुक्तधियां मुखात् ।
सिद्धानां साधुवादेन व्योमकोटरवासिनाम् ।। ४
तथा सभास्थितानां च मुनीनां भावितात्मनाम् ।
गाधेयप्रमुखानां च साधुवादगिरोच्चया ।। ५
कोलाहलः समुदभूद्भूरिपूरितदिंमुखः ।
मधुरः पवनात्तानां कीचकानामिवारवः ।। ६
सिद्धानां साधुवादेन सह वै सहसा ततः ।
देवदुन्दुभयो नेदुः प्रतिश्रुत्पूरिताचलाः ।। ७
देवदुन्दुभिभिः सार्धं तुषारासारसुन्दरी ।
दिग्भ्यः स्थगितदिक्चक्रा पुष्पवृष्टिः पपात ह ।। ८
पुष्पौघपूरितस्थानः शब्दापूरितकन्दरः ।
रजःसंरञ्जिताकाशो गन्धरञ्जितमारुतः ।। ९
स साधुवादशब्दस्य देवतूर्यरवस्य च ।
कुसुमासारघोषस्य समवायो रराज ह ।। १०
उन्मुखाखिलसभ्याक्षिरश्मिश्यामलितान्तरः ।
उत्कर्णमृगमातङ्गहयपक्षिपशुश्रुतः ।। ११
सविस्मयभयोन्नेत्रबालकान्ताजनेक्षितः ।
विस्मयस्मेरवदनराजलोकावलोकितः ।। १२
कुसुमासारसारेण शब्दशोभातिशायिना ।
संरम्भेण जगामाशु रोदोरन्ध्रमपूर्वताम् ।। १३
पुष्पवर्षसुधाधौतं रटद्भूतसुघुंघुमम् ।
समतां सदनेनागात् ध्मातशङ्खशतेन खम् ।। १४
भुवनं भूरिभांकारभासुरं सुरचारणैः ।
वृतं मत्तोत्सवं रेजे समं कुसुममण्डितम् ।। १५
शनैर्दुन्दुभिसिद्धौघवाक्यपुष्पभरः समम् ।
प्रययौ रोदसीरन्ध्रे वेलाचलमिवाम्बुधौ ।। १६
तस्मिन्विबुधसंरम्भे क्षणेन समये गते ।
वाक्यानीमानि सिद्धानामभिव्यक्तिमुपाययुः ।। १७
सिद्धा ऊचुः ।
आकल्पं सिद्धसङ्घेषु मोक्षोपायाः सहस्रशः ।
व्याख्याताश्च श्रुताश्चालमीदृशास्तु न केचन ।। १८
तिर्यञ्चो वनिता वाला व्यालाश्चानेन निर्वृतिम् ।
मुनेर्वाक्यविलासेन यान्ति नास्त्यत्र संशयः ।। १९
दृष्टान्तैर्हेतुभिर्युक्त्या यथा रामोऽवबोधितः ।
तथा चारुन्धती साक्षात्संबोधयति वा न वा ।। २०
अनेन मोक्षोपायेन तिर्यञ्चोऽपि गतामयाः ।
स्थिता मुक्ता भविष्यन्ति के नाम भुवि नो नराः ।।२१
श्रवणाञ्जलिभिः पीत्वा ज्ञानामृतमिदं वयम् ।
परां पूर्णनवीभूतसिद्धयः श्रियमागताः ।। २२
इति शृण्वन्सभां लोको विस्मयोत्फुल्ललोचनः ।
कुसुमासारसंपूर्णां राजीवानां ददर्श ताम् ।। २३
मन्दारादिमहापुष्पच्छन्नच्छादनसंचयाम् ।
पारिभद्रलतागुच्छनीरन्ध्राजिरभूमिकाम् ।। २४
पारिजातप्रसूनाढ्यमहीतलविराजिताम् ।
संतानकमहाम्भोदव्याप्तसभ्यशिरःकराम् ।। २५
मौलिरत्नविटंकाग्रविश्रान्तहरिचन्दनाम् ।
वारिपूरप्रलम्बाभ्रवदालम्बिवितानकाम् ।। २६
इति पश्यन्सभां लोकः साधुवादेन भूरिणा ।
तत्कालोचितवाक्येन तेन तेन तथोद्यतः ।। २७
वसिष्ठं पूजयामास सर्वेन्द्रियगणानतः ।
कुसुमाञ्जलिमिश्रेण प्रणामसहितेन च ।। २८
नृपप्रणाममालासु किंचिच्छान्तासु तास्वथ ।
मुनिमापूजयन्नाह सार्घ्यपात्रकरो नृपः ।। २९
दशरथ उवाच ।
क्षयातिशयमुक्तेन परमेणात्मवस्तुना ।
परान्तः पूर्णतोत्पन्ना बोधेनारुन्धतीपते ।। ३०
न तदस्ति महीपीठे दित्य देवेषु वापि च ।
महत्किंचिद्यदप्राप्तं तव पूज्यस्य पूजनम् ।। ३१
तथाप्यात्मक्रमं ब्रह्मन्निमं नेतुमवन्ध्यताम् ।
अहं वच्मि यथाप्राप्तं न कोपं कर्तुमर्हसि ।। ३२
आत्मना सकलत्रेण लोकद्वयशुभेन च ।
राज्येनाखिलभृत्येन भवन्तं पूजयाम्यहम् ।। ३३
एतत्सर्वं तव विभो स्वायत्तं स्व इवाश्रमः ।
नियोजय यथादेशं यथाभिमतयेच्छया ।। ३४
श्रीवसिष्ठ उवाच ।
प्रणाममात्रसंतुष्टा ब्राह्मणा भूपते वयम् ।
प्रणामेनैव तुष्यामः स एव भवता कृतः ।। ३५
पातुं त्वमेव जानासि राज्यं भाति तवैव च ।
भवत्वेतत्तवैवेह ब्राह्मणाः क्व महीभृतः ।। ३६
दशरथ उवाच ।
कियन्मात्रं तु राज्यं स्यादिति लज्जामहे मुने ।
प्रकर्षेणात्र तेनेश यथा जानासि तत्कुरु ।। ३७
श्रीवाल्मीकिरुवाच ।
इत्युक्तवति भूपाले रामः पुष्पाञ्जलिं ददत् ।
उवाच प्रणतो वाक्यं पुरस्तस्य महागुरोः ।। ३८
निरुत्तरीकृतमहाराज ब्रह्मन्प्रणौमि ते ।
प्रणाममात्रसारोऽहं रामः पादाविमौ प्रभो ।। ३९
इत्युक्त्वा पादयोस्तस्य शिरोवन्दनपूर्वकम् ।
तत्याजाञ्जलिपुष्पाणि हिमानीव वनं गिरेः ।। ४०
आनन्दबाष्पसंपूर्णनयनो नयकोविदः ।
गुरुं परमया भक्त्या प्रणनाम पुनःपुनः ।। ४१
शत्रुघ्नो लक्ष्मणश्चैव तथान्ये तत्समाश्च ये ।
निकटस्थास्तथैवाशु ते प्रणेमुर्मुनीश्वरम् ।। ४२
दूरप्रणामैर्दूरस्थाः पुष्पाञ्जलिसमीरणैः ।
राजानो राजपुत्राश्च प्रणेमुर्मुनयश्च तम् ।। ४३
अस्मिन्नवसरे तत्र कुसुमाञ्जलिवर्षणैः ।
हिमैरिव हिमाद्रीन्द्रो मुनिरन्तर्धिमाययौ ।। ४४
अथ शान्ते सभाक्षोमे प्रणामनिवहे तथा ।
संस्मरञ्छासनं किंचित्सत्ये कृष्णसिताशयम् ।। ४५
मुनिः कुसुमराशिं तं बाहुभ्यां प्रविचाल्य सः ।
मुखं संदर्शयामास सिताभ्रादिव चन्द्रमाः ।। ४६
शान्ते सिद्धवचोराशौ तथा दुन्दुभिनिःस्वने ।
नभःकुसुमवर्षे च सभाकलकले तथा ।। ४७
प्रणामानन्तरं तस्मिन्रामाद्यैः स्वसभाजने ।
शान्तवात इवाम्भोदे जने सौम्यत्वमागते ।। ४८
आकर्णयन्साधुवादं विश्वामित्रं मृदुस्वनम् ।
उवाचेदमनिन्द्यात्मा वसिष्ठो मुनिनायकः ।। ४९
मुने गाधिकुलाम्भोज वामदेव निमे क्रतो ।
भरद्वाज पुलस्त्यात्रे घृष्टे नारद शाण्डिले ।। ५०
हे भासभृगुभारण्डवत्सवात्स्यायनादयः ।
मुनयस्तुच्छमेतन्नु भवद्भिर्मद्वचः श्रुतम् ।। ५१
यदत्रानुचितं किंचित्तदनुग्रहतोऽधुना ।
दुरर्थं विगतार्थं वा भवन्तः कथयन्तु मे ।। ५२
सभ्या ऊचुः ।
वसिष्ठवचने ब्रह्मन्परमार्थैकशालिनि ।
दुरर्थो भवतीत्यद्य नवैव खलु गीः श्रुता ।। ५३
यत्संभृतमनन्तेन जन्मदोषेण नो मलम् ।
तत्प्रमृष्टं त्वयेहाद्य हेम्नामिव हविर्भुजा ।। ५४
ब्रह्मबृंहितया वाचा विभो विकसिता वयम् ।
कुमुदानीन्दुदीप्त्येव परमामृतशीतया ।। ५५
सर्वसत्त्वमहाबोधदायिनं मुनिनायकम् ।
भवन्तमेकान्तगुरुं प्रणमाम इमे वयम् ।। ५६
श्रीवाल्मीकिरुवाच ।
इत्युक्त्वा मुनिनाथाय नमस्त इति ते पुनः ।
वदन्त एकशब्देन तारेणाब्दरवौजसा ।। ५७
अर्वाक्पुष्पाञ्जलिव्रातैः खात्सिद्धैः सममुज्झितैः ।
वसिष्ठं पूरयामासुर्हिमैरब्दा इवाचलम् ।। ५८
इत्थं दशरथं भूपं शशंसुश्चाथ राघवम् ।
माधवं चतुरात्मानं राघवोदन्तकोविदाः ।। ५९
सिद्धा ऊचुः ।
नमाम चतुरात्मानं नारायणमिवापरम् ।
रामं सभ्रातरं जीवन्मुक्तं राजकुमारकम् ।। ६०
चतुरब्धिनिखातान्तधरावलयपालकम् ।
त्रिकालस्थमहीपालचिह्नं दशरथं नृपम् ।। ६१
मुनिसेनाधिपं भूपं भास्करं भूरितेजसम् ।
वसिष्ठं सुप्रवादाढ्यं विश्वामित्रं तपोनिधिम् ।। ६२
एषामेव प्रभावेन ज्ञानयुक्तिं परामिमाम् ।
श्रुतवन्तो वयं सर्वे भ्रान्तिसंरम्भनाशिनीम् ।। ६३
श्रीवाल्मीकिरुवाच ।
इत्युक्त्वा गगनात्सिद्धा भूयः पुष्पाणि चिक्षिपुः ।
सभायामथ तूष्णीं च तस्थुर्मुदितचेतसः ।। ६४
तथैव व्योमगाः सिद्धाः शशंसुस्तं जनं पुनः ।
तथैव सभ्यास्तांस्तत्र समानर्चुर्घनस्तवम् ।। ६१
नभश्चरा धरणिचरा मुनीश्वरा
महर्षयो विबुधगणा द्विजा नृपाः ।
अपूजयन्निति जनमोजसैव ते
गिरोच्चया सह कुसुमार्घ्यदानया ।। ६६
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० साधुवादसपर्यादिवर्णनं नाम द्विशततमः सर्गः ।। २०० ।।