योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः २०२


द्व्यधिकद्विशततमः सर्गः २०२
श्रीवाल्मीकिरुवाच ।
एतच्छ्रुत्वा वसिष्ठस्य वचः संसदि पार्थिवाः ।
सिक्ता इवामृतापूरैरन्तःशीतलतां ययुः ।। १
रामः कमलपत्राक्षो रराज वदनेन्दुना ।
क्षीरोद इव संपूर्णः सुधापूरेण चारुणा ।। २
वामदेवादयः सर्वे तत्त्वज्ञानविशारदाः ।
अहो भगवता ज्ञानमुक्तमित्यूचुरादरात् ।। ३
शान्तान्तःकरणो राजा मुदा दशरथो बभौ ।
तुष्ट्यैव संप्रहृष्टाङ्गो नवां द्युतिमुपागतः ।। ४
ज्ञातज्ञेयेषु बहुषु साधुवादकथास्वथ ।
उवाच गलिताज्ञानो रामो वाक्यमिदं पुनः ।। ५
श्रीराम उवाच ।
भगवन्भूतभव्येश त्वयास्माकमलं मलम् ।
संप्रमृष्टमिदं हेम्नः श्यामत्वमिव वह्निना ।। ५
अभूम वयमात्मीयकायमात्रदृशः पुरा ।
प्रभो संप्रति संपन्ना विष्वग्विश्वावलोकिनः ।। ७
स्थितोऽस्मि सर्वसंपूर्णः संपन्नोऽस्मि निरामयः ।
जातोऽस्मि विगताशङ्को बुधो जागर्मि संप्रति ।। ८
आनन्दितोऽस्म्यखेदाय सुखितोस्मि चिराय च ।
स्थितोऽनस्तमयायैव शाश्वतार्थोदयो मम ।। ९
अहो बत पवित्रेण शीतेन ज्ञानवारिणा ।
त्वया सिक्तोस्मि हृष्यामि पद्मवद्धृदये स्वयम् ।। १०
इयमद्य मया लब्धा पदवी त्वत्प्रसादतः ।
यस्यां स्थितस्य मे सर्वममृतत्वं गतं जगत् ।। ११
अन्तःप्रसन्नमतिरस्तसमस्तशोकः
शोभां गतोऽहममलाशय एव शान्त्या ।
आनन्दमात्मनि गतः स्वयमात्मनैव
नैर्मल्यमभ्युपगतोऽस्मि नमोस्तु मह्यम् ।। १२
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उत्तरार्धे आत्मविश्रामाङ्गीकरणं नाम द्व्यधिकद्विशततमः सर्गः ।। २०२ ।।