योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः २१६


षोडशाधिकद्विशततमः सर्गः २१६
श्रीवाल्मीकिरुवाच ।
एतत्ते कथितं राजन्कुम्भयोनेः सुभाषितम् ।
अमुना तत्त्वमार्गेण तत्पदं प्राप्स्यसि ध्रुवम् ।। १
राजोवाच ।
भगवन्भवतो दृष्टिर्भवबन्धविनाशनी ।
आलोकितो यया चाहमुत्तीर्णोऽस्मि भवाम्बुधेः ।। २
देवदूत उवाच ।
इत्युक्त्वासौ ततो राजा विस्मयोत्फुल्ललोचनः ।
उवाच वचनं मां तु मधुर श्लक्ष्णया गिरा ।। ३
राजोवाच ।
देवदूत नमस्तुभ्यं कुशलं चास्तु ते विभो ।
सतां साप्तपदं मैत्रमित्युक्तं तत्त्वया कृतम् ।। ४
इदानीं गच्छ भद्रं ते देवराजनिवेशनम् ।
अनेन श्रवणेनाहं निर्वृतो मुदितोऽपि च ।। ५
श्रुतार्थं चिन्तयन्नत्र स्थास्यामि विगतज्वरः ।
इत्युक्तोऽहं ततो भद्रे परं विस्मयमागतः ।। ६
न श्रुतं पूर्वमेवैतज्प्तानसारं श्रुतं मया ।
तेनैव मुदितश्चान्तः पीतामृत इवाधुना ।। ७
ततो वाल्मीकिमापृच्छय आगतोऽस्मि त्वदन्तिके ।
एतत्ते सर्वमाख्यातं त्वया पृष्टं ममानघे ।
इतः परं गमिष्यामि शक्रस्य सदनं प्रति ।। ८
अप्सरा उवाच ।
नमोऽस्तु ते महाभाग देवदूत त्वया मम ।
श्रावितादर्थविज्ञानात्परां निर्वृतिमागता ।। ९
कृतार्था वीतशोकास्मि स्थास्यामि विगतज्वरा ।
इदानीं गच्छ भद्रं ते यथेच्छं शक्रसंनिधौ ।। १०
अग्निवेश्य उवाच ।
ततः सा सुरुचिः श्रेष्ठा तमेवार्थमचिन्तयत् ।
स्थिता सा हिमवत्पृष्ठे समीपे गन्धमादने ।। ११
कच्चिदेतच्छ्रुतं पुत्र वसिष्ठस्योपदेशनम् ।
तत्सर्वमवधार्याथ यथेच्छसि तथा कुरु ।। १२
कारुण्य उवाच ।
स्मृतिर्वाग्दृष्टिसत्ता च स्वप्ने वन्ध्यासुतेऽजले ।
मरीचिका यथा तद्वज्ज्ञानात्सांसारिकी स्थितिः ।। १३
मम नास्ति कृतेनार्थो नाकृतेनेह कश्चन ।
यथाप्राप्तेन तिष्ठामि ह्यकर्मणि क आग्रहः ।। १४
अगस्तिरुवाच ।
इत्युक्त्वा नाम कारुण्य अग्निवेश्यसुतः कृती ।
प्राप्तकर्मा यथान्यायं काले काले ह्युपाहरत् ।। १५
संदेहोऽत्र न कर्तव्यः सुतीक्ष्ण ज्ञानकर्मणि ।
संशयाद्भ्रश्यते स्वार्थात्संशयात्मा विनश्यति ।। १६
एतच्छ्रुत्वा मुनेर्वाक्यमनेकार्थैक्यबोधनम् ।
नमस्कृत्य गुरुं प्राह अन्तिके विनयान्वितः ।। १७
सुतीक्ष्ण उवाच ।
नष्टमज्ञानतत्कार्यं प्राप्तं ज्ञानमनुत्तमम् ।
साक्षिणि स्फुरिताभासे ध्रुवे दीप इव क्रियाः ।। १८
सति यस्मिन्प्रवर्तन्ते वित्तेहाः स्पन्दपूर्विकाः ।
कटकाङ्गदकेयूरनूपुरैरिव काञ्चनम् ।। १
पयसीव तरङ्गाली यस्मात्स्फुरति दृश्यभूः ।
तदेवेदं जगत्सर्वं पूर्णे पूर्णं व्यवस्थितम् ।। २०
यथाप्राप्तोऽनुवर्तामि को लङ्घयति सद्वचः ।
भगवंस्त्वत्प्रसादेन ज्ञातज्ञेयोऽस्मि संस्थितः ।। २१
कृतार्थोऽहं नमस्तेऽस्तु दण्डवत्पतितो भुवि ।
गुरोरुत्तीर्णता केन शिष्याणामस्ति कर्मणा ।। २२
कायवाङ्मनसा तस्माच्छिष्यैरात्मनिवेदनम् ।
गुरोरुत्तीर्णता सैव नान्या केनापि कर्मणा ।। २३
स्वामिंस्तव प्रसादेन उत्तीर्णोऽहं भवाम्बुधेः ।
आपूरितजगज्जालं स्थितोस्मि गतसंशयः ।। २४
यत्सर्वं खल्विदं ब्रह्म तज्जलानिति च स्फुटम् ।
श्रुत्वा ह्युदीर्यते साम्नि तस्मै ब्रह्मात्मने नमः ।। २५
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं श्रीवसिष्ठं नताःस्मः।। २६
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषु निर्वाणप्रकरणे उत्तरार्धे बालकाण्डे
द्वात्रिंशच्छतसाहस्र्यां संहितायां षोडशाधिकद्विशततमः सर्गः ।। २१६ ।।