योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ००५
पञ्चमः सर्गः ५
श्रीराम उवाच ।
अहो अहं गतश्चित्त्वं भवद्वाक्यार्थभावनात् ।
शान्तं जगज्जालमिदमग्रस्थमपि नाथ मे ।। १
परामन्तः प्रयातोऽस्मि परमात्मनि निर्वृतिम् ।
दीर्घावग्रहसंतप्तं वृष्ट्येव वसुधातलम् ।। २
शाम्यामि शीतलाकारः सुखं तिष्ठामि केवलम् ।
प्रसादमनुयातोऽहं सरो निर्वारणं यथा ।। ३
सम्यक्प्रसन्नमखिलं दिङ्मण्डलमिदं मुने ।
यथाभूतं प्रपश्यामि निर्नीहारमिवाधुना ।। ४
जातोऽस्मि गतसंदेहः शान्ताशामृगतृष्णिकः ।
रागनीरागनिर्मुक्तो मृष्टजङ्गलशीतलः ।। ५
आत्मनैवान्तरानन्दं तत्प्राप्तोऽस्म्यन्तवर्जितम् ।
रसायनरसास्वादो यत्र नाथ तृणायते ।। ६
अद्याहं प्रकृतिस्थोऽस्मि स्वस्थोऽस्मि मुदितोऽस्मि च ।
लोकारामोऽस्मि रामोऽस्मि नमो मह्यं नमोस्तु ते ।। ७
ते संशयास्ताः कलनाः सर्वमस्तं गतं मम ।
रात्रिवेतालसंसारः प्रभात इव भास्करे ।। ८
निर्मले हृदि विस्तीर्णे संपन्ने हिमशीतले ।
मनो निर्वृतिमायातं सरसी शरदीव मे ।। ९
कलङ्क आत्मनः कस्मात्कथं चेत्यादिसंशयः ।
नूनं निर्मूलतां यातो मृगाङ्काग्रे यथा तमः ।। १०
सर्वमात्मैव सर्वत्र सर्वदा भाविताकृतिः ।
इदमन्यदिदं चान्यदित्यसत्कलना कुतः ।। ११
कोऽभवं प्रागहं तादृक्तृष्णानिगडयन्त्रितः ।
अन्तरात्मानमेवेति विहसामि विकासवान् ।। १२
आ इदानीं स्मृतं सम्यग्यथैष सकलोऽस्म्यसौ ।
यस्त्वद्वागमृतापूरस्नातेनायमहं स्थितः ।। १३
अहो नु विततां भूमिमधिरूढोऽस्मि पावनीम् ।
इहस्थ एव यत्रार्को न पातालमिव स्थितः ।। १४
मह्यं सत्तामुपेताय भावाभावभवार्णवात् ।
नमो नित्यं नमस्याय जयाम्यात्मात्मनात्मनि ।। १५
अनुभववशतो हृदब्जकोशे
स्फुटमलितां समुपागतेन नाथ ।
तव वरवचसेह वीतशोकां
चिरमुदितां च दशामुपागतोऽस्मि ।। १६
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० राघवविश्रान्तिवर्णनं नाम पञ्चमः सर्गः ।। ५ ।।