योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ००६


षष्ठः सर्गः ६
श्रीवसिष्ठ उवाच ।
भूय एव महाबाहो श्रृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ।। १
भेदमभ्युपगम्यापि श्रृणु बुद्धिविवृद्धये ।
भवेदल्पप्रबुद्धानामपि नो दुःखिता यथा ।। २
यस्याज्ञानात्मनोऽज्ञस्य देह एवात्मभावना ।
उदितेति रुषैवाक्षरिपवोऽभिभवन्ति तम् ।। ३
यस्य ज्ञानात्मनो ज्ञस्य सत्येवात्मनि संस्थितिः ।
संतुष्ट्यैवाक्षसुहृदो न घ्नन्ति तमनिन्दितम् ।। ४
पदार्थे स्फुरतो यस्य न स्तुतिर्निन्दनादृते ।
स देहं देहदुःखार्थमादत्ते केन हेतुना ।। ५
नात्मा शरीरसंबन्धी शरीरमपि नात्मनि ।
मिथो विलक्षणावेतौ प्रकाशतमसी यथा ।। ६
सर्वैर्भावविकारैस्तु नित्योन्मुक्तस्त्वलेपकः ।
नात्मास्तमेति भगवान्न चोदेति सदोदितः ।। ७
जडस्याज्ञस्य तुच्छस्य कृतघ्नस्य विनाशिनः ।
शरीरकोपलस्यास्य यद्भवत्यस्तु तत्तथा ।। ८
आदत्ते तत्कथं नित्यं चिन्मयत्वं सदोदितम् ।
ययोरेकपरिज्ञाने जडतैवाऽपरस्थिता ।। ९
तयोः कीदृग्विधा भूता समानसुखदुःखता ।
यौ समौ समधर्माणौ न कदाचन तौ कथम् ।। १०
यावप्यसक्तावन्योन्यं मिथः संनमितौ कथम् ।
कथं स्थूलोऽणुरूपः स्यादणुः स्थूलः कथं भवेत्।। ११
एकोदये द्वितीयस्य न सत्ता दिनरात्रयोः ।
ज्ञानं नाज्ञानतामेति च्छाया नायाति तापताम् ।। १२
सद्ब्रह्म नासद्भवति विचित्रास्वपि दृष्टिषु ।
मनागपि न संश्लेषः सर्वगस्यापि देहिनः ।। १३
देहेन देहगस्यापि कमलस्येव वारिणा ।
मनागपि न संश्लेषो ब्रह्मणो देहसत्तया ।। १४
तद्गतस्याप्यतद्वृत्तेरम्बरस्येव वायुतः ।
जरा मरणमापच्च सुखदुःखे भवाभवौ ।। १५
मनागपि न सन्तीह तस्मात्त्वं निर्वृतो भव ।
स्थितो देहतयाप्युच्चैः पातोत्पातमयो भ्रमः ।। १६
दृश्यते केवलं ब्रह्मण्यप्सु वीचिचयो यथा ।
आत्मसत्तोपजीवित्वादात्मानुभवतीह हि ।। १७
देहयन्त्रं पयःसत्तामात्रादूर्मिमिव स्थितम् ।
आधारस्पन्दनेनाङ्ग यथा क्षोभो न वा भवः ।। १८
सूर्यादेः प्रतिबिम्बस्य तथा देहेन देहिनः ।
सम्यग्दृष्टे यथाभूते वस्तुन्येवाभिजायते ।। १९
स्थितिर्देहमयो ज्ञानविभ्रमो लयमेति च ।
देहदेहवतोर्ज्ञानाद्यथाभूतार्थयोः स्थितिः ।। २०
सत्तासत्तात्मिकोदेति दीपाद्दीपपदार्थयोः ।
असम्यग्दर्शिनो देहस्यावर्तपरिवर्तनैः ।। २१
अन्तःशून्याः स्फुरन्तीह ते मोहार्जुनपादपाः ।
अपर्यालोचितात्मार्था अपरामृष्टसंविदः ।। २२
स्पन्दन्ते चेतितोन्मुक्तास्तृणवन्मूढबुद्धयः ।
अनास्थादितचित्तत्वाज्जडाः सर्वे खवायुभिः ।। २३
यत्र तत्रोदिताक्रान्ता रटन्ति प्रस्फुरन्ति च ।
तृणकाष्ठादिकं सर्वमाहरन्ति त्यजन्ति च ।। २४
सशब्दस्पर्शरूपाढ्यास्तरङ्गतरलाङ्गकाः ।
जडाः सन्तः स्फुरद्रूपा भृशं स्फाररसासवाः ।। २५
सविहारागमापाया महौघा इव दुर्धियः ।
सर्वेषामेव चैतेषां स्थितैवैषा चिदव्यया ।। २६
किंत्वबोधवशादस्याः परां कृपणतां गता ।
श्वाससंततयो ह्यज्ञाल्लोहकारदृतेर्यथा ।। २७
स्पन्दमात्रार्थमेवाशु दृश्यन्ते नार्थकारिणः ।
तर्जनं गर्जनं मूढाद्धनुर्दण्डगुणादिव ।। २८
श्रूयते मरणायैव चिद्बोधपरिवर्जितम् ।
फलभोगोऽपि यो मूढात्तदरण्यतरोरिव ।। २९
तस्मिन्विश्रमणं यत्तच्छिलाफलहके यथा ।
तेन यत्संगमः स स्यात्स्थाणुना भुवि जङ्गले ।। ३०
तदर्थं यत्कृतं किंचित्तद्व्योम लकुटैर्हतम् ।
तस्मिन्यदधमे दत्तं तत्त्यक्तं किं न कर्दमे ।। ३१
तेन सार्धं कथा यत्तत्कौलेयाह्वानमम्बरे ।
अज्ञानमापदां निष्ठा का हि नापदजानतः ।। ३२
इयं संसारसरणिर्वहत्यज्ञप्रमादतः ।
अज्ञस्योग्राणि दुःखानि सुखान्यपि दृढानि च ।। ३३
पुनःपुनर्निवर्तन्ते युगं प्रत्यचला इव ।
शरीरधनदारादावास्थां समनुबध्नतः ।। ३४
इदं दुर्दुःखमज्ञस्य न कदाचन शाम्यति ।
अनात्मनि शठे देहे आत्मभावमुपेयुषि ।। ३५
असद्बोधमयी माया कथं नामापि नश्यति ।
दुर्भावस्वञ्चितधियो वस्तुन्यन्धस्य दुर्मतेः ।। ३६
अवस्तुनि सनेत्रस्य लुठतश्च पदे पदे ।
विषमुत्पद्यते चन्द्रादामोदः कुसुमादिव ।। ३७
कण्टकश्चैति पयसो दूर्वाङ्कुर इव स्थलात् ।
देहशाल्मलिभोगिन्यो मनोमातङ्गश्रृंखलाः ।। ३८
अज्ञस्याशाः प्रसूयन्ते सुकृष्टादिव शालयः ।
नरकश्रीरिहाज्ञानं दुष्कृतव्यालवेष्टितम् ।। ३९
परिपालयति प्रीता मयूरी वारिदं यथा ।
नेत्रलोलालिनीलोला स्फुरिताधरपल्लवा ।। ४०
मूर्खार्थमेव विकसत्यङ्गना विषवल्लरी ।
अज्ञस्य हृदि सद्भूमावेव पेलवपल्लवा ।। ४१
विद्यते पतगच्छायो रागविद्रुमदुर्द्रुमः ।
तरुच्छदलसद्धूमः शस्त्रजालरदोल्मुकः ।। ४२
ज्वलति द्वेषदावाग्निर्हृन्मरौ कायतापदः ।
अज्ञमात्सर्यमनसि परापवदनच्छदा ।। ४३
ईर्ष्याकमलिनी चिन्ताषट्पदा विलसत्यलम् ।
प्रतिजन्मप्रमृष्टोग्रदुःखकल्लोलविभ्रमम् ।। ४४
जडमेव समभ्येति पुनर्मरणवाडवः ।
जन्म बाल्यं व्रजत्येतद्यौवनं युवता जराम् ।। ४५
जरा मरणमभ्येति मूढस्यैव पुनःपुनः ।
जगज्जीर्णारघट्टेऽस्मिन्रज्ज्वा संसृतिरूपया ।। ४६
मज्जनोन्मज्जनैरज्ञो यन्त्रे कलशतां गतः ।
यदेव गोष्पदापूरं ज्ञधियः पेलवं जगत् ।। ४७
तदेवापारपर्यन्तमगाधममहात्मनः ।
धियोऽदृश इवाज्ञस्य दीर्घं जठरकोटरात् ।। ४८
न प्रयान्त्यपरं पारं विहङ्ग्यः पञ्जरादिव ।
भावमात्रपरावृत्तवासनाभारनाभयः ।। ४९
स्पष्टीकर्तुं न शक्यन्ते जन्मचक्रस्य नेमयः ।
अज्ञेनेन्द्रियगृध्रार्थं रागान्मृगयुणा तनुः ।। ५०
संसारारण्य आस्तीर्णा दूरादामिषपिण्डवत् ।
भूतशैलमयी दृष्टिर्मृन्मांसलवमात्रिका ।। ५१
मोहात्संलक्ष्यते चित्रपदार्थानन्तरञ्जनः ।
जयत्यनल्पसंकल्पकल्पनाकल्पपादपः ।। ५२
अज्ञानात्प्रसृता यस्माज्जगत्पर्णपरम्पराः ।
यस्मिंस्तिष्ठन्ति राजन्ते विशन्ति विलसन्ति च ।। ५३
विचित्ररचनोपेता भूरिभोगिविहङ्गमाः ।
यत्र जन्मानि पर्णानि कर्मजालं च कोरकम् ।। ५४
फलानि पुण्यपापानि मञ्जर्यो विभवश्रियः ।
अज्ञानेन्दूदये नैता योषिदोषधयः स्फुटम् ।। ५५
संसारवनखण्डेऽस्मिन्परां शोभामुपागताः ।
जन्मजालकलापूर्णस्तमःकालकृतोदयः ।। ५६
शून्योदितात्मा दोषेशो जयत्यज्ञानचन्द्रमाः ।
अज्ञानेन्दोः प्रसादेन वासनामृतशालिना ।। ५७
तर्पिताशाचकोरेण चित्तरत्नरसैषिणा ।
राजहंसविलासिन्यः प्रालेयशिशिराङ्गिकाः ।। ५८
भान्ति कान्ताकुमुद्वत्यो लोललोचनषट्पदाः ।
धम्मिल्लतिमिरोल्लासा लसत्पाण्डुपयोधराः ।। ५९
रामारजन्यो राजन्ते तन्मौर्ख्येण विजृम्भितम् ।। ६०
आपातमात्रमधुरत्वमनर्थसत्त्व-
माद्यन्तवत्त्वमखिलस्थितिभङ्गुरत्वम् ।
अज्ञानशाखिन इति प्रसृतानि राम
नानाकृतीनि विपुलानि फलानि तानि ।। ६१
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषु निर्वाणप्रकरणे पू० मोहमाहात्म्यं नाम षष्ठः सर्गः ।। ६ ।।