योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ००८


अष्टमः सर्गः ८
श्रीवसिष्ठ उवाच ।
संसारवनखण्डेऽस्मिंश्चित्पर्वततटे स्थिता ।
कीदृशी सृष्ट्यविद्याख्या लता विकसिता कदा ।। १
बृहत्पर्वतपर्वाढ्या ब्रह्माण्डत्वक्समावृता ।
देहयष्टिरियं यस्यास्त्रिलोकी लोककासिनी ।। २
सुखं दुःखं भवो भावो ज्ञानमज्ञानमेव च ।
अत्रैतान्युरुवृत्तानि मूलानि च फलानि च ।। ३
सुखादविद्योदेत्युच्चैस्तदेवान्ते प्रयच्छति ।
दुःखादविद्योदेत्युच्चैस्तदेवैषा फलत्यलम् ।। ४
भवादविद्योदेत्येषा तमेव फलति स्फुटम् ।
भावात्सत्तामवाप्नोति तमेव फलति क्षणम् ।। ५
अज्ञानाद्वृद्धिमायाति तदेव स्यात्फलं स्फुटम् ।
ज्ञानेनायाति संवित्तिस्तामेवान्ते प्रयच्छति ।। ६
नानाविधोल्लासवती वासना मोदशालिनी ।
घनप्रवालतरला तनुरस्या विजृम्भते ।। ७
दिवसव्यूहकुसुमा यामिनीलोलषट्पदा ।।
अजस्रं स्पन्दमानैषा प्रपतद्भूतपल्लवा ।। ८
आगत्यागत्य पतति विवेककरिणीं क्वचित् ।
विधूयते धूतरजाः प्रसक्तिं पुनरेति च ।। ९
जायमानप्रवालाढ्या संजाताङ्कुरदन्तुरा ।
सर्वर्तुकुसुमोपेता समग्ररसशालिनी ।। १०
जन्मपर्वाहिनीरन्ध्रा विनाशच्छिद्रचञ्चुरा ।
भोगाभोगरसापूर्णा विचारैकघुणक्षता ।। ११
विकसन्त्यः प्रतिदिनं चन्द्रार्कावलयोऽभितः ।
व्योम्नि वातविलोलानि पुष्पाण्यस्याः किल ग्रहाः ।।१२
अस्याः प्रस्फुरिताकाराः कोरकत्वमुपागताः ।
पूरिताकाशकोशायास्तारका रघुनन्दन ।। १३
चन्द्रार्कदहनालोका यस्यास्तत्कौसुमं रजः ।
अनेनेयं हि गौराङ्गी स्त्रीव चेतांसि कर्षति ।। १४
मनोमातङ्गविधुता संकल्पकलकोकिला ।
इन्द्रियव्यालसंबाधा तृष्णात्वगुपरञ्जिता ।। १५
नीलाकाशतमालाङ्गसंश्रयेणोन्नतिं गता ।
रोदसीजानुसुस्तम्भा भुवनोद्यानभूषिता ।। १६
अधोब्रह्माण्डखण्डेषु स्वालवालेन जालिता ।
विधृताशेषजलधिजलक्षीरादिसेचना ।। १७
त्रयीविलोलभ्रमरा रमणीपुष्पपुञ्जिका ।
चित्स्पन्दवातचलिता क्रियाविपुलपुत्तिका ।। १८
कुकर्माजगरव्याप्ता स्वर्गश्रीपुष्पमण्डपा ।
जीवजीवननीरन्ध्रा नानामोदमदप्रदा ।। १९
नानोपशमवैचित्र्यनानाकुसुमभासिनी ।
नानाफलावलीव्याप्ता नानावर्षविकासिनी ।। २०
नानालवालवलया नानाविहगधारिणी ।
नानापरागपरुषा नानाभूधरजालिका ।। २१
नानाकलाकुड्मलिनी नानावनगणोत्थिता ।
नानागिरितटारूढा नानादलनिरन्तरा ।। २२
जाता च जायमाना च म्रियमाणा तथा मृता ।
अर्धच्छिन्ना तथाऽच्छिन्ना नित्यमच्छेदिनी तथा।।२३
अतीता वर्तमाना च सत्येवासत्यवत्सदा ।
नित्यमत्यन्ततरुणी नित्यं शोषमुपेयुषी ।। २४
महाविषलतैषा हि संसारविषमूर्च्छनाम् ।
ददाति रभसाश्लिष्टा परामृष्टा विनश्यति ।। २५
स्फीतेऽन्तर्गलिता तस्य अज्ञेऽन्तः संस्थितान्विता ।
इतो जलमितः शैला इतो नागाः सुरा इतः ।। २६
इतः पृथ्वीत्वमायाता तथेतो द्युतया स्थिता ।
इतश्चन्द्रार्कतां प्राप्ता तथेतस्तारकाकृतिः ।। २७
इतस्तम इतस्तेज इतः खमित उर्वरा ।
इतः शास्त्रमितो वेदा इतो द्वयविवर्जिता ।। २८
क्वचित्खगतयोड्डीना क्वचिद्देवतयोत्थिता ।
क्वचित्स्थाणुतया रूढा क्वचित्पवनतां गता ।। २९
क्वचिन्नरकसंलीना क्वचित्स्वर्गविलासिनी ।
क्वचित्सुरपदं प्राप्ता क्वचित्कृमितया स्थिता ।। ३०
क्वचिद्विष्णुः क्वचिद्ब्रह्मा क्वचिद्रुद्रः क्वचिद्रविः ।
क्वचिदग्निः क्वचिद्वायुः क्वचिच्चन्द्रः क्वचिद्यमः ।। ३१
यत्किंचनाङ्ग भुवनेषु महामहिम्ना-
व्याप्तं जरत्तृणलवत्वमुपागतं वा ।
दृश्यं स्फुरन्ननु हराद्यपि तामविद्यां
विद्धि क्षयाय तदतीततयात्मलाभः ।। ३२
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० अविद्यालताविलासोपदेशो नामाष्टमः सर्गः ।। ८ ।।