योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०४२
द्विचत्वारिंशः सर्गः ४२
श्रीवसिष्ठ उवाच ।
ततः स जीवो भगवन्दृष्टवान्देहसंभ्रमम् ।
आदिसर्गे नभःसंस्थः कामवस्थामुपैति हि ।। १
ईश्वर उवाच ।
परस्मात्परमे व्योम्नि पूर्वोक्तक्रमतो वपुः ।
जीवः पश्यति संपन्नं स च स्वप्ननरो यथा ।। २
सर्वगत्वाच्चिद्धनस्य कार्यं स्वप्ननरोऽपि हि ।
यथा करोत्याशु तथा जीवोऽद्यापि शरीरधृक् ।। ३
सनातनोऽहमव्यक्तः पुमानित्यभिधां ततः ।
करोत्यात्मनि तेनाशु प्रथमः प्रथितः पुमान् ।। ४
एवं स सर्गे कस्मिंश्चित्प्रथमोऽथ सदाशिवः ।
कस्मिंश्चिद्विष्णुरित्युक्तो नाभ्युत्पन्नः पितामहः ।। ५
पितामहः स कस्मिंश्चित्कस्मिंश्चिदपि चेतरः ।
स च संकल्पपुरुषः संकल्पान्मूर्तिमास्थितः ।। ६
पुष्टः प्रथमसंकल्पस्तां मनोमूर्तिमास्थितः ।
यद्यथा कल्पयत्याशु तत्तथानुभवत्यलम् ।। ७
तत्त्वसद्रूपमखिलं शून्यवेतालको यथा ।
भ्रमदृष्ट्या तु सद्रूपमित्यहंता जगद्गतिः ।। ८
द्रष्टादिपुरुषस्त्वेवं स्वयं संपद्यते हि यः ।
स निमेषं प्रति व्योम समुदेत्यथ नीयते ।। ९
निमेष एव कल्पो यो महाकल्पपरम्पराम् ।
प्रतिभासविपर्यासमात्रेणानुभवत्यलम् ।। १०
परमाणौ परमाणौ व्योम्नि व्योम्नि क्षणे क्षणे ।
सर्गकल्पमहाकल्पभावाभावा भवन्ति ते ।। ११
दृश्यन्ते केचिदन्योन्यं साधर्म्याद्वासनागतेः ।
मिथः केचिन्न दृश्यन्ते दृष्टेनाथ सदात्मना ।। १२
सर्गाः सर्गेण सर्वत्र संभवन्ति न ते शिवे ।
भवन्ति परमे व्योम्नि व्योमरूपा इति स्वयम् ।। १३
स्वयं च सदसद्रूपा लीयन्ते स्वप्नशैलवत् ।
सर्गैर्न देश आक्रान्तो न च कालो न कर्तृता ।। १४
न चैते तत्स्वरूपा वा न कल्प्यं नापि च क्षणः ।
न चेदं जायते किंचिन्न च किंचन नश्यति ।। १५
सर्वं संकल्परूपेण चिच्चमत्कुरुते चिति ।
स्वप्नपत्तननिर्माणपातोत्पातनवज्जगत् ।। १६
न देशकालक्रमणं करोति च मनागपि ।
यथा संकल्पशैलेन देशकालाद्यनन्तकम् ।। १७
आक्रान्तमपि नाक्रान्तं तथैव जगता सता ।
अथ नाक्रान्तमाक्रान्तमिव संकल्पमेरुणा ।। १८
यथोच्चैर्देशकालादि तथैव जगता सता ।
संपद्यते यथा योऽसौ पुरुषः सर्वकारकः ।। १९
अनेनैव क्रमेणेह कटिः संपद्यते क्षणात् ।
तस्थुषामेवमेवेह जातयो हि चतुर्विधाः ।। २०
रुद्राद्यास्तृणपर्यन्ताः संपद्यन्ते क्षणं प्रति ।
परमाणूपमाः सन्ति तथा केचिदणूपमाः ।। २१
एष एव क्रमस्तेषां सति वाऽसति सर्गके ।
अस्याः संसारमायाया एवंभूतार्थभावनात् ।। २२
भेदोपशान्तावभ्यासाद्भवत्युपगतः शिवः ।
निमेषशतभागार्धमात्रमेव परा चितिः ।। २३
स्वरूपतश्चेल्लुठिता सैषोदेत्यनवस्थितिः ।
सा ज्ञरूपा शिलाकाश इव चित्स्वात्मनिस्थिता ।। २४
तदनाद्यवभासात्म ब्रह्मशब्देन गीयते ।
अस्मिन्प्रौढिं गते सर्गे महाचिद्द्योतनं न च ।। २५
संगतासत्यदिग्देशकालांशपरमाणुता ।
जीवतामागता भूततन्मात्रवलनाक्रमात् ।। २६
भवत्यङ्ग मृगीवीरुत्कीटदेवासुरादिकम् ।
यस्मिन्नित्ये ततेऽनन्ते दृढे स्रगिव तिष्ठति ।। २७
सदसद्ग्रथितं विश्वं विश्वगे विश्वकर्मणि ।
न तद्दूरे न निकटे नोर्ध्वे नाधो न तेन मे ।
न पूर्वं नाद्य न प्रातर्न सन्नासन्न मध्यमम् ।। २८
अनुभवकलनामृतेऽस्य माता
भवति न सर्वविकल्पनेष्वसत्सु ।
फलदुरुविभवा प्रमाणमाला
स्थितिमुपयाति न वारिणीव वह्निः ।। २९
यथापृष्टं मुने प्रोक्तं त्वयि कल्याणमस्तु ते ।
दिशं प्रयामोऽभिमतामागच्छोत्तिष्ठ पार्वति ।। ३०
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा नीलकण्ठोऽसौ त्यक्तपुष्पाञ्जलौ मयि ।
ततार परिवारेण सममम्बरकोटरम् ।। ३१
तस्मिन्गते त्रिभुवनाधिपतावुमेशे
स्थित्वा क्षणं तदनु संस्मृतिपूर्वमेव ।
अङ्गीकृतं नवपवित्रधिया मयात्म-
देवार्चनं शमवतैव जिहासितं तत् ।। ३२
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये ० मोक्षोपायेषु निर्वाणप्रकरणे पू० परमात्माभिधानं नाम द्विचत्वारिंशः सर्गः ।। ४२।।