योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०४३


त्रिचत्वारिंशः सर्गः ४३
श्रीवसिष्ठ उवाच ।
एतदुक्तं परं तेन स्वयमेव च वेद्म्यहम् ।
राम त्वमपि जानीषे यथेदं समवस्थितम् ।। १
यत्रालीकमलीकेन किलालीके विलोक्यते ।
तस्यां संसारमायायां किं सत्यं किमसन्मयम् ।। २
यथा येन विकल्पेन यद्विकल्पेन कथ्यते ।
तथा तेनात्मकल्पेन नगताऽप्यनुभूयते ।। ३
यथा द्रवत्वं पयसि यथा स्पन्दो नभस्वति ।
यथा नभसि शून्यत्वं तथा सर्गत्वमात्मनि ।। ४
ततः प्रभृति तेनैव क्रमेणार्चनमात्मनः ।
अद्य यावद्गतव्यग्रः कुर्वन्नहमवस्थितः ।। ५
अनेनार्चाविधानेन मयेमे राम वासराः ।
अखिन्नेनातिवाह्यन्ते व्यवहारपरा अपि ।। ६
यथाप्राप्तैः क्रियाचारकुसुमैरात्मनोऽर्चनम् ।
व्युच्छिन्नमपि व्युच्छिन्नं न कदाचिदहर्निशम् ।। ७
ग्राह्यग्राहकसंबन्धे सामान्ये सर्वदेहिनाम् ।
योगिनः सावधानत्वं यत्तदर्चनमात्मनः ।। ८

दृष्ट्यानया रघुपते सङ्गमुक्तेन चेतसा ।
संसारविरलारण्ये विहरास्मिन्न खिद्यसे ।। ९
दुःखे महति संप्राप्ते धनबन्धुवियोगजे ।
एतां दृष्टिमवष्टभ्य विचारं कुरु सुव्रत ।। १०
सुखदुःखे न कर्तव्ये धनबन्धूदयक्षये ।
एवंप्राया एव सर्वा नित्यं संसारदृष्टयः ।। ११
जानास्येव गतिं चित्रां विषयाणां प्रमाथिनीम् ।
यथायान्ति यथा यान्ति यथा परिभवन्ति च ।। १२
एवमेव प्रवर्तन्ते प्रेमाणि च धनानि च ।
एवमेवावहीयन्ते निमित्तैरविचारितैः ।। १३
न तास्तव न तासां त्वं निर्मलान्तर्जगत्क्रियाः ।
इदमित्थं जगत्किंचित्किं मुधा परितप्यसे ।। १४
त्वमिहासि जगद्रूपं चिन्मात्रवितताकृते ।
निजावयवकावृत्तौ कः क्रमो हर्षशोकयोः ।। १५
तात चिन्मात्ररूपोऽसि न ते भिन्नमिदं जगत् ।
अतस्तव कथं कुत्र हेयोपादेयकल्पना ।। १६
इति चिच्चक्रचाञ्चल्ये चिन्मये जगदम्बुधौ ।
तरङ्गजाले चाम्भोधौ कः क्रमो हर्षशोकयोः ।। १७

चिदेकतानतामेत्य सौषुप्तीमागतः स्थितिम् ।
अद्यप्रभृति राम त्वं तुर्यावस्थात्मको भव ।। १८
समः समसमाभासो भास्वद्वपुरुदारधीः ।
तिष्ठात्मार्चारतो नित्यं परिपूर्णं इवार्णवः ।। १९
एतत्त्वं श्रुतवान्सर्वं स्थितस्त्वं परिपूर्णधीः ।
यदिच्छसीतरत्प्रष्टुं तत्पृच्छ रघुनन्दन ।।
यत्पृष्टं प्रथमे कल्पे तदद्य परिचोदय ।
श्रीराम उवाच ।
इदानीं संशयो ब्रह्मन्विनिवृत्तो विशेषतः ।। २१
ज्ञातं ज्ञातव्यमखिलं जाता तृप्तिरकृत्रिमा ।
न मुनेऽस्ति मलं द्वित्वं न चेत्यं न च कल्पनम् ।।२२
तदा ममाभूदज्ञानं प्रशान्तमधुना तु तत् ।
कलङ्क आत्मनोऽस्तीति तदज्ञानवशेन या ।। २३
भ्रान्तिरासीदिदानीं सा निवृत्ता त्वत्प्रसादतः ।
न जायते न म्रियते न चैवात्मा कलङ्कितः ।। २४
सर्वं च खल्विदं ब्रह्ममयमित्युदितोऽस्म्यलम् ।
प्रश्नेभ्यः संशयेभ्यश्च वाञ्छितेभ्यश्च सर्वतः ।। २५
शुद्धं मे निर्मलं चेतस्त्वष्ट्रा यन्त्रभ्रमादिव ।
सर्वाचारोपदेशेषु प्राप्तप्रोक्तेषु साधुभिः ।। २६
निराकाङ्क्षी स्थितोऽस्म्यन्तः सुमेरुः कनकेष्विव ।
न तदस्त्यस्ति यत्राशा न तदस्ति यदीप्सितम् ।।२७
न तदस्ति यदादेयं हेयं मध्यं चराचरे ।
इदं हेयमुपादेयमिदं सदिदमप्यसत् ।। २८
इति चिन्ताभ्रमः शान्तो निपुणं परमो मुने ।
न स्वर्गमभिवाञ्छामि द्वेष्मि वापि न रौरवम् ।। २९
आत्मन्येव हि तिष्ठामि मन्दराद्रिरिवाभ्रमः ।
कणशः कीर्णत्रिजगत्क्षीरसागरसंसृतिः ।। ३०
विश्रान्तश्चिरसंभ्रान्तो निर्भ्रमो राम मन्दरः ।
अवस्त्विदमिदं वस्तु पश्येति कलनास्त्यलम् ।। ३१
हृदि तस्य कुसंदेहजालेन ज्वलिताधिकम् ।
इदमित्थं जगदिति ज्ञातं येन मुनीश्वर ।। ३२
स यत्र याति कार्पण्यं जगतस्तन्न लभ्यते ।
विचित्राकुलकल्लोलाज्जडाद्वृत्तिविवर्जितात् ।। ३३
त्वत्प्रसादेन भगवंस्तीर्णाः स्मो भवसागरात् ।
संपदामवधिर्ज्ञातो दृष्टः सीमान्त आपदाम् ।। ३४
सर्वसारेऽप्यदीनाः स्मः पूर्णाः स्मः परमेश्वर ।
ययावभेद्यामपरैर्दलिताशामतङ्गजम् ।
संसारसागरे सम्यग्वीरतामागतं मनः ।। ३५
परिगलितविकल्पतामुपेतं
प्रगलितवाञ्छमदीनसारसत्त्वम् ।
त्रिजगति यदतिप्रसन्नरूपं
प्रमुदितमन्तरनुत्तमं मनो मे ।। ३६

इत्यार्षे श्रीवा०रामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० विश्रान्तिवर्णनं नाम त्रिचत्वारिंशः सर्गः ।। ४३ ।।