योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०४४


चतुश्चत्वारिंशः सर्गः ४४
श्रीवसिष्ठ उवाच ।
केवलेनेन्द्रियैः सार्धं वर्तमानार्थवर्तिना ।
असंगमेन मनसा यत्करोषि न तत्कृतम् ।। १
यथा प्राप्तिक्षणे वस्तु प्रथमे तुष्टये तथा ।
न प्राप्त्येकक्षणादूर्ध्वमिति को नानुभूतवान् ।। २
वाञ्छाकाले यथा वस्तु तुष्टये नान्यदा तथा ।
तस्मात्क्षणसुखे सक्तिं बालो बध्नाति नेतरः ।। ५
वाञ्छाकाले तुष्टये यत्तत्र वाञ्छैव कारणम् ।
तुष्टिस्त्वतुष्टिपर्यन्ता तस्माद्वाञ्छां परित्यज ।। ४
यदि तत्पदमाप्तोऽसि कदाचित्कालपर्ययात् ।
तदहंभावनारूपे न मङ्क्तव्यं त्वया पुनः ।। ५
आत्मज्ञानाचलस्याग्रे राम विश्रान्तवानसि ।
अहंभावमहाश्वभ्रे न पुनः पातमर्हसि ।। ६
यत्स्मृतानन्तसद्दृष्टेर्ज्ञत्वमेरुशिरःस्थितेः ।
पुनर्गर्भानुकारान्तःपाताले पतनं कुतः ।। ७
दृश्यते ते स्वभावोऽयं समतासत्यतामयः ।
मन्ये क्षीणविकल्पोऽसि जातोऽसि हतकालिकः ।। ८
स्वभावे संस्थितो राम इत्यावेदयतीव मे ।
सौम्य पूर्णार्णवप्रख्या समता निर्मला तव ।। ९
आशा यातु निराशत्वमभावं यातु भावनम् ।
अमनस्त्वं मनो यातु तवासङ्गेन जीवतः ।। १०
यां यां वस्तुदृशं यासि तस्यां तस्यामवस्थितम् ।
सत्तासामान्यरूपेण ब्रह्म बृंहितचिद्धनम् ।। ११
अज्ञातात्मा निबद्धोऽसि विज्ञातात्मा न बध्यसे ।
राम त्वं स्वात्मनात्मानं बोधयस्व बलादतः ।। १२
यत्र न स्वदते वस्तु स्वदते च यथागतम् ।
अवासनत्वं तद्विद्धि साम्यमाकाशकोमलम् ।। १३
वासनारहितैरन्तरिन्द्रियैराहर क्रियाः ।
न विक्रियामवाप्नोषि खवत्क्षोभशतैरपि ।। १४
ज्ञाता ज्ञानं तथा ज्ञेयं त्रयमेकतयात्मनि ।
शान्तात्मानुभवाऽभव्यं न भूयो भवभागसि ।। १५
चित्तोन्मेषनिमेषाभ्यां संसारप्रलयोदयौ ।
वासनाप्राणसंरोधादनिमेषं मनः कुरु ।। १६
प्राणोन्मेषनिमेषाभ्यां संसृतेः प्रलयोदयौ ।
तमभ्यासप्रयोगाभ्यामुन्मेषरहितं कुरु ।। १७
मौर्ख्योन्मेषनिमेषाभ्यां कर्मणां प्रलयोदयौ ।
तद्विलीनं कुरु बलाद्गुरुशास्त्रार्थसंयमैः ।। १८
यथा वातरजःसङ्गस्पन्दात्खं भाववेदनम् ।
तथा चितश्चेत्यतया स्पन्दादिदमुपस्थितम् ।। १९
दृश्यदर्शनसंबन्धस्पन्देनेयं जगद्गतिः ।
स्फुरत्यालोककुड्यादिसंगजा वर्णधीरिव ।। २०
दृश्यदर्शनसंबन्धस्पन्दाभावे न जायते ।
वेदना भवदाभासा चित्रपुंसामिवाशये ।। २१
चित्तस्पन्दोत्थिता माया तदभावे विलीयते ।
पयःस्पन्दोत्थिता वीचिस्तदभावे विनश्यति ।। २२
त्यागेन वासनांशस्य बोधाद्वा प्राणरोधनात् ।
चित्ते निस्पन्दतां याते कुतः स्पन्दस्य संभवः ।। २३
असंवित्स्पन्दमात्रेण याति चित्तमचित्तताम् ।
प्राणानां वा निरोधेन तदेव च परं पदम् ।। २४
दृश्यदर्शनसंबन्धे यत्सुखं पारमार्थिकम् ।
तदन्तैकान्तसंवित्त्या ब्रह्मदृष्ट्या मनःक्षयः ।। २५
यत्र नाभ्युदितं चित्तं तत्तत्सुखमकृत्रिमम् ।
न स्वर्गादौ संभवति मरौ हिमगृहं यथा ।। २६
चित्तोपशमजं स्फारमवाच्यं वचसा सुखम् ।
क्षयातिशयनिर्मुक्तं नोदेति न च शाम्यति ।। २७
बोधाद्भवति चित्तान्तो दुर्बोधाच्चित्तवेदिता ।
बालवेतालवत्तेन मोहश्रीर्घनतां गता ।। २८
विद्यमानमपि ह्येतच्चित्तं बोधाद्विलीयते ।
सदप्यसदिवाभाति ताम्रं हेमीकृतं यथा ।। २९
ज्ञस्य चित्तं न चित्ताख्यं ज्ञचित्तं सत्त्वमुच्यते ।
नामार्थान्यत्वभाक्चित्तं बोधात्ताम्रसुवर्णवत् ।। ३०
न संभवति चित्तत्वं तेन तत्प्रविलीयते ।
भ्रमः शाम्यति बोधेन नाभावो विद्यते सतः ।। ३१
अवस्त्वेव विकल्पात्म चित्तादि शशश्रृङ्गवत् ।
सर्वं तदात्मनस्तस्मात्तद्धि बोधाद्विलीयते ।। ३२
चित्तं सत्त्वं समायातं किंचित्कालं जगत्स्थितौ ।
विहृत्य तुर्यावस्थायां तुर्यातीतं भवत्यतः ।। ३३
ब्रह्मैव भूरिभवनभ्रमविभ्रमौघै-
रित्थं स्थितं सममनेकतयैकमेव ।
सर्वात्म संभवति नेतरदङ्ग किंचि-
च्चित्तादिकं च न हृदीव हि संनिवेशः ।। ३४
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पूर्वार्धे चित्तसत्तासूचनं नाम चतुश्चत्वारिंशः सर्गः ।। ४४ ।।