योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०४६


षट्चत्वारिंशः सर्गः ४६
श्रीराम उवाच ।
भगवन्सर्वसारज्ञ त्वयैषा बिल्वरूपिणी ।
महाचिद्धनसत्तेह कथितेति मतिर्मम ।। १
चिन्मज्जारूपमखिलमहंतादीदमाततम् ।
न मनागपि भेदोऽस्ति द्वैतैक्यकलनात्मकः ।। २
श्रीवसिष्ठ उवाच ।
यथा ब्रह्माण्डकूश्माण्डमज्जामेर्वादिसंस्थितिः ।
तथा चिद्विल्वमज्जेयं ब्रह्माण्डादिजगत्स्थितिः ।। ३
सृष्टिचिद्विल्वमज्जा स्यात्स्वाधारान्यत्वसंभवे ।
विनाशः सर्वगस्यास्य न चैतत्संभवत्यलम् ।। ४
चितेर्मरीचबीजस्य जगदाख्या चमत्कृतिः ।
स्थिता सौषुप्तसौम्यान्तः शिलान्तःसंनिवेशवत् ।। ५
अत्रेमामिन्दुवदन चित्रां विस्मयकारिणीम् ।
वर्ण्यमानां मया रम्यामन्यामाख्यायिकां श्रृणु ।। ६
स्निग्धा स्पष्टा मृदुस्पर्शा महाविस्तारशालिनी ।
निविडा नित्यमक्षुब्धा क्वचिदस्ति महाशिला ।। ७
तस्यामन्तः प्रफुल्लानि पद्मानि सुबहून्यपि ।
सरस्यामिव रम्याणि तान्यनन्तानि सन्ति वै ।। ८
अन्योन्यप्रोतपत्राणि मिथो विघटितानि च ।
मिथश्चोपनिगूढानि गूढानि प्रकटानि च ।। ९
अधोमुखान्यूर्ध्वमुखान्यपि तिर्यङ्मुखानि च ।
मिथोमिलितमूलानि मिथःप्रोतमुखान्यपि ।। १०
कर्णिकाजालमूलानि मूलान्तःकर्णिकानि च ।
ऊर्ध्वमूलान्यधोमूलान्यमूलानीतराणि च ।। ११
तेषां च निकटे सन्ति शङ्खाः शतसहस्रशः ।
चक्रौघाश्च महाकाराः पद्मवत्संनिवेशिनः ।। १२
श्रीराम उवाच ।
सत्यमेतन्मया दृष्टा तादृशी सा महाशिला ।
शालग्रामे हरेर्धाम्नि विद्यते परिवारिणी ।। १३
श्रीवसिष्ठ उवाच ।
एवमेतद्विजानासि दृष्टवानसि तां शिलाम् ।
यो यश्च तत्र वै प्राणः समस्तादृगनन्तरः ।। १४
मया त्वियमपूर्वैव शिलेह कथिता तव ।
यस्यामन्तर्महाकुक्षौ सर्वमस्ति च नास्ति च ।। १५
चिच्छिलैषा मयोक्ता ते यस्यामन्तर्जगन्ति वै ।
घनत्वैकात्मकत्वादिवशादेषा शिलैव चित् ।। १६
अप्यत्यन्तघनाङ्गायाः सुनीरन्ध्राकृतेरपि ।
विद्यतेऽन्तर्जगद्वृन्दं व्योम्नीव विपुलानिलः ।। १७
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
सन्ति तस्यां शिलायां च सुषिरं न मनागपि ।। १८
अस्यामेव घनाङ्गात्म जगत्पद्मं विजृम्भते ।
एतस्माद्वस्तुतो नान्यदन्यच्छुद्धात्मकं च वा ।। १९
शङ्खपद्मादिकं लोकं पाषाणे लिख्यते यथा ।
भूतं भवद्भविष्यच्च शिलायां शालभञ्जिका ।। २०
तथास्ति तत्र तत्सर्वं संस्थानं वस्तुतो यथा ।
उपलान्तः संनिवेशो नानात्माप्येकपिण्डताम् ।। २१
यथादत्ते तथैषा चित्पिण्डाकारैकिकां घनाम् ।
यथा पद्मः शिलाकोशादभिन्नस्तद्वपुर्मयः ।। २२
तथा सर्गश्चितो रूपादभिन्नोऽपि वपुर्मयः ।
सुषुप्तावस्थया चक्रपद्मलेखाः शिलोदरे ।। २३
यथा स्थिताश्चितेरन्तस्तथेयं जगदावली ।
शिलान्तः पद्मलेखाली मरिचान्तश्चमत्कृतिः ।। २४
नोदेति नास्तमायाति यथा सर्गस्तथा चितौ ।
यथा पुरन्ध्र्यां मर्त्योऽन्तर्मज्जा वा बिल्वगा यथा ।।२५
तथाऽनन्तविकाराढ्या चितौ ब्रह्माण्डमण्डली ।
विकारादि तदेवेति मुधैवोक्तिरनर्थिका ।। २६
तत्तां समुपयात्याशु जलबिन्दुरिवाम्भसि ।।
अनन्तत्वाच्चितेरेतद्विकारादि चितेरिति ।। २७
उक्त्या संपद्यते यच्च तल्लयेन विलीयते ।
ब्रह्मैवेदं विकारादि विकाराद्यर्थवर्जितम् ।। २८
वर्जनावर्जनेऽर्थस्य ब्रह्मैवानन्ततावशात् ।
ब्रह्म स्थितं विकारादि ब्रह्मैवोत्पादितं क्रमात् ।। २९
अत्रान्यार्थमिदं विद्धि मृगतृष्णाम्भसा समम् ।
बीजं पुष्पफलान्तस्थं बीजान्तर्नान्यदात्मकम् ।। ३०
यादृशी बीजसत्ता सा भवन्ती यात्यथोत्तरम् ।
चिद्धने चिद्धनत्वं यत्स एव त्रिजगत्क्रमः ।। ३१
एकत्वमेतयोर्द्वित्वमेकाभावे द्वयोः क्षतिः ।
जगदन्यभवोद्भूतिर्न कदाचित्तदीदृशम् ।। ३२
चिदचिन्न कदाचिच्च द्वयमन्तर्मिथोऽद्वयम् ।
महाशिलान्तरे भेदो लेखात्मास्ति यथा बहुः ।
तदन्यानन्यमज्जादि चिद्धने त्रिजगत्तथा ।। ३३
रेखोपरेखावलिता यथैका पीवरी शिला ।
तथा त्रैलोक्यवलितं ब्रह्मैकमिति दृश्यते ।। ३४
एतच्छिलान्तरब्जादि यथा नित्यं सुषुप्तकम् ।
नास्तमेति न चोदेति तथाऽहंता जगद्गतिः ।। ३५
यथा शिलान्तर्लेखादि भिद्यते न शिलान्तरात् ।
तत्सारत्वाज्जगत्कर्तृ कर्तृत्वादिजगच्चितिः ।। ३६
यथा शिलान्तरब्जानां स्पन्दास्पन्दभवाभवाः ।
विषयत्वं न गच्छन्ति कर्तारो जगतस्तथा ।। ३७
नेदं कदाचित्क्रियते न कदाचन नश्यति ।
अद्रिवत्प्रभवोल्लासविलासावेदनात्मकम् ।। ३८
यथा यत्र यदाकारं तथा तत्र तदेव हि ।
ब्रह्मसत्तात्मकं सर्वं सुषुप्तस्थमिव स्थितम् ।। ३९
भूरिभावविकाराढ्यो योऽयं जगदुरुभ्रमः ।
सुषुप्तमेव तद्विद्धि शिलान्तः पङ्कजादिवत् ।। ४०
नित्यं सुषुप्तपदमेव जगद्विलासः
सम्यक्प्रशान्तसमचिद्धनखात्मकत्वात् ।
पद्माः शिलान्तरिव सर्गदशास्त्वसारा
दृष्टा न देहमुपयान्ति कदाचिदेव ।। ४१
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० शिलाकोशोपदेशो नाम षट्चत्वारिंशः सर्गः ।।४६।।