योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०४७
सप्तचत्वारिंशः सर्गः ४७
श्रीवसिष्ठ उवाच ।
चित्तत्त्वस्य फलस्येव चितः स्वापापरक्रमात् ।
स्वसत्तासंनिवेशेन यः स सर्ग इति स्थितः ।। १
देशकालक्रियादीनामपि तन्मयरूपतः ।
इदमन्यदिदं चान्यदिति नात्रोपपद्यते ।। २
समस्तशब्दशब्दार्थवासनाकलनाविदः ।
एकात्मत्वादसच्चेदमिति संकथ्यते कथम् ।। ३
फलस्यान्तःसंनिवेशो नामानुक्रमतो यथा ।
चितः स्वसत्ताघनताऽनाना नाना स्थिता तथा ।। ४
अनानैवापि नानैव क्षुब्धेवाक्षुभितैव च ।
यथा फलान्तः स्वासत्ता चिदन्तः सिद्धयस्तथा ।। ५
जगन्नगरमादर्शे चितः स्वं प्रतिबिम्बितम् ।
कचतीवाऽकचदपि शिलान्तःसंनिवेशवत् ।। ६
परमे चिन्मणौ सन्ति जगत्कोटिशतान्यपि ।
चिन्तामणावनन्तानि फलानीवार्पितान्यलम् ।। ७
चित्समुद्गक एवेदं तदङ्गोत्कीर्णमाततम् ।
जगन्मौक्तिकमाभाति तदंशमयमन्यवत् ।। ८
अहोरात्रं विकरयन्वेदनावेदनान्यलम् ।
चिदादित्यः स्थितो भास्वाञ्जगद्द्रव्याणि दर्शयन् ।। ९
समुद्रकोटरावर्तपयःस्पन्दविलासवत् ।
अनानैव च नाना चिच्छिलान्तःसंनिवेशवत् ।। १०
यदस्ति तच्चिति शिलाशरीरे शालभञ्जिका ।
यन्नास्ति तच्चिति शिलाशरीरे शालभञ्जिका ।। ११
भावाभावेषु यत्सत्यं चिन्मज्जाकल्पमेव तत् ।
मज्जासारा पदार्थश्रीस्तन्मयं स्यात्तदेव हि ।। १२
पद्मनानादिशब्दार्थस्त्यक्त्वा यद्वच्छिलोदरम् ।
नाना तद्वदिदं नाना तदेतन्मयमद्वयम् ।। १३
नानाप्येकतयाऽनाना पद्मबिम्बं शिलोदरम् ।
यथा तदविभागात्म तथेदं चिद्धनान्तरम् ।। १४
यथाऽमलपयःकोशः स्थलधियां तु भानुभाः ।
सन्नेवासन्निवैवं चिन्नैव त्वं सदसद्वपुः ।। १५
यथा सम्यक् पयोराशिः कोटरे कलनोन्मुखम् ।
द्रवत्वात्स्पन्दतेऽस्पन्दं तथेदं चिद्धनान्तरम् ।। १६
चिच्छिलाशङ्खपद्मौघस्तन्मयत्वेऽप्यतन्मयः ।
जगद्विद्धि सपद्मादिपदार्थं चिच्छिलान्तरम् ।। १७
महाशिलाघनोऽप्येष चिद्धनस्थं शिलोदरम् ।
अरन्ध्रोनिर्द्वयोऽच्छोऽजः संशान्तःसंनिवेशवत् ।। १८
तपतीदं जगद्ब्रह्म शरत्काल इवामलम् ।
स्फुरतीदं जगद्ब्रह्म सौम्यः सोम इव द्रुतः ।। १९
ब्रह्मणीदं सुषुप्ताभं नास्त्यनाशं शिलाब्जवत् ।
ब्रह्मत्वं ब्रह्मणि यथा तथैवेदं जगत्स्थितम् ।। २०
नानयोर्विद्यते मेदस्तरुपादपयोरिव ।
यानीमानि जगन्तीह नान्यत्तानि चिदाकृतेः ।। २१
भावाभावादि नास्त्येषां तस्या इव कदाचन ।
ब्रह्मैव जगदाभासं मरुतापो यथा जलम् ।। २२
ब्रह्मैवालोकनाच्छुद्धं भवत्यम्बु यथातपः ।
मेर्वादेस्तृणगुल्मादेश्चित्तादेर्जगतोऽपि च ।। २३
परमाम्बुविभागेन यद्रूपं तत्परं विदुः ।
तत्समूहस्तदेवोच्चैश्चित्तं मेरुतृणादिकम् ।। २४
यत्सौक्ष्म्येऽपि हि सारात्म स्थौल्ये सारतरं हि तत् ।
यथा रसात्मिका शक्तिः परमाणुतयाऽनघ ।। २५
स्थिता जगत्पदार्थेषु पायसी ब्रह्मता तथा ।
रसशक्तिर्यथा नानातृणगुल्मलताम्भसाम् ।। २६
तथा नानातयोदेति सैवासैवेव ब्रह्मता ।
यैषा रूपविलासानामालोकपरमाणुता ।। २७
गुणगुण्यर्थसत्तात्मरूपिण्यासां परात्मता ।
चिति चित्तेऽस्ति मेर्वादि तदभिव्यञ्जनात्मनि ।। २८
पिच्छपक्षौघकाठिन्यं मयूराण्डरसे यथा ।
चिति तत्त्वेऽस्ति नानाता तदभिव्यञ्जनात्मनि ।। २९
विचित्रपिच्छिकापुञ्जो मयूराण्डरसे यथा ।
यथा नानात्मिके ह्येव बर्ह्यण्डरसबर्हिते ।। ३०
विवेकदृष्ट्या दृष्टे ते तथा ब्रह्म जगत्स्थितम् ।
सनानातोऽप्यनानातो यथाऽण्डरसबर्हिणः ।। ३१
अद्वैतद्वैतसत्तात्मा तथा ब्रह्मजगद्भ्रमः ।
यथा सदसतोः सत्ता समतायामवस्थितिः ।। ३२
यतः सदसतो रूपं भावस्थं विद्धि तं परम् ।
नानाऽनानात्मकमिदं त्वनुभूतं नसंभवम् ।। ३३
चिज्जगद्वलनं पश्य बर्ह्यण्डे रसबर्हिणम् ।
यथा जगति चित्तत्त्वं चित्तत्त्वे यज्जगत्तथा ।
नानाऽनानात्मकैकं च मयूराण्डरसो यथा ।। ३४
नानापदार्थभ्रमपिच्छपूर्णा
जगन्मयूराण्डरसश्चिदाद्या ।
मयूररूपं त्वमयूरमन्तः
सत्तापदं विद्धि कुतोऽस्ति भेदः ।। ३५
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षो० निर्वाणप्रकरणे पूर्वार्धे चिद्धनोपदेशो नाम सप्तचत्वारिंशः सर्गः ।। ४७ ।।