योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०४८
अष्टचत्वारिंशः सर्गः ४८
श्रीवसिष्ठ उवाच ।
यत्रानुदितरूपात्म सर्वमस्तीदमाततम् ।
मयूर इव बीजेऽन्तस्तदहंतादिगादि च ।। १
यत्र नाभ्युदितं किंचित्तत्र सर्वं च विद्यते ।
तदत्राप्यङ्गिराः स्वर्गसुखसारेण बिम्बति ।। २
तथा च मुनयो देवा गणाः सिद्धा महर्षयः ।
आस्वादयन्तः स्वं रूपं सदा तुर्यपदे स्थिताः ।। ३
एते ये स्तब्धनयनदृष्टयो निर्निमेषिणः ।
ते दृश्यदर्शनासङ्गस्पन्दत्यागे व्यवस्थिताः ।। ४
नास्थिता भावना येषां स्थितानामपि कर्मसु ।
संवित्संवेद्यसंबन्धस्पन्दत्यागे च ये स्थिताः ।। ५
प्राणो न स्पन्दते येषां चित्रस्थवपुषामिव ।
मनो न स्पन्दते येषां चित्रस्थवपुषामिव ।। ६
चित्तचेत्यसमासङ्गत्यागे ते स्वपदे स्थिताः ।
स्पन्दात्संसाधयन्त्यर्थं तेनांशेनेश्वरो यथा ।। ७
तथैव चित्तचेत्यादिस्पन्दात्कुर्वन्ति संस्थितिम् ।
यथा ह्लादयति स्वच्छः पल्लवं रश्मिरैन्दवः ।। ८
तथात्मा ह्लादयत्यन्तर्दृश्यदर्शनसंगमे ।
बिम्बाद्दूरं प्रयातस्य भित्तावपतितस्य च ।। ९
यदिन्दोस्तेजसो रूपं तद्रूपं शुद्धसंविदः ।
न दृश्यं नोपदेशार्हं नात्यासन्नं न दूरगम् ।। १०
केवलानुभवप्राप्यं चिद्रूपं शुद्धमात्मनः ।
न देहो नेन्द्रियप्राणौ न चित्तं न च वासना ।। ११
न जीवो नापि च स्पन्दो न संवित्तिर्न वै जगत् ।
न सन्नासन्न मध्यं च शून्याशून्यं न चैव हि ।। १२
न देशकालवस्त्वादि तदेवास्ति न चेतरत् ।
एतैः सर्वैर्विनिर्मुक्तं हृदि कोशशतेन च ।। १३
यत्रैतत्स्पन्दते दृश्यं तत्तदात्मपदं भवेत् ।
यच्च नाद्यं न कल्पान्तं न वस्त्वाद्यनिलादिभिः ।। १४
इह चामुत्र सद्रूपादन्यथा भवति क्वचित् ।
जायन्ते च म्रियन्ते च देहकुम्भाः सहस्रशः ।। १५
सबाह्याभ्यन्तरस्यास्य नात्माकाशस्य खण्डना ।
तच्च देहादि सकलमात्मैवात्मविदां वर ।। १६
केवलं बोधवैरूप्यादीषत्पृथगिव स्थितम् ।
विष्वगात्ममयं विश्वं ज्ञातं बुद्ध्या सुसिद्धया ।। १७
प्रज्वलन्नपि कार्येषु निर्वाणो निर्ममो भव ।
यदिदं दृश्यते किंचिज्जगत्स्थावरजंगमम् ।। १८
तत्सर्वं ब्रह्म निर्धर्म निर्गुणं निर्मलात्मकम् ।
निर्विकारमनाद्यन्तं नित्यं शान्तं समात्मकम् ।। १९
कालक्रियाकरणकर्तृनिदानकार्य-
जन्मस्थितिप्रलयसंस्मरणादि सर्वम् ।
ब्रह्मेति दृष्टवत एव तवात्मदृष्ट्या
भूयोऽपि किं भ्रमणमङ्ग समङ्ग एव ।। २०
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षो० निर्वाणप्रकरणे पूर्वा० ब्रह्मैकात्मप्रतिपादनं नामाष्टचत्वारिंशः सर्गः ।।४ ।।