योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०४९


एकोनपञ्चाशः सर्गः ४९
श्रीराम उवाच ।
यदि नास्ति विकारादि ब्रह्मन्ब्रह्मणि बृंहिते ।
तदिदं कथमाभाति भावाभावमयं जगत् ।। १
श्रीवसिष्ठ उवाच ।
अपुनःप्रागवस्थानं यत्स्वरूपविपर्ययः ।
त्तद्विकारादिकं तात यत्क्षीरादिषु वर्तते ।। २
पयस्तां पुनरभ्येति दधित्वान्न पुनः पयः ।
बुद्धमाद्यन्तमध्येषु ब्रह्म ब्रह्मैव निर्मलम् ।। ३
क्षीरादेरिव तेनास्ति ब्रह्मणो न विकारिता ।
अनाद्यन्तविभागस्य न चैषोऽवयविक्रमः ।। ४
समस्याद्यन्तयोर्येयं दृश्यते विकृतिः क्षणात् ।
संविदः संभ्रमं विद्धि नाविकारेऽस्ति विक्रिया ।। ५
न संवेद्यं न संवित्तिस्तत्र ब्रह्मणि विद्यते ।
तद्ब्रह्मशब्दकथितं निःसंबन्धचिदात्मवत् ।। ६
यादृगाद्यन्तयोर्वस्तु तादृगेव तदुच्यते ।
मध्ये यस्य यदन्यत्वं तदबोधाद्विजृम्भितम् ।। ७
आत्मा त्वाद्यन्तमध्येषु समः सर्वत्र सर्वदा ।
स्वमप्यन्यत्वमायाति नात्मतत्त्वं कदाचन ।। ८
अरूपत्वात्तथैकत्वान्नित्यत्वादयमीश्वरः ।
वशं भावविकाराणां न कदाचन गच्छति ।। ९
श्रीराम उवाच ।
विद्यमाने सदैकस्मिन्ब्रह्मण्येकान्तनिर्मले ।
संविद्भ्रमस्वरूपाया अविद्यायाः क आगमः ।। १०
श्रीवसिष्ठ उवाच ।
ब्रह्मतत्त्वमिदं सर्वमासीदस्ति भविष्यति ।
निर्विकारमनाद्यन्तं नाविद्यास्तीति निश्चयः ।। ११
यस्तु ब्रह्मेति शब्देन वाच्यवाचकयोः क्रमः ।
तत्रापि नान्यताभावमुपदेष्टुं क्रमो ह्यसौ ।। १२
त्वमहं जगदाशाश्च द्यौर्भूश्चाप्यनलादि वा ।
ब्रह्ममात्रमनाद्यन्तं नाविद्यास्ति मनागपि ।। १३
नामैवेदमविद्येति भ्रममात्रमसद्विदुः ।
न विद्यते या सा सत्या कीदृग्राम भवेत्किल ।। १४
श्रीराम उवाच ।
उपशमप्रकरणे ह्यस्तने तु त्वयेरितम् ।
अविद्येयं तथेत्थं च विचार्यत इति प्रभो ।। १५
श्रीवसिष्ठ उवाच ।
एतावन्तमबुद्धस्त्वमभूः कालं रघूद्वह ।
कल्पिताभिः किलैताभिर्बोधितोसि स्वयुक्तिभिः ।। १६
अविद्येयमयं जीव इत्यादिकलनाक्रमः ।
अप्रबुद्धप्रबोधाय कल्पितो वाग्विदां वरैः ।। १७
अप्रबुद्धं मनो यावत्तावदेव भ्रमं विना ।
न प्रबोधमुपायाति तदाक्रोशशतैरपि ।। १८
युक्त्यैव बोधयित्वैष जीव आत्मनि योज्यते ।
यद्युक्त्यासाद्यते कार्यं न तद्यत्नशतैरपि ।। १९
सर्वं ब्रह्मेति यो ब्रूयादप्रबुद्धस्य दुर्मतेः ।
स करोति सुहृद्वृत्त्या स्थाणोर्दुःखनिवेदनम् ।। २०
युक्त्या प्रबोध्यते मूढः प्राज्ञस्तत्त्वेन बोध्यते ।
मूढः प्राज्ञत्वमायाति न युक्त्या बोधनं विना ।। २१
एतावन्तमबुद्धस्त्वं कालं युक्त्या प्रबोधितः ।
इदानीं संप्रबुद्धस्त्वं मया येनावबोध्यसे ।। २२
ब्रह्माहं त्रिजगद्ब्रह्म त्वं ब्रह्म खलु दृश्यभूः ।
द्वितीया कलना नास्ति यथेच्छसि तथा कुरु ।। २३
असंवेद्यमहासंवित्कोटिमात्रं जगत्त्रयम् ।
एकप्रत्ययवानन्तः कुर्वन्नपि न लिप्यसे ।। २४
भारूपश्चेतनो व्यापी परमात्माहमित्ययम् ।
राघवानुभवान्तस्त्वं तिष्ठन्गच्छञ्छ्वसन्स्वपन् ।। २५
निर्ममो निरहंकारो बुद्धिमानसि साधु चेत् ।
तद्ब्रह्म वेदनं शान्तं सर्वभूतस्थितं भव ।। २६
तदनाद्यन्तमाभासं सत्त्वमेव परं पदम् ।
स्थितोऽसि सर्वगैकात्मशुद्धसंविन्मयात्मकः ।। २७
यद्ब्रह्मात्मापि तुर्यश्च याऽविद्या प्रकृतिश्च या ।
तदभिन्नसदैकात्म यथा कुम्भशतेषु मृत् ।। २८
नात्मनः प्रकृतिर्भिन्ना घटान्मृन्मयता यथा ।
सन्मृन्मात्रं यथा चान्तरात्मैवं प्रकृतिः स्थिता ।। २९
आवर्तः सलिलस्येव यः स्पन्दस्त्वयमात्मनः ।
प्रोक्तः प्रकृतिशब्देन तेनैवेह स एव हि ।। ३०
यथैकः स्पन्दपवनौ नाम्ना भिन्नौ न सत्तया ।
तथैकमात्मप्रकृती नाम्रा भिन्ने न सत्तया ।। ३१
अबोधादेतयोर्भेदो बोधेनैव विलीयते ।
अबोधात्सन्मयो याति रज्ज्वां सर्पभ्रमो यथा ।। ३२
चित्क्षेत्रे कलनाबीजं यदेतत्पतति स्फुरन् ।
चित्ताङ्कुरं तदेतस्माद्भाविसंसारखण्डकः ।। ३३
एतदेवात्मविज्ञानाद्दग्धं सद्वासनाजलैः ।
संसिक्तमपि यत्नेन न भवत्यङ्कुरक्षमम् ।। ३४
नो चेत्पतति चित्क्षेत्रे कलनाबीजकं ततः ।
चित्ताङ्कुरा न जायन्ते सुखदुःखलवद्रुमाः ।। ३५
द्वित्वं जगत्यसदुपात्तमबोधजातं
बोधक्षयं जहिहि बोधमुपागतोऽसि ।
आत्मैकभावविभवेन भवाभयात्मा
नास्त्येव दुःखमिति नः परमार्थसारः ।। ३६
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे पूर्वा० संसृतिविचारयोगो नामैकोनपञ्चाशः सर्गः ।।४९।।