योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०५०


पञ्चाशः सर्गः ५०
श्रीराम उवाच ।
ज्ञातं ज्ञातव्यमखिलं दृष्टं द्रष्टव्यमक्षतम् ।
परेण परिपूर्णाः स्मो ब्रह्मज्ञानामृतेन ते ।। १
पूर्णात्पूर्णमिदं पूर्णं पूर्णात्पूर्णं प्रसूयते ।
पूर्णेनापूरितं पूर्णं स्थिता पूर्णे च पूर्णता ।। २

लीलयेदं तु पृच्छामि भूयोबोधाभिवृद्धये ।
बालस्येव पिता ब्रह्मन्न कोपं कर्तुमर्हसि ।। ३
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
विद्यमानमपि ब्रह्मन्दृश्यमानमपि स्फुटम् ।। ४
कथं मृतस्य वै जन्तोर्विषयं स्वं न पश्यति ।
जीवतश्च कथं सर्वं विषयं स्वं प्रपश्यति ।।
कथं घटादिबाह्यत्वमिन्द्रियाणि जडान्यपि ।
शरीरेऽनुभवन्त्यन्तःपुनर्नानुभवन्त्यपि ।। ६
अयःशलाकोपमयोर्घटादीन्द्रिययोः किल ।
अश्लिष्टयोरन्तरसौ कथं तन्नोदिता मिथः ।। ७
जानन्नपि यदेतान्वै विशेषाञ्छतधा पुनः ।
पृच्छामि तदशेषेण कथयस्वानुकम्पया ।। ८
श्रीवसिष्ठ उवाच ।
इन्द्रियाद्यपि चित्तादि घटाद्यपि न किंचन ।
पृथक् संभवतीहाङ्ग निर्मलाच्चेतनादृते ।। ९
गगनादपि याऽच्छा चित्तया रूपं स्वमात्मना ।
चित्त्वात्पुर्यष्टकत्वेन भाववृत्त्यैव भावितम् ।। १०
तदेव च प्रकृतितां गतं जगदवस्थितेः ।
तस्या अवयवाज्जातमिन्द्रियादि घटादि च ।। ११
पुर्यष्टकत्वमायातं यच्चित्तं स्वस्वभावतः ।
स्व एवावयवस्तस्मिन्घटादि प्रतिबिम्बति ।। १२
श्रीराम उवाच ।
जगत्सहस्रनिर्माणमहिम्नो दर्पणस्य च ।
पुर्यष्टकस्य भगवन्रूपं कथय कीदृशम् ।। १३
श्रीवसिष्ठ उवाच ।
अनाद्यन्तं जगद्बीजं यद्ब्रह्मास्ति निरामयम् ।
भारूपं शुद्धचिन्मात्रं कलाकलनवर्जितम् ।। १४
कलनोन्मुखतां यातमन्तर्जीव इति स्मृतः ।
स जीवः खलु देहेऽस्मिंश्चिनोति स्पन्दते स्फुटम् ।। १५
अहंभावादहंकारो मननान्मन उच्यते ।
बोधनिश्चयतो बुद्धिरिन्द्रदृष्टेस्तथेन्द्रियम् ।। १६
देहभावनया देहो घटभावनया घटः ।
एष एव स्वभावात्मा जनैः पुर्यष्टकं स्मृतः ।। १७
ज्ञत्वकर्तृत्वभोक्तृत्वसाक्षित्वाद्यभिपातिनी ।
या संविज्जीव इत्युक्ता तद्धि पुर्यष्टकं विदुः ।। १८
काले काले ततो जीवस्त्वन्योन्यो भवति स्वतः ।
भाविताकारयानन्तवासनाकणिकोदयम् ।। १९
पुर्यष्टकस्वभावेन कालेनाकारमृच्छति ।
यथावासनतः सेकाद्बीजं पल्लवतामिव ।। २०
आकारोऽहं शरीरादि स्थावरादि चरादि च ।
नाहमाद्यश्चिदात्मेति मिथ्या ज्ञानेन चेतति ।। २१
भ्रमत्येव जगज्जीवो वासनावलितश्चिरम् ।
ऊर्ध्वाधोगमनैरब्धौ काष्ठं वीचिहतं यथा ।। २२
कश्चिद्विशुद्धजातित्वाद्भवबन्धादनन्तरम् ।
बुद्ध्वात्मानं समभ्येति पदमाद्यन्तवर्जितम् ।। २३
कश्चित्कालेन बहुना भुक्तयोनिगणातुरः ।
आत्मज्ञानवशादेति परमं पदमात्मनः ।। २४
एवंरूपश्च सुमते जीवो यातः शरीरताम् ।
नेत्रादिना घटाद्यन्तर्यथा वेत्ति तथा श्रृणु ।। २५
चित्त्वस्य कलनान्तस्य संप्रयातस्य जीवताम् ।
मनःषष्ठेन्द्रियग्रामो देहोऽयमवतिष्ठते ।। २६
यदान्यः सर्वदेहेभ्यः खे पतत्यक्षरूपिणा ।
तदा तज्जीवसंस्पर्शाज्जीवात्मैकत्वमृच्छति ।। २७
बाह्यार्थवेदने नित्यं संबन्धोऽक्षस्य कारकः ।
समन्वितस्य चित्तेन न मुक्तस्य कदाचन ।। २८
यद्यदच्छतरं तस्मिन्नभःस्थं प्रतिबिम्बति ।
जीवेन भवति श्लिष्टो बहिर्जीवोऽप्यजीवति ।। २९
निघृष्टनवरत्नाभे यदा नयनतारके ।
तदा तयोर्बाह्यगतः पदार्थः प्रतिबिम्बति ।। ३०
जीवेन भवति श्लिष्टः प्रतिबिम्बतया ततः ।
जीवज्ञेयत्वमायाति बाह्यं वस्त्विति राघव ।। ३१
यत्संश्लेषमुपायाति तद्बालोऽपि हि विन्दति ।
पशुर्वा स्थावरो वापि जीवः कस्मान्न वेत्स्यति ।। ३२
अच्छस्य नयनस्याथो रश्मयो जीववेष्टिताः ।
क्रोडीकुर्वन्त्यलं दृश्यं जीवस्तत्त्वेन विन्दति ।। ३३
एष एव क्रमः स्पर्शे संबन्धः प्रत्ययोद्भवः ।
रसे गन्धे च कथितो जीवसंस्पर्शसंभवः ।। ३४
शब्दस्त्वाकाशनिष्ठत्वात्कर्णाकाशगतः क्षणात् ।
जीवाकाशं विशत्यन्तरित्थमिन्द्रियसंविदः ।। ३५
श्रीराम उवाच ।
दृश्यते मानसादर्शे यन्त्रदार्वौदरेषु तत् ।
प्रतिबिम्बितमेतन्मे ब्रूहि ब्रह्मन्किमात्मकम् ।। ३६
श्रीवसिष्ठ उवाच ।
अत्यन्तजडयोरेव जीवयोरिव तन्मिथः ।
प्रतिबिम्बं दृशो भ्रान्ति विद्धि वेद्यविदां वर ।। ३७
तावन्मात्रं जगत्त्वेतद्विश्वासो मा तवास्त्विह ।
अहमित्यादिस्तरङ्गो वर्तमानं सदा जलम् ।। ३८
पराम्भोधौ तु नास्त्येव देशकालक्रियादिकम् ।
तन्मयैकतया नित्यमात्मा सर्वत्र सर्वगः ।। ३९
नित्यमसक्तमतिर्मुदितात्मा
शान्तमृषासुखदुःखविदन्तः ।
तिष्ठ निविष्टमतिः समताया-
मस्तसमस्तभवामयमायः ।। ४०
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे पूर्वा० अक्षसंवेदनविचारयोगोपदेशो नाम पञ्चाशः सर्गः ।। ५० ।।