योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०५७
सप्तपञ्चाशः सर्गः ५७
श्रीभगवानुवाच ।
इदं विद्धि महाश्चर्यमर्जुनेह हि यत्किल ।
पूर्वं संजायते चित्रं पश्चाद्भित्तिरुदेति हि ।। १
अभित्तावुत्थिते चित्रे दृश्यते भित्तिरातता ।
अहो विचित्रा मायेयं मग्नं तुम्बं शिला प्लुता ।। २
चित्तस्थचित्रसदृशे व्योमात्मनि जगत्त्रये ।
व्योमात्मनस्ते किमियमहन्ताव्योमतोदिता ।। ३
सर्वं व्योमकृतं व्योम्ना व्योम्नि व्योम विलीयते ।
भुज्यते व्योमनि व्योम व्योम व्योमनि चाततम् ।। ४
वेष्टितं वासनारज्ज्वा दीर्घसंसृति दामवत् ।
वासनोद्वेष्टनेनैव तदिहोद्वेष्ट्यतेऽर्जुन ।। ५
प्रतिबिम्बं यथादर्शे तथेदं ब्रह्मणि स्वयम् ।
अगम्यं छेदभेदादेराधारानन्यतावशात् ।। ६
अनन्यच्छेदभेदादि ब्रह्मणि ब्रह्मणाम्बरम् ।
किं कथं कस्य केनैव च्छिद्यते वा क्व भिद्यते ।। ७
तेनेह वासनाभावो बोधात्संपन्न एव ते ।
यो न निर्वासनो नूनं सर्वधर्मपरोऽपि सन् ।। ८
सर्वज्ञोऽप्यतिबद्धात्मा पञ्जरस्थो यथा हरिः ।
यस्यास्ति वासनाबीजमत्यल्पं चितिभूमिगम् ।। ९
बृहत्संजायते तस्य पुनः संसृतिकाननम् ।
अभ्यासाद्धृदि रूढेन सत्यसंबोधवह्निना ।
निर्दग्धं वासनाबीजं न भूयः परिरोहति ।। १०
दग्धं तु वासनाबीजं न निमज्जति वस्तुषु ।
सुखदुःखादिषु स्वच्छं पद्मपत्रमिवाम्भसि ।। ११
शान्तात्मा विगतभयोज्झितामिताशो
निर्वाणो गलितमहामनोविमोहः ।
सम्यक्त्वं श्रुतमवगम्य पावनं त-
त्तिष्ठात्मन्यपहतिरेकशान्तिरूपः ।। १२
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे पू० अर्जुनोपाख्याने अर्जुनविश्रान्तिवर्णनं नाम सप्तपञ्चाशः सर्गः ।।५७।।