योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०६१
एकषष्टितमः सर्गः ६१
श्रीराम उवाच ।
यथास्माकं मुने स्वप्नपुरपत्तनमण्डलम् ।
तथैव पद्मजादीनां यदि देहपरिग्रहः ।। १
तथैवेदं च संजातं यदि सर्वमसन्मयम् ।
तदस्माकं दृढतरः प्रत्ययः कथमुत्थितः ।। २
श्रीवसिष्ठ उवाच ।
अस्मत्सर्गवदाभाति पूर्वसर्गः प्रजापतेः ।
आजीवप्रतिभासात्मा विद्यते न तु वास्तवः ।। ३
सर्वगत्वाच्चितेः सर्वं जीवः सर्वत्र संसृतिः ।
सा चासम्यग्दर्शनोत्था सम्यग्दर्शननाशिनी ।। ४
स्वप्नाभः प्रतिभासोऽस्य य एष समुपस्थितः ।
अहंताप्रत्ययैकात्मा स एवातिदृढं स्थितः ।। ५
स्वप्ने क्षिप्रविनाशित्वं यथा पुंसा न दृश्यते ।
सर्वस्वप्ने तथैवैतद्ब्रह्मणामिह लक्ष्यते ।। ६
स्वप्नोऽयं पुरुषस्यास्य प्रतिभासस्य यो भवेत् ।
रामाऽस्मदादिसर्वात्मा भवेत्तादृश एव च ।। ७
यत्स्वप्नपुरुषाज्जातं तत्स्वप्नपुरुषात्मकम् ।
भवतीत्यनुभूतं हि यद्बीजं तत्फलं यथा ।। ८
असत्यमेव तद्विद्धि यदसत्येन साध्यते ।
असत्येऽर्थे समर्थेऽपि न युक्तं भावनं घनम् ।। ९
येन तेन परित्याज्यमसद्भावनभावनम् ।
दृढप्रत्ययितं स्वप्नपुरुषाद्यत्समुत्थितम् ।। १०
भवत्यात्मनि सर्गादि दृढप्रत्ययमेव तत् ।
निमेषमात्रः पौरोऽयं सर्गस्वप्नः पुरः स्थितः ।। ११
तस्मिन्निमेष एवास्मिन्कल्पता परिकल्प्यते ।
सुदीर्घस्वप्नखण्डोऽयं यथोदेति प्रजापतेः ।। १२
सर्गाख्यः सर्वभूतानां प्रत्येकमुदितस्तथा ।
चित्तत्त्वस्यैव भावेन सर्गवर्गपरम्परा ।। १३
स्फुरत्यम्भो द्रवत्वेन यथावर्तविवर्तनैः ।
यथा स्वप्नात्मिकैवेयं सर्गलक्ष्मीर्न वास्तवी ।। १४
तदा संभवतीदं वै तत्पदं प्रलयं गतम् ।
यद्यथा यादृशं दृष्टं तत्तादृग्विद्यते तथा ।। १५
न हि पर्यनुयोक्तव्याः स्वप्नविभ्रमरीतयः ।
न तदस्ति जगत्यस्मिन्यन्न संभवति भ्रमे ।। १६
विचित्रास्त्रिषु लोकेषु दृश्यन्ते वस्तुदृष्टयः ।
जलमध्ये ज्वलत्यग्निर्यथाब्धौ वडवानलः ।। १७
नगराण्यम्बरे सन्ति यथा वैमानिकाश्रयाः ।
शिलास्वब्जानि जायन्ते हेमाद्राविव पादपाः ।। १८
एकान्ते सर्वपुण्यानि सन्ति कल्पतरौ यथा ।
शिलाः फलन्ति फलिवद्यथा रत्नगुलुच्छकाः ।। १९
शिलान्तः प्राणिनः सन्ति भेका इव शिलान्तरे ।
दृषदो वारि निर्याति चन्द्रकान्तोपलादिव ।। २०
निमेषेण घटो याति पटतां स्वापसंविदि ।
असत्यमपि बुध्येत स्वप्ने स्वमरणं यथा ।। २१
आकस्मिकं जलं व्योम्नि ध्रियते भूतगं यथा ।
वितानमिव खे वारि तिष्ठति स्वर्णदी यथा ।। २२
उड्डीयन्ते शिलाः स्थूलाः पक्षवन्तो यथाद्रयः ।
शिलान्तः प्राप्यते सर्वं ननु चिन्तामणेरिव ।। २३
चिन्तितानि फलन्त्याशु देवोद्यानान्तरेष्विव ।
तान्येव न फलन्त्याशु मोक्षादीनां च राघव ।। २४
अचेतनोऽपि कुरुते कर्म यन्त्रपुमानिव ।
एवमाद्यास्तथान्ये च विचित्रारम्भविभ्रमाः ।। २५
दृष्टाः शम्बरगन्धर्वविलासैरप्यसंभवाः ।
देशकालक्रियाद्रव्यरत्नसंचरणीयजाः ।। २६
अर्था गन्धर्वजनिता अनन्ताः सत्यसंभवाः ।
असंभवः संभवोऽयमपि भाव्युपपद्यते ।। २७
संभवोऽसंभवः सम्यक् सिद्धये स्वप्नविभ्रमः ।
न तदस्ति न यत्सत्यं न तदस्ति न यन्मृषा ।। २८
सर्वं सर्वेण सर्वत्र स्वप्ने सर्गाभिधानके ।
स्वप्ने निमग्नधीर्जन्तुः पश्यति स्थिरतां यथा ।। २९
सर्गस्वप्ने मग्नबुद्धिः पश्यति स्थिरतां तथा ।
भ्रमाद्भ्रमान्तरं गच्छन्स्वप्नात्स्वप्नान्तरं व्रजन् ।
अतिस्थिरप्रत्ययभागिह जीवो विमुह्यति ।। ३०
श्वभ्रान्तरं श्वभ्रनिपातदोषात्
संप्राप्नुवन्मुग्धमृगः प्रयाति ।
मोहं यथा पातमयैकरूपं
जीवस्तथा संसृतिपात्रमूढः ।। ३१
इत्यार्षे श्रीवासिष्ठमहारामायणे देव० मोक्षो० निर्वाणप्रकरणे पूर्वार्धे जगत्स्वप्नकथनं नामैकषष्टितमः सर्गः ।। ६१ ।।