योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०६२


द्विषष्टितमः सर्गः ६२
श्रीवसिष्ठ उवाच ।
अत्र राघव वक्ष्येऽहमितिहासमिमं श्रृणु ।
यद्वृत्तं कस्यचिद्भिक्षोः किंचिन्मननशालिनः ।। १
आसीत्कश्चिन्महाभिक्षुः समाध्यभ्यासतत्परः ।
नित्यं स्वव्यवहारेण क्षपयत्यखिलं दिनम् ।। २
समाध्यभ्यासशुद्धं तत्तस्य चित्तं क्षणेन यत् ।
चिन्तयत्याशु तद्भावं गच्छत्यम्ब्विव वीचिताम् ।। ३
कदाचित्स समाधानविरतोऽतिष्ठदेकधीः ।
किंचित्संचिन्तयामास स्वासनस्थः क्रियाक्रमम् ।। ४
तस्य चिन्तयतो जाता प्रतिभेयमिति स्वतः ।
भावयाम्याशु लीलार्थं सामान्यजनवृत्तिताम् ।। ५
इति संचिन्त्य चेतोऽस्य स्थितं किंचिन्नरान्तरम् ।
स्पन्दसंस्थानसंत्यागमात्रेणावर्तनेऽम्ब्विव ।। ६
तेन चित्तनरेणाथ कृतं नामात्मवाञ्छया ।
जीवटोऽस्मीति सहसा काकतालीयवत्स्थितम् ।। ७
जीवटो विजहाराथ स स्वप्नपुरुषश्चिरम् ।
स्वप्ननिर्माणनगरे कस्मिंश्चित्पुरवीथिषु ।। ८
तत्र पानं पपौ मत्तो भृङ्गः पद्मरसं यथा ।
लीलयैव दृढं हृष्टः सुष्वाप घननिद्रया ।। ९
स्वप्ने ददर्श विप्रत्वं पाठानुष्ठानतुष्टिमत् ।
प्रतिभामात्रसंपन्नां चित्ते देशान्तराप्तिवत् ।। १०
कदाचित्स द्विजश्रेष्ठस्त्वहर्व्यापारनिष्ठया ।
सुष्वापान्तर्व्यवहृतिर्बीजतायामिव द्रुमः ।। ११
द्विजोऽपश्यत्स्वयं स्वप्ने सामन्तत्वमथात्मनि ।
स सामन्तः कृताहारः कदाचिद्धननिद्रया ।। १२
अपश्यद्राजतां स्वप्ने ककुब्वलयपालिनीम् ।
लालितां भोगपूगेन पुष्पौघेण लतामिव ।। १३
स कदाचिन्नृपः स्वस्थः सुष्वापास्तमितेहितः ।
पुरोभाविनिजाचारः स्वकार्यमिव कारणे ।। १४
अपश्यत्स्वात्मनि स्वप्ने सुरस्त्रीत्वमनिन्दितम् ।
वृक्षकोशरसोल्लासे मञ्जरीत्वमिवोदितम् ।। १३
सा सुरस्त्री रतिश्रान्ता निद्रां गाढामुपागता ।
मृगीत्वमात्मनि स्वैरमावर्तत्वमिवाम्बुता ।। १६
सा मृगी लोलनयना कदाचिन्निद्रया हृता ।
स्वप्ने ददर्श वल्लीत्वं स्वाभ्यासाद्दृढमात्मनि ।। १७
तिर्यञ्चोऽपि प्रपश्यन्ति स्वप्नं चित्तस्वभावतः ।
दृष्टानां च श्रुतानां च चेतःस्मरणमक्षतम् ।। १८
सा बभूव लतापुष्पफलपल्लवशालिनी ।
वनदेवी वनोद्यानलतागृहविलासिनी ।। १९
बीजान्तस्थाङ्कुराकाररूपयेहाधिरूढया ।
सापश्यदन्तःसंवित्त्या स्फुटं लवनमात्मनः ।। २०
कंचित्कालं सुषुप्तस्थं कलया जडतां घनाम् ।
अनुभूय ददर्शाथ स्वात्मानं भ्रमरं स्थिरम् ।। २१
षट्पदो विजहाराथ वने वनलतास्वसौ ।
पद्मिनीषु च फुल्लासु तरुणीष्विव वल्लभः ।। २२
प्रियाबिम्बाधरस्वादुरसवत्कौसुमं मधु ।
भ्रमत्कुसुमसंघासु मुक्तावल्लीविलासिषु ।। २३
स बभूव सरोजिन्यां व्यसनी विसनालगः ।
क्वचिदेव रतिं ह्येति चेतो जडमतेरपि ।। २४
तामाजगाम नलिनीं परिलोलयितुं गजः ।
रम्यवस्तुक्षयायैव मूढानां जृम्भते पदम् ।। २५
नलिनी मर्दिता सैव समं तेन स षट्पदः ।
गतो दन्तान्तरं व्रीहिरिव चूर्णत्वमाययौ ।। २६
भ्रमरो वारणालोकाद्वारणालोकभावनात् ।
ददर्शात्मानमामोदमत्तहस्तितयोदितम् ।। २७
शुष्कसागरगम्भीरे गजः खाते पपात ह ।
तमोघनघने शून्ये संसार इव जीवकः ।। २८
बभूव वल्लभो राज्ञो महापरबलान्तकः ।
सदा मदबलक्षीबो घूर्णोतीव निशाचरः ।। २९
कदाचिदसिनिस्त्रिंशच्छिन्नः सोऽस्तमुपाययौ ।
विवेकानिलनिर्लूनरूपो जीव इवात्मनि ।। ३०
पश्यन्गजघटाकुम्भस्थलाग्रोच्चलितानलीन् ।
गण्डस्थभ्रमराभ्यासाद्गजो भूयोऽप्यभूदलिः ।। ३१
सेवमानो वनलतां पुनरायात्स पद्मिनीम् ।
दुस्त्यजो हि दुरभ्यासो वासनानामबोधिनः ।। ३२
तत्र हस्तिखुराक्रान्तः पुनः संचूर्णतां ययौ ।

पार्श्वस्थहंससंवित्त्या बभूव कलहंसकः ।। ३३
कलहंसश्चिरतरं योनिष्वन्यासु संल्लुठन् ।
कदाचिद्बहुभिर्हंसैः संगतो विजहार ह ।। ३४
ब्राह्महंसात्मिका संवित्सशब्दार्थवती मनाक् ।
तत्र पुष्टास्य तस्यान्तः प्रागण्डरसबर्हिवत् ।। ३५
स तच्चिन्तां चरन्मृतो दृढं व्याधिघुणाहतः ।
तत्संवित्त्यनुसंधानाज्जातः पद्मजसारसः ।। ३६
तत्रातिसततविवेकवतो विलासैः
संबोधितो विगतलौकिकवस्तुदृष्टिः ।
मुक्तः स्थितो ननु युगान्तविधौ विदेह-
मुक्तेन तेन किमु भावि विभाव्यमेतत् ।। ३७
इत्यार्षे श्रीवासिष्ठमहा० वा० दे० मो० निर्वा० पू० जीवटोपाख्याने स्वप्नशतरुद्रीये भिक्षुसंसारोदाहरणं नाम द्विषष्टितमः सर्गः ।। ६२ ।।