योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०६३


त्रिषष्टितमः सर्गः ६३
श्रीवसिष्ठ उवाच ।
स कदाचिद्ददर्शाथ रुद्रं रुद्रपुरे खगः ।
वैरिञ्चनलिनीनाललीलालाभेन लीलया ।। १
तत्र बुद्धिरभूत्तस्य रुद्रोऽहमिति निश्चिता ।
प्रतिबिम्बवदादर्शे द्रागित्येव हि बिम्बिता ।। २
रुद्रभूतवपुस्तत्र तनुं तत्याज तामसौ ।
गन्धः पवनतां गच्छन्कुसुमस्तबकं यथा ।। ३
स रुद्रो रुद्रभवने विजहार यथेच्छया ।
तैस्तैः शिवपुराचारैर्गणकोटिगरिष्ठया ।। ४
रुद्रस्त्वनुत्तमज्ञानविलासैकतया तया ।
स्वप्नशेषं च वृत्तान्तमपश्यत्प्राक्तनं धिया ।। ५
निरावरणविज्ञानवपुः स भगवांस्तदा ।
उवाच स्वयमेकान्ते स्वस्वप्नशतविस्मितः ।। ६
अहो तु चित्रा मायेयं तता विश्वविमोहिनी ।
असत्यैवापि सद्रूपा मरुभूमिषु वारिवत् ।। ७
इति प्रथममाज्ञातं चिद्योऽहं चित्ततां गतः ।
सर्वसंपन्नसर्वज्ञगगनादिविभावनात् ।। ८
यदृच्छया स्थितो जीवो भूततन्मात्ररञ्जितः ।
कस्मिंश्चिदभवत्सर्गे भिक्षुरक्षुभितोऽभितः ।। ९
तेनावयवबन्धेन बहिः स्वैरविहारिणी ।
लीलाऽविलुलिताकारा यदा रम्येति भावतः ।। १०
सर्वभावोपमर्देन तदभ्यासवशात्तदा ।
तामेव सोऽन्वभूद्भिक्षुस्त्यक्त्वान्यं मननोदयम्।। ११
चमत्कृतिश्चेतसि या रूढा सैव विजृम्भते ।
वल्ली त्यजति नैदाघी पीतमप्यम्बु माधवम् ।। १२
स भिक्षुर्जीवटो भूत्वा जन्तुर्जरठवासनः ।
तेषु देहेषु बभ्राम रन्ध्रेष्विव पिपीलिका ।। १३
आत्मनि द्विजभक्तत्वात्सोऽपश्यद्द्विजतामथ ।
भावाभावविपर्यासे बलवानेव वर्धते ।। १४
सामन्ततामवापासौ विप्रः संततचिन्तिताम् ।
सातत्येन रसः पतिः फलतामेति पादपे ।। १
राज्यार्थं धर्मकार्याणां कर्तृत्वात्सोऽभवन्नृपः ।
सकामुकतया राजा सुरस्त्रीत्वमवाप ह ।। १६
लोला लोचनलोभेन सा मृगी रसशालिनी ।
बभूव वासनामोहश्चाहो दुःखाय जन्तुषु ।। १७
मृगी सा बत चित्तस्था बभूव विपिने लता ।
अवश्यंभावि लवनं लतिकाऽनुबभूव ह ।। १८
अन्तःसंज्ञाचिराभ्यस्तं भ्रमरत्वमथात्मनि ।
साऽपश्यत्सावमर्देन तदा तद्भावभाविता ।। १९
सवारणखुरक्षोदमनुभूयाथ भावितम् ।
भूयोभूयः प्रबभ्राम महासंसृतिसंभ्रमान् ।। २०
संसारशतपर्यन्ते रुद्रः सोऽहमहं स्थितः ।
अस्मिन्संसारसंरम्भे स्वमनोमात्रसंभ्रमे ।। २१
एवमत्यन्तचित्रासु संसारारण्यभूमिषु ।
बह्वीष्वहमतिभ्रान्तस्त्वशून्यास्विव भूरिशः ।। २२
कस्मिंश्चिदभवं सर्गे त्वहं जीवटनामकः ।
कस्मिंश्चिद्ब्राह्मणश्रेष्ठः कस्मिंश्चिद्वसुधाधिपः ।। २३
हंसः पद्मवने भूत्वा विन्ध्यकच्छे च वारणः ।
हरिणो देहयन्त्रादौ दशामहमिमां गतः ।। २४
अत्र वर्षसहस्राणि चतुर्युगशतानि च ।
समतीतान्यनन्तानि दिनर्तुचरितानि च ।। २५
मम प्रथममेव प्राक्चलितस्य परात्पदात् ।
तत्त्वज्ञानितया रूढो भिक्षुत्वे योग्यताक्रमः ।। २६
भूयोभूयोऽप्यतिक्रम्य गतश्च ब्रह्महंसताम् ।
स एव प्राक्तनोऽभ्यासः फलितः संगमोदयात् ।। २७
दृढाभ्यासो य एवास्य जीवस्योदेत्यविघ्नतः ।
सोऽत्यन्तमरसेनापि तमेवाश्वनुधावति ।। २८
काकतालीययोगेन कदाचित्साधुसंगमात् ।
अशुभो भावनाभ्यासो जीवस्य विनिवर्तते ।। २९
संगत्यधिगतं चैष केवलं स्वोदयं प्रति ।
प्राक्तनो वासनाभ्यासो हातुरुद्यममीक्षते ।। ३०
यच्चेहाभ्यस्यतेऽजस्रं यच्च देहान्तरेऽपि च ।
जाग्रत्स्वप्नेष्वसदपि तत्सदित्यनुभूयते ।। ३१
तत्तदर्थक्रियाकारि दुःखाय च सुखाय च ।
उदेति भावनं तस्माद्भावनाभावनं जयः ।। ३२
भावनैव स्वमात्मानं देहोऽयमिति पश्यति ।
असत्तामात्रविस्तारं गुल्मकत्वमिवाङ्कुरः ।। ३३
भावना प्रेक्ष्यमाणैषा न किंचिदिह शिष्यते ।
न च विद्यत एवेति तद्भ्रमेणालमस्तु नः ।। ३४
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।
असंवेदनमात्रैकं मार्जनायालमस्तु नः ।। ३५
असन्मयीस्वरूपैषा परं सत्तैव लालनी ।
वर्तते चेद्विनोदाय किंचित्सा न करिष्यति ।। ३६
तत्तान्सर्वान्स्वसंसारानुत्थायालोकयाम्यहम् ।
सम्यगालोकदानेन तेभ्य एकीकरोम्यहम् ।। ३७
इति संचिन्त्य रुद्रोऽसौ तं सर्गं प्रजगाम ह ।
यत्र भिक्षुर्विहारस्थः सुप्तः शव इव स्थितः ।। ३८
बोधयित्वाथ तं भिक्षुं चेतसा चेतनेन च ।
योजयामास सस्मार भिक्षुरप्यात्मनो भ्रमम् ।। ३९
रुद्रमात्मानमालोक्य जीवटादिमयं तथा ।
बोधादविस्मयार्होऽपि स भिक्षुर्विस्मयं ययौ ।। ४०
अथ रुद्रस्तथा भिक्षुर्द्वावेवोत्थाय जग्मतुः ।
क्वापि जीवटसंसारं चिदाकाशैककोणगम् ।। ४१
तत्र तद्भवनं गत्वा तद्द्वीपं तच्च मण्डलम् ।
विषयं तत्पुरं तच्च तं च पाणावसिग्रहम् ।। ५
सुप्तं ददृशतुर्नष्टसंज्ञं जीवटकं शवम् ।
स्थापयित्वा वपुर्भावं प्रभान्तं भवभूमिषु ।। ४३
तं प्रबोध्य नियोज्याशु चेतसा चेतनेन च ।
एकरूपास्त्रिरूपास्ते रुद्रजीवटभिक्षुकाः ।। ४४
बोधवन्तोऽप्यबुद्धाभा विस्मिता अप्यविस्मिताः ।
बभुस्तूष्णींस्थिताश्चित्रकृताकारा इव क्षणम् ।। ४५
अथ जग्मुश्च ते सर्वे क्वचिद्व्योमनि संस्थितम् ।
विप्रसंसारमारब्धं परिभूतसघुंघुमम् ।। ४६
ते तत्र भुवनं गत्वा तद्वीपं तच्च मण्डलम् ।
विषयं तच्च तं ग्रामं प्रापुस्तं ब्राह्मणालयम् ।। ४७
विप्रं ते ददृशुः सुप्तं कलत्रवलितं गृहे ।
कण्ठे गृहीतं ब्राह्मण्या बहिर्जीवमिव स्थितम् ।। ४८
तं प्रबोध्य नियोज्याशु चेतसा चेतनेन च ।
तत्स्थास्ते बहवोऽप्यन्ये सविस्मयविविस्मयाः ।। ४९
अथ जग्मुश्चिदाकाशकचितं चेतितं चितेः ।
सामन्तं नृपसंसारं भ्रमणाभोगसुन्दरम् ।। ५०
ततस्ते भुवनं प्राप्तास्तद्द्वीपं तच्च मण्डलम् ।
सामन्तं ददृशुर्मत्तं सुप्तं पर्यङ्कपङ्कजे ।। ५१
हेमावदातं हेमांग्या निहितं कुचकोटरे ।
भ्रमर्येवान्वितं पद्मकोशसुप्तं मधुव्रतम् ।। ५२
कान्ताभिरभ्यावलितं मञ्जरीभिरिव द्रुमम् ।
दीपजालकमध्यस्थं रत्नौघ इव काञ्चनम् ।। ५३
तं प्रबोध्य नियोज्याशु चेतसा चेतनेन च ।
तत्स्थास्ते बहवोऽप्येके सविस्मयविविस्मयाः ।। ५४
अथ ते राजसंसारं जग्मुस्तत्र विबोध्य तम् ।
चेतसैवमथान्यासु भ्रेमुः संसारभूमिषु ।। ५५
प्राप्य तां ब्रह्महंसेहां रुद्रतां सर्व एव ते ।
समाजग्मुर्विरेजुश्च रुद्राणामुत्तमं शतम् ।। ५६
एकसंविद्भिन्नतनु चित्रचेष्टितवेष्टितम् ।
एकरूपमनेकाभं रूपं तत्पारमेश्वरम् ।। ५७
रुद्राणां तच्छतमथ निरावरणचिन्मयम् ।
सर्वसंसारसंबन्धि स्थितं सर्वजगत्स्थितम् ।। ५८
शतरुद्रशतानीह सन्ति राम महान्ति हि ।
एतदेकादशं विद्धि संसारं प्रतिसंस्थितम् ।। ५९
यो योऽभितः स जीवस्य संसारः समुदेति हि ।
तत्राप्रबुद्धा जीवौघाः पश्यन्ति न परस्परम् ।। ६०
मिलन्ति हि मनोबुद्धास्तरङ्गा इव वारिधौ ।
अप्रबुद्धास्तु तन्मात्रनिष्ठा लोष्टवदास्थिताः ।। ६१
यथा द्रवत्वाद्वीच्यम्बु त्वन्योन्यं संमिलत्यलम् ।
तथा प्रबुद्धा जीवौघा मिथश्चित्त्वान्मिलन्त्यलम् ।।६२
प्रत्येकमुदिते चैते संसारे जीवराशयः ।
चिद्धातोः सर्वगत्वेन त्वसत्याः सत्यवत्स्थिताः ।।६३
यद्यदाखन्यते भूमेस्तत्तन्नाम यथा नभः ।
सर्वगायाश्चितेर्यद्यदुह्यते तत्तथैव चित् ।। ६४
सर्वप्रपञ्चभूतानि यथानुभवसीह हि ।
तथेह सर्वभूतात्म चित्त्वं सर्वत्र विद्यते ।। ६५
यच्छालभञ्जिका वृक्षे शैले श्वभ्रे गतेऽन्तकम् ।
प्रेक्ष्यते तद्वदेकात्मा तथा चिति जगत्स्थितम् ।। ६६
अवेदने परे शुद्धे वेदनं यज्जगत्स्थितम् ।
अकारणमचैतन्यं शून्यत्वेन यथा नभः ।। ६७
विद्यते वेदनं दृश्यबन्धो मोक्षस्त्ववेदनम् ।
यदेव रुचिरं ते स्यात्तदेवाशु दृढीकुरु ।। ६८
सर्गासर्गौ बन्धमोक्षौ वेदनावेदनात्मकौ ।
अभिन्नौ बोधनाच्चोभौ यथेच्छसि तथा कुरु ।। ६९
असंवित्तेस्तु यन्नास्ति तन्नाशे का कदर्थना ।
तूष्णींभावेन यत्प्राप्यं प्राप्तमेवाशु विद्धि तत् ।। ७०
यद्वै वेदनमात्रात्म तदंगावेदनक्षयम् ।
तद्वेदनं वेदनाया यदिष्टं तत्समाचरेत् ।। ७१
वीचिर्यथाम्भसः स्पन्दो जगच्चैव तथा चितौ ।
एतावन्मात्र एवात्र भेदो यद्रघुनन्दन ।। ७२
देशकालस्वरूपेषु सत्सु वीच्यादिताम्भसि ।
जगदादौ तु देशाद्या असन्तो जगतीक्षिताः ।। ७३
आभास्वरं त्रिजगदित्यतिभाति भास्व-
त्स्वं वेदनं विदनमेव चितेः स्वरूपम् ।
वाचि स्थितं भवति चैतदुपोह भेद-
क्लिष्टं प्रशान्तवचनस्तु शिवः परात्मा ।।७४
संवेदनं सर्वं इतीह शब्दा-
दर्थादभिन्नौ न कदाचिदेतौ ।
वीच्यम्भसी द्वे इति नोचितोक्ति-
यस्याज्ञतायां त्विदमेव युक्तम् ।। ७५
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे पू० जीवटोपाख्याने स्वप्नशतरुद्रीयकथनं नाम त्रिषष्टितमः सर्गः ६३