योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०६७
सप्तषष्टितमः सर्गः ६७
दशरथ उवाच ।
मुनिनायक तं भिक्षुं गत्वा संबोधयन्त्वमी ।
नरा मत्प्रहिताः शीघ्रं चानयन्तु कुटीगतम् ।। १
श्रीवसिष्ठ उवाच ।
राजंस्तस्य महाभिक्षोः स देहः प्राणवर्जितः ।
क्लेदो वैवर्ण्यमायातो नासौ जीवितभाजनम् ।। २
तस्य भिक्षोस्तु जीवोऽसौ भूत्वा पद्मजसारसः ।
जीवन्मुक्तः स्थितो भूयो नासौ संसृतिभाजनम् ।। ३
तद्गृहे मासपर्यन्ते बलान्निष्कासितार्गलाः ।
अन्तराले तु तिष्ठन्ति भृत्या भिक्षुदिदृक्षवः ।। ४
ततो नष्टाङ्गसंधानं कायं निष्काल्यते जले ।
त्यक्ष्यन्त्यन्यं करिष्यन्ति भिक्षुमक्षुण्णमानसम् ।। ५
अनेनैवं सदेहेन भिक्षुर्मुक्तो व्यवस्थितः ।
कथं प्रबोध्यते नष्टं तद्विहारे शरीरकम् ।। ६
एषा गुणमयी माया दुर्बोधेन दुरत्यया ।
नित्यं सत्यावबोधेन सुखेनैवातिवाह्यते ।। ७
असत्येव कृतारम्भा हेम्नः कटकता यथा ।
प्रतिभासविपर्यासमात्रकारणकोदया ।। ८
परमात्मनि वाचेयमित्थं मायानुमीयते ।
तरङ्गालीव पयसि प्रेक्षामात्रविनाशिनी ।। ९
ज्ञो हि दृश्यतया दीर्घस्वप्नात्स्वप्नान्तरं व्रजेत् ।
एवं जीवत्वमायाति विवेकात्सर्वमात्मदृक् ।। १०
यो यस्य प्रतिभासः स्यादात्मैव स स्वबोधतः ।
स एवोदेति संसारः करञ्जवनगुल्मदृक् ।। ११
प्रत्येकं भूतमुदितं कृतं संसारमण्डलम् ।
भिक्षोः स्वप्नान्तर इव परां भङ्गिमिवाम्भसः ।। १२
प्रस्तुतः पद्मजादेव जगत्स्वप्नो यथोदितः ।
तथैवास्वच्छचित्तोत्थो रूढः सर्वजनं प्रति ।। १३
पितामहवदाभाति सर्गः स्वप्नविलासवत् ।
प्रत्येकमुदितस्तेन ब्रह्माण्डानीव कोटिशः ।। १४
स्फुरन्यथा तथा वास्मिञ्जीवः पश्यति विभ्रमम् ।
हृदयेऽयं समर्थं च स्वप्नवद्दीर्घमान्तरम् ।। १
चित्सत्तामात्रमासाद्य प्रतीतिच्युतमात्रतः ।
जरामरणदुःखानां क्वचिद्भाजनतां गतः ।। १६
पातालं ब्रह्मलोकं वा चित्तत्सुकृतशालिनी ।
चित्तांशस्पन्दमात्रेण कृत्वा कृत्वेव संस्थिता ।। १७
चित्स्पन्दरूपिणी जीवनामरूपं गतात्मनि ।
अन्यत्र च विलुठति गत्वा संभ्रमहारिणी ।। १८
चित्तेति परमात्मा न परमात्मा न वा न किम् ।
जीवदेहादिनाम्नोऽस्य प्रतिबिम्बादिवार्हता ।। १९
ब्रह्मण्येव परं ब्रह्म जगदृष्ट्यैव संस्थितम् ।
शुद्धाकाशमिवाकाशे जले जलमिवामलम् ।। २०
लोको ब्रह्मण एवायं जगद्रूपेषु तिष्ठति ।
बिभेत्यन्यतया बोधात्प्रतिबिम्बादिवार्भकः ।। २१
स्पन्देऽस्पन्दीकृते चेह स्वतः संज्ञा विलीयते ।
साप्यलं परिणामेन लीयतेऽग्नौ घृतं यथा ।। २२
चित्स्पन्द एव चित्स्पन्दे सर्वात्मनि विजृम्भितः ।
स्पन्दास्पन्दौ जृम्भणादि कल्पितं नात्र वास्तवम् ।। २३
न स्पन्दोऽस्तीह नास्पन्दो नैकता वापि न द्विता ।
शुद्धं चिन्मात्रसर्वस्वं यथैवास्ति तथा स्थितम् ।। २४
सारेण तु विचारेण सर्वशब्दार्थयोः समे ।
चिन्मात्रमेव ज्ञातेयं नास्तीत्यपि न विद्यते ।। २५
भेदवेदनयोदेति भेदः प्रकृतिलाञ्छनम् ।
अभेदबोधादखिले गलिते शिष्यते परम् ।। २६
नानातैवास्य बोधेन स बोधस्त्वनवेक्षणात् ।
पृच्छकं चैवमस्त्येव तस्मान्निःशङ्कता परा ।। २७
ततः स्वप्नो न जागर्तिर्न सुषुप्तिर्न तुर्यता ।
न बन्धोस्ति न मोक्षोस्ति नान्यथाकल्पनात्मकम् ।। २८
शान्तिरेका जगन्नाम्नी शान्तिरेवमवस्थिता ।
अबोधोऽसत्य एवातः क्व द्रष्टृदृश्यदर्शनम् ।। २९
स्पन्दोऽप्यस्पन्द एव स्यान्निःसंकल्पतया च ते ।
न स्पन्दास्पन्दयोर्भिन्ना संकल्परहितैव चित् ।। ३०
द्वैतैक्यविकला रूपसंकल्पश्चिदभावनात् ।
स च भावनमात्रेण गतो ब्रह्मैव शिष्यते। ।। ३१
चिच्चन्द्रबिम्बे संकल्पकलङ्कः स्फुरतीव यः ।
नासौ कलङ्कस्तद्विद्धि चिद्धनस्य घनं वपुः ।। ३२
चिद्धनस्य न सन्नासन्स्थीयतां यत्तते पदे ।
इत्यदोषमहाबोधसारसंग्रहणं कृतम् ।। ३३
चिच्चन्द्रबिम्बासंकल्पकलङ्कामृतविग्रहः ।
त्वया भव्येन संस्पृष्टो भावाभावक्षयात्मना ।। ३४
भावाभावादिकलनां नीत्वा चिन्मयतां चितः ।
समोल्लासविलासान्तः समाश्वस यथासुखम् ।। ३५
स्पन्दास्पन्दौ कल्पनाकल्पना वा
चित्ताम्नायो विद्धि नामाब्धिनाम्ना ।
सर्वाकारा निर्वृतिः शान्तिसत्ता
पूर्णापूर्णे ह्येकमेवास्थितेति ।। ३६
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० ब्रह्मैक्यप्रतिपादनं नाम सप्तषष्टितमः सर्गः ।। ६७ ।।