योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०६९


एकोनसप्ततितमः सर्गः ६९
श्रीराम उवाच ।
कुतः शतत्वमायातं रुद्राणां मुनिनायक ।
ये गणास्ते तु ये रुद्रा उत नेति वदाशु मे ।। १
श्रीवसिष्ठ उवाच ।
स्वप्नानां भिक्षुणा दृष्टं शतं शतशरीरकम् ।
सर्वमुद्देशतो ज्ञातं तत उक्तं न तन्मया ।। २
य आकाराश्च ते स्वप्ने तत्तद्गणशतं स्मृतम् ।
तदेतद्रुद्रशतकं रुद्रा अपि गणा विधौ ।। ३
श्रीराम उवाच ।
एकस्माद्भगवंश्चित्तात्कथं चित्तशतं कृतम् ।
तत्स्वप्नकृतरुद्रेण दीपाद्दीपशतं यथा ।। ४
श्रीवसिष्ठ उवाच ।
निरावरणसद्भावा यद्यथा कल्पयन्ति हि ।
तत्तथानुभवन्त्येव रसावरणसंविदः ।। ५
सर्वात्मनः सर्वगत्वाद्यद्यथा यत्र भाव्यते ।
तथानुभूयते तत्र तत्तथा ज्ञतया धिया ।। ६
श्रीराम उवाच ।
कपालमालाभरणो भस्मशाली दिगम्बरः ।
श्मशाननिलयो ब्रह्मन्कामुकश्च किमीश्वरः ।। ७
श्रीवसिष्ठ उवाच ।
महेश्वराणां सिद्धानां जीवन्मुक्तशरीरिणाम् ।
न क्रियानियमोऽस्तीह स ह्यज्ञस्यैव कल्पितः ।। ८
अज्ञस्तु दितचित्तत्वात्क्रियानियमनं विना ।
गच्छन्न्यायेन मात्स्येन परं दुःखं प्रयाति हि ।। ९
सुज्ञास्त्विष्टेष्वनिष्टेषु न निमज्जन्ति वस्तुषु ।
यतेन्द्रियत्वाद्बुद्धत्वान्निर्वासनतया तथा ।। १०
काकतालीयवद्रूढां क्रियां कुर्वन्ति ते सदा ।
न कुर्वन्त्यपि वै किंचिन्नैषां क्वचिदपि ग्रहः ।। ११
काकतालीयतो विष्णुरेवंकर्मोदितः पुरा ।
एवंकर्मा त्रिनयन एवंकर्माम्बुजोद्भवः ।। १२
न निन्द्यमस्ति नानिन्द्यं नोपादेयं न हेयता ।
न चात्मीयं न च परं कर्म ज्ञविषयं क्वचित् ।। १३
अग्न्यादीनां यथौष्ण्यादि सर्गादौ रूढिमागतम् ।
हरादीनां तथा कर्म द्विजातीनां च जातयः ।। १४
सर्गे प्ररूढिमायाते संकेतवशतः पृथक् ।
अनुभूतिफलाश्चर्याः कल्पिताः कल्पिताः स्वयम्।।१५
विदेहमुक्तविषयं तुर्यमौनमतो मया ।
नोक्तं तव परं मौनं सदेहस्य रघूद्वह ।। १६
खादप्यतितरामच्छमात्माकाशं चिदात्मकम् ।
तत्ताप्राप्तिः परं श्रेयः सा कथं प्राप्यते श्रृणु ।। १७
सम्यग्ज्ञानावबोधेन नित्यमेकसमाधिना ।
संख्ययैवावबुद्धा ये ते स्मृताः सांख्ययोगिनः ।। १८
प्राणाद्यनिलसंशान्तौ युक्त्या ये पदमागताः ।
अनामयमनाद्यन्तं ते स्मृता योगयोगिनः ।। १९
उपादेयं तु सर्वेषां शान्तं पदमकृत्रिमम् ।
तत्केचित्संख्यया प्राप्ताः केचिद्योगेन देहतः ।। २०
एकं सांख्यं च योगं च यः पश्यति स पश्यति ।
यत्सांख्यैः प्राप्यते स्थानं परं योगैस्तदेव हि ।। २१
यत्र प्राणमनोवृत्तिरत्यन्तं नोपलभ्यते ।
वासनावागुरोत्क्रान्ता तद्विद्धि परमं पदम् ।। २२
वासनां चित्तमेवाहुः कारणं तद्धि संसृतेः ।
तदकारणतामेति विलीयोभयकर्मसु ।। २३
मनः पश्यति वै देहं बालो वेतालकं यथा ।
स्वात्मानं विलयं नीत्वा न भूयस्तं प्रपश्यति ।। २४
मनो मुधैवाभ्युदितमसदेवानवेक्षणात् ।
स्वप्ने स्वमरणाकारं प्रेक्ष्यमाणं न विद्यते ।। २५
मनोभवस्तु संसारः क्व ममाहं क्व संततिः ।
उपदेश्योपदेशादिबन्धमोक्षौ च तत्कुतः ।। २६
एकतत्त्वघनाभ्यासः प्राणानां विलयस्तथा ।
मनोविनिग्रहश्चेति मोक्षशब्दार्थसंग्रहः ।। २७
श्रीराम उवाच ।
यदि हि प्राणविलयो मुने मोक्षस्य कारणम् ।
मृता एव विमुच्यन्ते तन्मन्ये सर्वजन्तवः ।। २८
श्रीवसिष्ठ उवाच ।
त्रिष्वेतेषु प्रयोगेषु मनःप्रशमनं वरम् ।
साध्यं विद्धि तदेवाशु यथा भवति तच्छिवम् ।। २९
यदा निर्वाणनं प्राणास्त्यजन्तीदं शरीरकम् ।
तदानुभूय तन्मात्रैर्यान्ति व्योमनि संगमम् ।। ३०
वासनासात्मकान्येव विद्धि तन्मात्रकाणि वै ।
तदात्मकैर्मनोवद्भिः प्राणैः श्लिष्यन्ति नेतरैः ।। ३१
सवासनास्तूत्पद्यन्ते प्राणा मुञ्चन्ति देहकम् ।
तद्व्योमवायुसंश्लेषं यान्ति दुःखाय गन्धवत् ।। ३२
मनः साम्बुरिवाम्भोधौ न शाम्यति सवासनम् ।
नामनस्काः संभवन्ति प्राणाः सूर्य इव त्विषः ।। ३३
न जहाति मनः प्राणान्विना ज्ञानेन कर्हिचित् ।
तृणान्तरेणैव विना तृणाङ्गमिव तित्तिरिः ।। ३४
ज्ञानादवासनीभावं स्वनाशं प्राप्नुयान्मनः ।
प्राणात्स्पदं च नादत्ते ततः शान्तिर्हि शिष्यते ।। ३५
ज्ञानात्सर्वपदार्थानामसत्त्वं समुदेत्यलम् ।
ततोऽङ्ग वासनानाशाद्वियोगः प्राणचेतसोः ।। ३६
ततो न पश्यति मनः प्रशान्तं देहतां पुनः ।
स्वनाशेन पदं प्राप्तं वासनैव मनो विदुः ।। ३७
चेतो हि वासनामात्रं तदभावे परं पदम् ।
तत्त्वं संपद्यते ज्ञानं ज्ञानमाहुर्विचारणम् ।। ३८
इत्यस्याः संसृते राम पर्यन्तः संप्रवर्तते ।
स्वयं विवेकमात्रेण रज्जुसर्पभ्रमाकृतेः ।। ३९
एकार्थाभ्यसनप्राणरोधचेतःपरिक्षयाः ।
एकस्मिन्नेव संसिद्धे संसिद्ध्यन्ति परस्परम् ।। ४०
तालवृन्तस्य संस्पन्दे शान्ते शान्तो यथानिलः ।
प्राणानिलपरिस्पन्दे शान्ते शान्तं तथा मनः ।। ४१
प्राणः शरीरविलये प्रयाति व्योमवायुताम् ।
यथा वासितमेवेदं सर्वं पश्यति तत्र वा ।। ४२
यथा विदेहाः पश्यन्ति प्राणा व्योमनि देहकम् ।
समनस्कास्तथाचारं सर्वं चानुभवन्ति ते ।। ४३
शान्ते वातपरिस्पन्दे यथा गन्धः प्रशाम्यति ।
तथा शान्ते मनःस्पन्दे शाम्यन्ति प्राणवायवः ।। ४४
अविनाभाविनी नित्यं जन्तूनां प्राणचेतसी ।
कुसुमामोदवन्मिश्रे तिलतैले इव स्थिते ।। ४५
मनसः स्पन्दनं प्राणः प्राणस्य स्पन्दनं मनः ।
एतौ विहरतो नित्यमन्योन्यं रथसारथी ।। ४६
आधाराधेयवच्चैतावेकाभावे विनश्यतः ।
कुरुतश्च स्वनाशेन कार्यं मोक्षाख्यमुत्तमम् ।। ४७
एकतत्त्वघनाभ्यासाच्छान्तं शाम्यत्यलं मनः ।
तल्लीनत्वात्स्वभावस्य तेन प्राणोऽपि शाम्यति ।। ४८
विचार्य यदनन्तात्मतत्त्वं तन्मयतां नय ।
मनस्ततस्तल्लयेन तदेव भवति स्थिरम् ।। ४९
यदेवातितरां श्रेयोऽनुपलम्भोपलम्भयोः ।
द्वयोरप्यसतोस्तत्र शेषे वापि स्थिरो भव ।। ५०
एकस्मिन्सुदृढे तत्त्वे तावद्भावं विभावयेत् ।
भावोऽभावत्वमायाति स्वभ्यासाद्यावदाततम् ।। ५१
प्रत्याहारवतां चेतः स्वयं भोग्यक्षयादिव ।
विलीयते सह प्राणैः परमेवावशिष्यते ।। ५२
यदेकतानं भवति चेतस्तद्भवति क्षणात् ।
शान्ताशेषविशेषौघं चिराभ्यासस्वभावतः ।। ५३
अविद्येयं तु नास्तीति बुद्ध्वा युक्तियुतं धिया ।
ज्ञानादेव परावाप्तिस्तदभ्यासस्ततः परम् ।। ५४
चित्ते शान्ते शाम्यतीयं संसारमृगतृष्णिका ।
जरामुपगते मेघे मिहिका तन्मयी यथा ।। ५५
चित्तमात्रमविद्येति कुरु तेनैव तत्क्षयम् ।
तद्रूपं राम चित्तात्मा नाभावो हि परं पदम् ।। ५६
मुहूर्तमेव निर्वाणं यदि चेतः परे पदे ।
तत्तत्परिणतं विद्धि तत्रैवास्वादमागतम् ।। ५७
यदि सांख्येन विश्रान्तं चेतो योगेन वापि ते ।
क्षणं तत्सत्त्वतां यातं न भूय इह जायते ।। ५८
चेतो विगलिताविद्यं सत्त्वशब्देन कथ्यते ।
दग्धसंसारबीजं तन्न ददात्यन्तरं पुनः ।। ५९
कश्चिद्विगलिताविद्यः सत्त्वस्थः शान्तवासनः ।
परं शून्योपमं सद्यो ज्योतिः पश्यति शाम्यति ।। ६०
विगलितात्मपदं विगलन्मनः
सुभग सत्त्वमितीह हि कथ्यते ।
न पुनरेति कलामलिनं पदं
कनकतामिव ताम्रमुपागतम् ।। ६१
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० पू० प्राणमनःसंयोगविचारणं नामैकोनसप्ततितमः सर्गः ।। ६९ ।।