योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०७८


अष्टसप्ततितमः सर्गः ७८
श्रीवसिष्ठ उवाच ।
एवं बहूनि वर्षाणि मिथुनं निर्भरस्पृहम् ।
रेमे यौवनलीलाभिरमन्दाभिर्दिने दिने ।। १
अथ यातेषु बहुषु वर्षेष्वावृत्तिशालिषु ।
शनैर्गलिततारुण्ये भिन्नकुम्भादिवाम्भसि ।। २
तरङ्गनिकराकारभङ्गुरव्यवहारिणि ।
पातः पक्वफलस्येव मरणं दुर्निवारणम् ।। ३
हिमाशनिरिवाम्भोजे जरा निपतनोन्मुखी ।
आयुर्गलत्यविरतं जलं करतलादिव ।। ४
प्रावृषीव लतातुम्बी तृष्णैका दीर्घतां गता ।
शैलनद्या रय इव संप्रयात्येव यौवनम् ।। ५
इन्द्रजालमिवासत्यं जीवनं जीर्णसंस्थिति ।
सुखानि प्रपलायन्ते शरा इव धनुश्च्युताः ।। ५
पतन्ति चेतो दुःखानि तृष्णा गृध्र इवामिषम् ।
बुद्बुदः प्रावृषीवाप्सु शरीरं क्षणभङ्गुरम् ।। ७
रम्भागर्भ इवासारो व्यवहारो विचारगः ।
सत्वरं युवता याति कान्तेवाप्रियकामिनः ।। ८
बलादरतिरायाता वैरस्यमिव पादपम् ।
तदिह स्याच्छुभाकारं स्थिरं किमतिशोभनम् ।। ९
यदासाद्य पुनश्चेतो दशासु न विदूयते ।
इति निर्णीय युग्मं तत्संसारव्याधिभेषजम् ।। १०
चिरं विचारयामास शास्त्रमध्यात्मसंमतम् ।
आत्मज्ञानैकमात्रेण संसृत्याख्या विषूचिका ।। ११
संशाम्यतीति निश्चित्य तावास्तां तत्परायणौ ।
तच्चित्तौ तद्गतप्राणौ तन्निष्ठौ तद्विदाश्रयौ ।। १२
तदा तदर्चनपरौ तदीहौ तौ विरेजतुः ।
तत्रैवातिघनाभ्यासौ बोधयन्तौ परस्परम् ।। १३
तत्प्रीतौ तत्समारम्भावन्योन्यं तौ बभूवतुः ।
अथ साविरतं राम रमणीयपदक्रमान् ।। १४
श्रुत्वाध्यात्मविदां वक्राच्छास्त्रार्थांस्तारणक्षमान् ।
इत्थं विचारयामास स्वमात्मानमहर्निशम् ।। १५
अव्यापृता व्यापृता वा धिया धवलयेद्धया ।
प्रेक्षे तावत्स्वमात्मानं किमहं स्यामिति स्वयम् ।। १६
कस्यायमागतो मोहः कथमभ्युत्थितः क्व वा ।
देहस्तावज्जडो मूढो नाहमित्येव निश्चयः ।। १७
आबालमेतत्संसिद्धं मतौ चैवानुभूयते ।
कर्मेन्द्रियगणश्चास्मादभिन्नावयवात्मकः ।। १८
अवयवावयविनोर्न भेदो जड एव च ।
बुद्धीन्द्रियगणोऽप्येवं जड एवेति दृश्यते ।। १९
प्रेर्यते मनसा यस्माद्यष्ट्येव भुवि लोष्टकः ।
मनश्चैव जडं मन्ये संकल्पात्मकशक्ति यत् ।। २०
क्षेपणैरिव पाषाणः प्रेर्यते बुद्धिनिश्चयैः ।
बुद्धिर्निश्चयरूपैवं जडा सत्तैव निश्चयः ।। २१
खातेनेव सरिन्नूनं साऽहंकारेण वाह्यते ।
अहंकारोऽपि निःसारो जड एव शवात्मकः ।। २२
जीवेन जन्यते यक्षो बालेनेव भ्रमात्मकः ।
जीवश्च चेतनाकाशो वातात्मा हृदये स्थितः ।। २३
सुकुमारोऽन्तरन्येन केनापि परिजीवति ।
अहो नु ज्ञातमेतेन चेत्योल्लेखकलङ्किना ।। २४
जीवो जीवति जीर्णेन चिद्रूपेणात्मरूपिणा ।
चेत्यभ्रमवता जीवश्चिद्रूपेणैव जीवति ।। २५
आमोदः पवनेनेव खातेनेव सरिद्रयः ।
असत्यजडचेत्यांशचयनाच्चिद्वपुर्जडम् ।। २६
महाजलगतो ह्यग्निरिव रूपं स्वमुज्झति ।
सद्वासद्वा यदाभाति चित्समाधौ सति स्वतः ।। २७
स्वरूपमलमुत्सृज्य तदेव भवति क्षणात् ।
एवं चिद्रूपमप्येतच्चेत्योन्मुखतया स्वयम् ।। २८
जडं शून्यमसत्कल्पं चैतन्येन प्रबोध्यते ।
इति संचिन्त्य चूडाला केनैषा चित्प्रचेतनी ।। २९
इति संचिन्तयामास चिरायेत्थं व्यबुध्यत ।
अहो नु चिरकालेन ज्ञातं ज्ञेयमनामयम् ।। ३०
यद्वै विज्ञेयतां कृत्वा न कश्चिद्धीयते पुनः ।
एते हि चिद्विलासान्ता मनोबुद्धीन्द्रियादयः ।। ३१
असन्तः सर्व एवाहो द्वितीयेन्दुपदस्थिताः ।
महाचिदेकैवास्तीह महासत्तेति योच्यते ।। ३२
निष्कलङ्का समा शुद्धा निरहंकाररूपिणी ।
शुद्धसंवेदनाकारा शिवं सन्मात्रमच्युतम् ।। ३३
सकृद्विभाता विमला नित्योदयवती सदा ।
सा ब्रह्मपरमात्मादिनामभिः परिगीयते ।। ३४
चेत्यचेतनचित्तादि नास्या भिन्नं न मानतः ।
तयैषा चैत्यते चिच्छ्रीः सैषाद्या चिदिति स्मृता ।। ३५
अचेत्यं यदिदं चित्त्वं तत्तस्या रूपमक्षतम् ।
मनोबुद्धीन्द्रियाद्यर्थरूपैः सैव विजृम्भते ।। ३६
तरङ्गकणकल्लोलकलनेयं चिदात्मनि ।
जगद्रूपपदार्थानां सत्ता स्फुरति मातरि ।। ३७
यदिदं तत्परं रूपं तस्याः खलु महाचितेः ।
शुद्धचिन्मणिवत्सा हि सेयं समसमोदिता ।। ३८
अनन्ययैव या शत्तया जगज्जृम्भिकया स्थिता ।
सत्ता मायातिरेकेण नान्या संभवतीह हि ।। ३९
विचित्रतेव भाण्डानां ननु हेमतया यथा ।
सा तथोदेति तद्रूपमात्मानं चेतति स्वयम् ।। ४०
स्वचित्तेन द्रवत्वेन तरङ्गादित्वमम्बुषु ।
महाचितौ जगच्चित्तादुदेतीवानुदेत्यपि ।। ४१
तदात्मैव यथा यातो रूपवान् जलधौ द्रवात् ।
एवं चिन्मात्रमेवाहमनहंभावमाततम् ।। ४२
न तस्य जन्ममरणे न तस्य सदसद्गती ।
न नाशः संभवत्यस्य चिन्मात्रनभसः क्वचित् ।। ४३
अच्छेद्योऽयमदाह्योऽयं चिदादित्योऽतिनिर्मलः ।
आहो नु चिरकालेन शान्तास्मि परिनिर्वृता ।। ४४
निर्वामि भ्रमनिर्मुक्तमासे निर्मन्दराब्धिवत् ।
असदाभासमत्यच्छमनन्तमजमच्युतम् ।। ४५
आत्माकाशमनाबाधममलं परमं चिरम् ।
अनन्तमिदमाकाशं फलौघाश्चाफलादिकाः ।। ४६
सुरासुरयुतं विश्वमेतन्मयमकृत्रिमम् ।
पुंस्त्वकर्ममयी सेना सर्वं मृन्मात्रकं यथा ।। ४७
द्रष्टृदृश्यमयी सत्ता चिन्मात्रैक्यमयी तथा ।
इदमैक्यमिदं द्वित्वमहं नाहमितीति च ।। ४८
क इव भ्रमसंमोहः कथं कस्य कुतः क्व वा ।
स्वमनन्तमनायासमुपशान्तास्मि संस्थिता ।। ४९
निर्वाणपरिनिर्वाणा गतमासे गतज्वरम् ।
अचेतनं चेतन वा योऽयमाभाति चेतति ।। ५०
भासमानात्म तद्रूपं खं महाचिति संस्थितम् ।
नेदं नाहं न चान्यच्च न भावाभावसंभवः ।
शान्तं सर्वं निरालम्बं केवलं संस्थितं परम् ।। ५१
इत्थंविचारणपरा परमप्रबोधा-
द्बुद्ध्वा यथास्थितमिदं परमात्मतत्त्वम् ।
संशान्तरागभयमोहतमोविलासा
शान्ता बभूव शरदम्बरलेखिकेव ।। ५२
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे पूर्वार्धे चूडालाप्रबोधो नामाष्टसप्ततितमः सर्गः ।। ७८ ।।