योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०८२


द्व्यशीतितमः सर्गः ८२
श्रीवसिष्ठ उवाच ।
अणुतां स्थूलतां वापि यथा गच्छति योगिनाम् ।
देहो नाम तथा सम्यग्वक्ष्यमाणमिदं श्रृणु ।। १
हृद्यब्जचक्रकोशोर्ध्वं प्रस्फुरत्यानलः कणः ।
हेमभ्रमरवत्सांध्यविद्युल्लव इवाम्बुदे ।। २
स प्रवर्धनसंवित्त्या वात्ययेवाशु वर्धते ।

संविद्रूपतया नूनमर्कवद्याति चोदयम् ।। ३
संध्याभ्रप्रथमार्काभो वृद्धिमभ्यागतः क्षणात् ।
गालयत्यखिलं साङ्गं देहं हेम यथानलः ।। ४
जलस्पर्शासहो युक्त्या गलयेत्प्रपदादपि ।
बाह्य एवानलः स्पर्शात्स्वान्ते वस्तुविशेषतः ।। ५
स शरीरद्वयं पश्चाद्विधूय क्वापि लीयते ।
विक्षोभितेन प्राणेन नीहारो वात्यया यथा ।। ६
आधारनाडीनिर्हीना व्योमस्थैवावशिष्यते ।
शक्तिः कुण्डलिनी वह्नेर्धूमलेखेव निर्गता ।। ७
क्रोडीकृतमनोबुद्धिमयजीवाद्यहंकृतिः ।
अन्तःस्फुरच्चमत्कारा धूमलेखेव नागरी ।। ८
विसे शैले तृणे भित्तावुपले दिवि भूतले ।
सा यथा योज्यते यत्र तेन निर्यात्यलं तथा ।। ९
संवित्तिः सैव यात्यङ्ग रसाद्यन्तं यथाक्रमम् ।
रसेनापूर्णतामेति तन्त्रीभार इवाम्बुना ।। १०
रसापूर्णा यमाकारं भावयत्याशु तत्तथा ।
धत्ते चित्रकृतो बुद्धौ रेखा राम यथा कृतिम् ।। ११
दृढभाववशादन्तरस्थीन्याप्नोति सा ततः ।
मातृगर्भनिषण्णेषु सुसूक्ष्मेवाङ्कुरस्थितिः ।। १२
यथाभिमतमाकारं प्रमाणं वेत्ति राघव ।
जीवशक्तिरवाप्नोति सुमेर्वादि तृणादि च ।। १३
श्रुतं त्वया योगसाध्यमणिमाद्यर्थसाधनम् ।
ज्ञानसाध्यमिदानीं त्वं श्रृणु श्रवणभूषणम् ।। १४
एकं चिन्मात्रमस्तीह शुद्धं सौम्यमलक्षितम् ।
सूक्ष्मात्सूक्ष्मतरं शान्तं न जगन्न जगत्क्रिया ।। १५
तच्चिनोत्यात्मनात्मानं संकल्पोन्मुखतां गतम् ।
यदा तदा जीव इति प्रोक्तमाविलतां गतम् ।। १६
असत्यमेव संकल्पभ्रमेणेदं शरीरकम् ।
जीवः पश्यति मूढात्मा बालो यक्षमिवोद्धतम् ।। १७
यदा तु ज्ञानदीपेन सम्यगालोक आगतः ।
संकल्पमोहो जीवस्य क्षीयते शरदभ्रवत् ।। १८
शान्तिमायाति देहोऽयं सर्वसंकल्पसंक्षयात् ।
तदा राघव निःशेषं दीपस्तैलक्षये यथा ।। १९
निद्राव्यपगमे जन्तुर्यथा स्वप्नं न पश्यति ।
जीवो हि भाविते सत्ये तथा देहं न पश्यति ।। २०
अतत्त्वे तत्त्वभावेन जीवो देहावृतः स्थितः ।
निर्देहो भवति श्रीमान् सुखी तत्त्वैकभावनात् ।। २१
अनात्मनि शरीरादावात्मभावनमङ्ग यत् ।
सूर्याद्यालोकदुर्भेदं हार्दं तद्दारुणं तमः ।। २२
आत्मन्येवात्मभावेन सर्वव्यापि निरञ्जनम् ।
चिन्मात्रममलोऽस्मीति ज्ञानादित्येन नश्यति ।। २३
अन्ये च विदितात्मानो भावयन्ति यथैव यत् ।
तत्तथैवाशु पश्यन्ति दृढभावनया तया ।। २४
दृढभावानुसंधानाद्विमूढा अपि राघव ।
विषं नयन्त्यमृतताममृतं विषतामपि ।। २५
एवं यथा यदेवेह भाव्यते दृढभावनात् ।
भूयते हि तदेवाशु तदित्यालोकितं मुहुः ।। २६
सत्यभावनदृष्टोऽयं देहो देहो भवत्यलम् ।
दृष्टस्त्वसत्यभावेन व्योमतां याति देहकः ।। २७
अणिमादिपदप्राप्तौ ज्ञानयुक्तिरिति श्रुता ।
भवता साधुना राम युक्तिमन्यामिमां श्रृणु ।। २८
रेचकाभ्यासयोगेन जीवः कुण्डलिनीगृहात् ।
उद्धृत्य योज्यते यावदामोदः पवनादिव ।। २९
त्यज्यते विरतस्पन्दो देहोऽयं काष्ठलोष्टवत् ।
देहेऽपि जीवेऽपि मतावासेचक इवादरः ।। ३०
स्थावरे जंगमे वापि यथाभिमतयेच्छया ।
भोक्तुं तत्संपदं सम्यग्जीवोऽन्तर्विनिवेश्यते ।। ३१
इति सिद्धिश्रियं भुक्त्वा स्थितं चेत्तद्वपुः पुनः ।
प्रविश्यते स्वमन्यद्वा यद्यत्तात विरोचते ।। ३२
देहादयस्तथा बिम्बान्व्याप्तवत्याखिलानथ ।
संविदा जगदापूर्य संपूर्ण स्थीयतेऽथवा ।। ३३
ज्ञात्वा सदाभ्युदितमुज्झितदोषमीशो
यद्यद्यथा समभिवाञ्छति चित्प्रकाशः ।
प्राप्नोति तत्तदचिरेण तथैव राम
सम्यक्पदं विदुरनावरणत्वमेव ।। ३४
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे पू० चू० अणिमादिलाभयोगोपदेशो नाम द्व्यशीतितमः सर्गः ।।८२।।