योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०८५
पञ्चाशीतितमः सर्गः ८५
श्रीवसिष्ठ उवाच ।
एवं शिखिध्वजः पूर्णमठिकायां वने स्थितः ।
इदानीं श्रृणु चूडाला सा किं कृतवती गृहे ।। १
तत्रार्धरात्रसमये दूरं याते शिखिध्वजे ।
हरिणी ग्रामसुप्तेव चूडाला बुबुधे भयात् ।। २
अपश्यत्पतिनिर्हीना शयनं शून्यता गतम् ।
अभास्करमपूर्णेन्दु शान्तशोभमिवाम्बरम् ।। ३
उत्तस्थौ किंचिदाम्लानवदना खेदशालिनी ।
कुसिक्तेव महावल्ली निरुत्साहाङ्गपल्लवा ।। ४
न प्रसन्ना न विमला बभूवाकुलतां गता ।
दिनश्रीरिव नीहारधूसरा सा व्यतिष्ठत ।। ५
क्षणं शय्योपविष्टैव चिन्तयामास चिन्तया ।
कष्टं राज्यं प्रभुस्त्यक्त्वा वनं यातो गृहादिति ।। ६
तन्मयेहाद्य किं कार्यं तत्समीपं व्रजाम्यहम् ।
भर्तैव गतिरुद्दिष्टा विधिना प्रकृता स्त्रियः ।। ७
इति संचिन्त्य भर्तारमनुगन्तुं समुत्थिता ।
चूडाला वातरन्ध्रेण निर्गत्याम्बरमाययौ ।। ८
बभ्रामाम्बरमार्गेण वातस्कन्धेन योगिनी ।
कुर्वती सिद्धसार्थस्य मुखेनान्येन्दुविभ्रमम् ।। ९
ददर्शाथ यथायातं रात्रौ खङ्गधरं पतिम् ।
भ्रमन्तमेकमेकान्ते वेतालसमयोदितम् ।। १०
तादृशं पतिमालोक्य स्थित्वा गगनकोटरे ।
भविष्यच्चिन्तयामास सर्वं भर्तुरखण्डितम् ।। ११
यथा येन यदा यत्र यावत्कार्यं यथोदयम् ।
यथा च निर्वृतिः स्फारा गन्तव्या तेन राघव ।। १२
अवश्यं भवितव्यं तद्भर्तुर्दृष्ट्वा पुरः स्थितम् ।
तदेव संवादयितुं गमनात्सा न्यवर्तत ।। १३
आस्तां ममाद्य गमनं काले नातिचिरेण हि ।
मयास्य पार्श्वे गन्तव्यं नियतेरेष निश्चयः ।। १४
इति संचिन्त्य चूडाला प्रविश्यान्तःपुरं पुनः ।
सुष्वाप शयने शंभोः शिरसीवैन्दवी कला ।। १५
केनचित्कारणेनासौ गतः संप्रति भूपतिः ।
इति पौरं जनं सर्वमाश्वास्यातिष्ठदङ्गना ।। १६
राज्यं ररक्ष भर्तुस्तत्क्रमेण समदर्शनात् ।
यथा कालेन केदारं पक्वं कलमगोपिका ।। १७
तयोस्तदाऽवहत्कालो दंपत्योः स्थितयोस्तथा ।
अदृष्टान्योन्यमुखयो राज्यकाननपालयोः ।। १८
जगामाथ दिनं पक्षो मासोऽथ ऋतुवत्सरः ।
शिखिध्वजस्य विपिने चूडालायाः स्वमन्दिरे ।। १९
बहुनात्र किमुक्तेन वर्षाण्यष्टादशाङ्गना ।
चूडालोवास सदने वनगुच्छे शिखिध्वजः ।। २०
अथ यातेषु बहुषु वर्षेषु जरसा वृते ।
शिखिध्वजे महाशैलतटकोटरवासिनि ।। २१
भर्तुः कषायपाकं तदालक्ष्य पालितं चिरात् ।
तदा तस्याथ यातेषु वर्षेषु जरसा वने ।। २२
तदा तस्यात्मकार्यस्य भवितव्यतया तथा ।
भर्तुः समीपगमने मम कालोऽयमित्यथ ।। २३
संचिन्त्य मन्दरोपान्तं गन्तुं बुद्धिं चकार सा ।
चचारान्तःपुराद्रात्रौ ततार नभसः पथम् ।। २४
जगाम वातस्कन्धेन गच्छन्ती खे ददर्श सा ।
कल्पवृक्षांशुकच्छन्नरत्नस्तबकभूषिताः ।। २५
नन्दनोद्याननिलया रक्ताः सिद्धाभिसारिकाः ।
परामृष्टेन्दुशकलान्प्रालेयकणवर्षिणः ।। २६
सिद्धोत्तमात्तसौगन्ध्यान्स्पर्शयामास मारुतान् ।
चन्द्रबिम्बामृताम्भोधेर्महावीचिपरम्पराम् ।। २७
अपश्यन्निर्मलज्योत्स्नामम्बरान्तरतां गता ।
मेघान्तरेण गच्छन्ती मेघलग्नाश्च विद्युतः ।। २८
अवियुक्ताः स्वभर्त्रा सा भूयो भूयो व्यलोकयत् ।
उवाच चात्मनैवाहो यावज्जीवं शरीरिणाम् ।। २९
न स्वभावः शमं याति ममाप्युत्कण्ठितं मनः ।
कदा मृगेन्द्रस्कन्धं तं प्रणयप्रवणं पुनः ।। ३०
पश्यामि कान्तमित्युक्तं ममाप्युत्कण्ठते मनः ।
मञ्जरीजालवलितास्तरुं वल्ल्यः स्वकं पतिम् ।। ३१
न मुञ्चन्ति क्षणमिति ममाप्युत्कण्ठते मनः ।
यथेयमग्रजा कान्तमेति सिद्धाभिसारिका ।। ३२
तथा कदाहमेष्यामि ममापीति मनः स्थितम् ।
इमे मन्दाश्च मरुत एते च शशिनः कराः ।। ३३
वनराजय एताश्च ममाप्युत्कण्ठयन्त्यहो ।
हे चित्ताज्ञ मुधैवान्तः किं त्वं ताण्डवितं स्थितम् ३४
सा व्योमनिर्मला साधो क्व ते याता विवेकिता ।
अथवा चित्त भर्तारं स्वं प्रत्युत्कण्ठसे सखे ।। ३५
तिष्ठोत्कण्ठाभिवलितं किं समुत्कण्ठितेन मे ।
किं वृथोत्कण्ठसे वामे भर्ता यातो जरां भवेत् ।। ३६
तपस्वी कृशगात्रश्च भवेन्निर्वासनस्तथा ।
मनो राज्याद्यभोगेभ्यो मन्येऽस्यामूलतां गतम् ३७
वासनालतिका प्रावुण्नदी नदगता यथा ।
एकान्तरत एकात्मा नीरसः शान्तवासनः ।। ३८
मन्ये भवति मे भर्ता शुष्कवृक्षसमस्थितिः ।
तथापि चित्त कोत्कण्ठा भवतोत्कण्ठयान्वितम् ।।३९
मतिमुद्बोध्य योगेन श्लेषयिष्याम्यहं पतिम् ।
प्रमृष्टकलनं भर्तुः समीकृत्य मनो मुनेः ।। ४०
राज्य एव नियोक्ष्यामि निवत्स्यावः सुखं चिरम् ।
अहो नु चिरकालेन मनोरथमिमं शुभम् ।। ४१
अहमासादयिष्यामि यद्भर्ता समचिन्तितः ।
समग्रानन्दवृन्दानामेतदेवोपरि स्थितम् ।। ४२
यत्समानमनोवृत्तिसङ्गमास्वादने सुखम् ।
इति चिन्तयती व्योम्ना चूडालोल्लङ्घ्य पर्वतान् ।। ४३
देशानब्दान्दिगन्तांश्च प्राप मन्दरकन्दरम् ।
अदृश्यैव नभःस्थैव प्रविवेश वनान्तरम् ।। ४४
वात्येव पादपलतास्पन्दवेद्यगमागमा ।
वनैकदेशे कस्मिंश्चित्कृतपर्णोटजे पतिम् ।। ४५
दृष्ट्वा योगेन बुबुधे देहान्तरमिवास्थितम् ।
हारकेयूरकटककुण्डलादिविभूषितः ।। ४६
अभवन्मेरुकान्तिर्यस्तमेवात्र ददर्श सा ।
कृशाङ्गं कृष्णवर्णं च जीर्णपर्णमिव स्थितम् ।। ४७
कज्जलाम्बुभरस्नातं भृङ्गीशमिव निस्पृहम् ।
चीराम्बरधरं शान्तमेकाकिनमवस्थितम् ।। ४८
स्थलीनिषण्णं पुष्पाणि ग्रथयन्तं जटाङ्कितम् ।
तमालोक्यानवद्याङ्गी चूडाला पीवरस्तनी ।। ४९
किंचिज्जातविषादैवमुवाचात्मनि चेतसा ।
अहो नु विषमं मौर्ख्यं तदनात्मज्ञतात्मकम् ।। ५०
एवंविधाः समायान्ति दशा मौर्ख्यप्रसादतः ।
अयं स राजा लक्ष्मीवान्यतो मेऽतिप्रियः पतिः ।। ५१
हृदि मोहघनक्षुऽण्णामिमामभ्यागतो दशाम् ।
तदवश्यमिहाद्यैव नाथं विदितवेद्यताम् ।। ५२
नयाम्यत्र न संदेहो भोगमोक्षश्रियं तथा ।
इदं रूपं परित्यज्य रूपेणान्येन केनचित् ।। ५३
सकाशमस्य गच्छामि बोधं दातुमनुत्तमम् ।
बालेयं मम कान्तेति मदुक्तं न करोत्यलम् ।। ५४
तस्मात्तापसरूपेण बोधयामि पतिं क्षणात् ।
भर्ता कषायपाकेन परिपक्वमतिः स्थितः ।। ५५
चेतस्यस्याद्य विमले स्वं तत्त्वं प्रतिबिम्बति ।
इति संचित्य चूडाला बभूव द्विजदारकः ।। ५६
ईषद्ध्यानाद्गतान्यत्वं क्षणादम्बुतरङ्गवत् ।
पपात विपिने तस्मिन्द्विजपुत्रकरूपिणी ।। ५७
भर्तुरध्याजगामाग्रं मन्दस्मितलसन्मुखी ।
ददर्श द्विजपुत्रं तं पुरो यातं शिखिध्वजः ।। ५८
वनान्तरादुपायातं तपो मूर्तिमिवास्थितम् ।
द्रवत्कनकगौराङ्गं मुक्ताहारविभूषितम् ।। ५९
शुक्लयज्ञोपवीताङ्गं शुक्लाम्बरयुगावृतम् ।
कमण्डलुधरं कान्तं पुरो यातं शिखिध्वजः ।। ६०
व्याप्तप्रकोष्ठद्विगुणेनाक्षसूत्रेण चारुणा ।
भूमावलग्नगात्रेण किष्कुमात्रेण च स्थितम् ।। ६१
कुन्तलव्याप्तमूर्धानं सालिमालमिवाम्बुजम् ।
भासयन्तं प्रदेशं तं शारीरैर्दीप्तिमण्डलैः ।। ६२
कुण्डलाभूषितमुखं नवमर्कमिवोदितम् ।
शिखासंप्रोतमन्दारं श्रृङ्गस्थेन्दुमिवाचलम् ।। ६३
कान्तोपशान्तवपुषमूर्जितं विजितेन्द्रियम् ।
हिमाभभस्मतिलकं भूषितालोकसुन्दरम् ।। ६४
मेरुहेमतटीलीनपूर्णेन्दुमिव चञ्चलम् ।
तमालोक्य द्विजसुतं समुत्तस्थौ शिखिध्वजः ।। ६५
देवपुत्रागमधिया संपरित्यक्तपादुकः ।
देवपुत्र नमस्कार इदमासनमास्यताम् ।। ६६
इत्यस्य दर्शयामास पाणिना पत्रविष्टरम् ।
ददौ च द्विजपुत्रस्य पुष्पमुष्टिं करोत्करे ।। ६७
चन्द्रः कुमुदखण्डस्य प्रालेयमिव पल्लवे ।
हे राजर्षे नमस्तुभ्यमिति द्विजसुतोऽवदत् ।। ६८
गृहीत्वा कुसुमान्यस्माद्विवेश पत्रविष्टरे ।
शिखिध्वज उवाच ।
देवपुत्र महाभाग कुत आगमनं कृतम् ।
दिवसः सफलो मन्ये यत्त्वामद्यास्मि दृष्टवान् ।। ६९
इदमर्घ्यमिदं पाद्यं पुष्पाणीमानि मानद ।
इमा प्रग्रथिता माला गृह्यन्तां भद्रमस्तु ते ।। ७०
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा पाद्यमर्घ्यं च मालां पुष्पाणि चानघ ।
शिखिध्वजस्तदिष्टायै ददौ देव्यै यथाखिलम् ।। ७१
चूडालोवाच ।
सुबहूनि परिभ्रान्तो भूतलायतनान्यहम् ।
त्वत्तः पूजा यथा प्राप्ता मयेयं न तथान्यतः ।। ७२
पेशलेनानुरूपेण प्रश्रयेणामुनानघ ।
मन्येऽहं नूनमत्यन्तचिरंजीवी भविष्यसि ।। ७३
शान्तेन मनसोदारमारादुन्मुक्तकल्पनम् ।
निर्वाणार्थं तपः साधो कच्चित्संभृतवानसि ।। ७४
असिधारासमं सौम्य शान्तव्रतमिदं तव ।
स्फीतं यद्राज्यमुत्सृज्य महावननिषेवणम् ।। ७५
शिखिध्वज उवाच ।
जानासि भगवन्सर्वं देवस्त्वं कोऽत्र विस्मयः ।
श्रियैव लोकोत्तरया ज्ञायसे चिह्नरूपया ।। ७६
एतान्यङ्गानि ते चन्द्राद्धटितानीति मे मतिः ।
अथवा किं समालोकादमृतेनेव सिञ्चसि ।। ७७
अस्ति मे दयिता कान्ता पाति मद्राज्यमद्य तत् ।
तवेव तस्या दृष्टानि तान्यङ्गानीह सुन्दर ।। ७८
उपशान्तं च कान्तं च वपुरापादमस्तकम् ।
श्रृङ्गं शुभ्राम्बुदेनेव पुष्पेणाच्छादयामुना ।। ७९
निष्कलङ्केन्दुसंकाशमङ्गमादित्यतेजसा ।
मन्ये ते ग्लानिमायाति सुमनःपत्रपेलवम् ।। ८०
देवार्चनायोपचितमिदमित्थं सितं मया ।
अङ्ग त्वदङ्गसङ्गेन तत्प्रयातु कृतार्थताम् ।। ८१
जीवितं याति साफल्यं स्वमभ्यागतपूजया ।
देवादप्यधिकं पूज्यः सतामभ्यागतो जनः ।। ८२
तत्कस्त्वं कस्य पुत्रस्त्वं किमायातोऽस्यनुग्रहात् ।
एतन्मे संशयं छिन्धि विमलेन्दुसमानन ।। ८३
ब्राह्मण उवाच ।
राजन्मे शृणु वक्ष्यामि यथापृष्टमखण्डितम् ।
को नाम परिपृच्छन्तं विनीतं वञ्चयेत्पुमान् ।। ८४
अस्त्यस्मिञ्जगतीकोशे शुद्धात्मा नारदो मुनिः ।
पुण्यलक्ष्म्या मुखे कान्ते कर्पूरतिलकोपमः ।। ८५
स कदाचिन्मुनिर्देवो गुहायां ध्यानमास्थितः ।
तत्र हेमतटे गङ्गा वहत्युरुतरङ्गिणी ।। ८६
मेरुलक्ष्म्यां स्फुरद्रूपा भान्ति हारलता यथा ।
एकदा नारदमुनिर्ध्यानान्ते स सरित्तटे ।। ८७
ध्वनद्वलयमश्रौषील्लीलाकलकलारवम् ।
किमेतदित्यसौ किंचिज्जातप्रायकुतूहलः ।। ८८
हेलयालोकयन्नद्यामपश्यल्ललनागणम् ।
रम्भातिलोत्तमाप्रायं निर्यातं जललीलया ।। ८९
क्रीडन्तं त्यक्तवसनं देशे पुरुषवर्जिते ।
काञ्चनाम्भोजमुकुलसंकाशैः स्तनमण्डलैः ।। ९०
परिवेल्लितमन्योन्यं फलकान्तं द्रुमं यथा ।
द्रुतहेमरसापूरनिर्भराभोगभासुरैः ।। ९१
कुर्वन्तमुरुभिः काममन्दिरस्तम्भसंचयम् ।
निर्मलीकृतचन्द्रेण व्याप्तां व्योमविलासिनीम् ।। ९२
लावण्यरसपूरेण तर्जयन्तमिवापगाम् ।
प्राकारैरमरोद्यानरथचक्रैर्मनोभुवः ।। ९३
उत्पथार्पितगङ्गाम्बु नितम्बतटसेतुभिः ।
सर्वत्र दृष्टसर्वाङ्गं विश्वरूपमिव स्थितम् ।। ९४
प्रतिबिम्बितसर्वाङ्गमन्योन्यादर्शतां गतम् ।
कालकल्पतरोर्वर्षविटपात्पक्षपल्लवात् ।। ९५
विविधर्तुलताजालाद्दिनश्रीकलिकाकुलात् ।
आलोकपुष्परजसो जाताद्गगनकानने ।। ९६
स्फुरज्जलखगप्रोतात्सप्ताब्ध्येकालवाडकात् ।
स्तनस्तबकवृन्देषु स्पर्धयातिरसान्वितम् ।। ९७
उद्धृत्योद्धृत्य संपूर्णदलिताम्भोजपल्लवम् ।
आलोलालककेशाक्षितारकादिमधुव्रतम् ।। ९८
अमृतापद्विघाताय कोशसंचयकारिभिः ।
दुष्प्रापे भूतसंघानां विकसत्कनकाम्बुजे ।। ९९
पद्मिनीपल्लवाच्छन्ने गुप्ते मेरोर्गुहान्तरे ।
शीतले स्वर्धुनीतीरे तोयोन्मृष्टमले सुरैः ।। १००
चन्द्रबिम्बकलापूरमेकत्रैवोपसंहृतम् ।
स्त्रैणमालोक्य तत्कान्तं सहसैव मनो मुनेः ।। १०१
अनाश्रितविवेकांशं बभूवानन्दितं स्फुरत् ।
आनन्दवलिते चित्ते क्षुब्धे प्राणानिले स्थिते ।। १०२
बभूव तस्य हृष्टस्य मदनस्खलितं तदा ।
फलं रसापूर्णमिव ग्रीष्मान्त इव तोयदः ।। १०३
प्रत्यग्रपादपश्छिन्नलतावृन्त इवोत्तम ।
अवश्यायकणस्पन्दी शशाङ्क इव वा मुनिः ।। १०४
विसं द्विधापातमिव गलत्साररसोऽभवत् ।
शिखिध्वज उवाच ।
तादृशोऽपि बहुज्ञोपि जीवन्मुक्तोऽप्यसौ मुनिः । १०५
निरिच्छोऽपि निरागोपि न किंचिदुपमोऽप्यलम् ।
सबाह्याभ्यन्तरं नित्यमाकाशविशदोपि च ।। १०६
नारदोपि कथं ब्रह्मन् मदनस्खलितोऽभवत् ।
चूडालोवाच ।
सर्वस्या एव राजर्षे भूतजातेर्जगत्र्त्रये ।। १०७
देवादेरपि देहोयं द्वयात्मैव स्वभावतः ।
अज्ञमस्त्वथ तज्ज्ञं वा यावत्स्वान्तं शरीरकम् ।। १०८
सर्वमेव जगत्यङ्ग सुखदुःखमयं स्मृतम् ।
तृप्त्यादिना पदार्थेन केनचिद्वर्धते सुखम् ।। १०९
आलोक इव दीपेन महाम्बुधिरिवेन्दुना ।
क्षुधादिना पदार्थेन दुःखं केनचिदेव हि ।। ११०
तमो मेघपटेनेव स्वभावो ह्यत्र कारणम् ।
स्वरूपे निर्मले सत्ये निमेषमपि विस्मृते ।। १११
दृश्यमुल्लासमाप्नोति प्रावृषीव पयोधरः ।
अनारतानुसंधानादप्युन्मेषमविस्मृते ।। ११२
स्वरूपे नोल्लसत्येष चित्ते दृश्यपिशाचकः ।
यथा तमःप्रकाशाभ्यामहोरात्रौ स्थितिं गतौ ।। ११३
तथैव सुखदुःखाभ्यां शरीरं स्थितिमागतम् ।
एवं हि सुखदुःखे द्वे जन्मकारणदर्शनात् ।। ११४
अक्षस्य गाढतां याते पटे कुङ्कुमवद्दृढम् ।
तज्ज्ञस्य त्वङ्ग लगतो मनागपि न तद्वशात् ।। ११५
यथा शुभाशुभौ रागादिनाक्रान्ततरौ मणेः ।
पुरःस्थवस्तुभावेन रञ्जनां स्फटिको यथा ।। ११५
तज्ज्ञस्तथा नैति बोधाज्जीवन्मुक्तमतिर्मुनिः ।
वस्तुनः श्लेषमात्रेण घनरञ्जितमेति धीः ।। ११७
गतेऽपि वस्तुनि दृढं बुद्धिर्यत्परितापिता ।
गतेऽपि कुङ्कुमे वस्त्रं तदीयमनुरञ्जनम् ।। ११८
न जहाति यथा मूढस्तथा विषयरञ्जनम् ।
अनेनैव क्रमेणैतौ बन्धमोक्षौ व्यवस्थितौ ।। ११९
भावनातानवं मोक्षो बन्धो हि दृढभावना ।
शिखिध्वज उवाच ।
स्वोत्पत्तिकारणप्राप्तौ कथं दुःखं सुखं च वा ।। १२०
अभ्युदेतीति वद मे दूरस्थानामपि प्रभो ।
अत्युदारमतीवाच्छं बह्वर्थं वचनं तव ।। १२१
श्रोतुं तृप्तिं न गच्छामि मयूरोऽभ्ररवेष्विव ।
चूडालोवाच ।
स्वोत्पत्तिकारणं हृद्यं लब्ध्वा कायाक्षिपाणिभिः १२२
सुखसंविदियं बाला नूनमुल्लसति स्वतः ।
हृद्गता क्षोभमायाता जीवं कुण्डलिनीगतम् ।। १२३
जीवस्य नियता नाड्यः पृथग्देहे स्थितिं गताः ।
प्राणावपूरिता नाडीर्जीव आक्रामति स्फुरन् ।। १२४
संस्पर्शैकप्रबुद्धात्मा रसो द्रुमलता इव ।
सुखप्रबोधसंचारे दुःखबोधागमे तथा ।। १२५
जीवस्य नियता नाड्यः पृथग्देहस्थितिं गताः ।
सुखिनः प्रस्फुरत्येषा धीरताशु न दुःखिनः ।। १२६
ते हि मार्गाः सुवेषस्य कुवेषस्य न ते शुभाः ।
यावत्प्रमाणं जीवोऽयं संशाम्यत्यपरिस्फुरन् ।। १२७
तावत्प्रमाणमेवैनं मुक्तं मुक्तमवेहि वै ।
यावत्प्रमाणमधिकं स्फुरति क्षुब्धमारुतम् ।। १२८
तावत्प्रमाणमेवैनं बद्धं बद्धमवेहि मे ।
सुखदुःखकलास्पन्दो बन्धो जीवस्य नेतरः ।। १२९
तदभावे हि मोक्षः स्यादिति द्वेधा व्यवस्थितिः ।
सुखदुःखदशे यावदानीते नेन्द्रियैः शठैः ।। १३०
तावत्सुखसमः सौम्यो जीवस्तिष्ठति शान्तवत् ।
सुखमालोक्य वा दुःखमक्षातीतश्चलद्वपुः ।। १३१
समुल्लसति जीवोऽन्तर्दृष्ट्वेन्दुमिव तोयधिः ।
जीवः क्षुभ्यति दृष्टेन संविदांग सुखादिना ।। १३२
आमिषेणेव मार्जारो मौर्ख्यमेवात्र कारणम् ।
शुद्धेन बोध्यबोधेन स्वात्मज्ञानमयात्मना ।। १३३
सुखदुःखादि नास्तीति तेनासौ याति सौम्यताम् ।
न तत्सुखादि नो तन्मे मुधा चायमहं स्थितः ।। १३४
इति जीवः प्रबुद्धो हि निर्वाणं याति शाम्यति ।
सुखाद्यवस्त्वतद्रूपमित्यन्तर्बोधसंविदा ।। १३५
न तदुन्मुखतां याति जीवः शाम्यति केवलम् ।
सर्वमेव चिदाकाशं ब्रह्मेति घननिश्चये ।। १३६
स्थितिं याते शमं याति जीवो निःस्नेहदीपवत् ।
दीपवच्छममायाति सुखादिस्नेहसंक्षये ।। १३७
सर्वमेवमिति ज्ञानाज्जीवोऽद्वित्वविभावनात् ।
सर्वमाकाशमेवेति बुद्ध्वा क्षोभं न गच्छति ।। १३८
जीवस्यानेन शून्यस्य कः किल क्षोभविभ्रमः ।
जीवेनेदृग्विधेनैव यथा प्रथमसर्गतः ।। १३९
स्वयं संविदितो मार्गस्तेनैवाद्यापि गच्छति ।
शिखिध्वज उवाच ।
सुखसंचारयोग्यासु जीवे सरति नाडिषु ।। १४०
देवपुत्र भवत्येव तद्वीर्यच्यवनं कथम् ।
चूडालोवाच ।
जीवः क्षोभयति क्षुब्धः प्राणादिपवनावलिम् ।। १४१
संविदा ज्ञांशमात्रेण सेनामिव महीपतिः ।
वातस्पन्देन मेदोऽन्तर्मज्जासारश्च संस्थितः ।। १४२
त्यजत्याशु प्रसौगन्ध्यं रजः पत्रफलादिकम् ।
चलितं तत्त्वधो याति गर्जादिव घनादि खे ।। १४३
देहनाडीप्रणालेन याति शुक्रं बहिः स्वतः ।
शिखिध्वज उवाच ।
देवपुत्रमहाज्ञोऽसि वेत्सि पूर्वां च तत्स्थितिम् ।।१४४
ज्ञायसे वचनादेव स्वभावो हि किमुच्यते ।
चूडालोवाच ।
आद्यसर्गे यथा सद्यः स्फुरितं ब्रह्म ब्रह्मणि ।। १४५
घटावटपटाद्यात्म तथैवाद्यव्यवस्थितम् ।
काकतालीयवद्वारिबुद्बुदोत्पत्तिनाशवत् ।
घुणाक्षरवदुच्छूनं तं स्वभावं विदुर्बुधाः ।। १४६
अस्मिन्स्वभाववशतो जगति प्ररूढे
देहा भ्रमन्ति परितो विविधा विकाराः ।
प्रक्षीणवासनतया न भवन्ति केचि-
द्भूयो भवन्ति च पुनस्त्वितरे घनास्थाः ।। १४७
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू० सुखविचारयोगोपदेशो नाम पञ्चाशीतितमः सर्गः ।। ८५।।