योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०८८


अष्टाशीतितमः सर्गः ८८
चूडालोवाच ।
अस्ति कश्चित्पुमान् श्रीमान् स्थानं नित्यविरुद्धयोः ।
गुणलक्ष्म्योरशेषेण यथाब्धिर्वाडवाम्बुनोः ।। १
कलावानस्त्रकुशलो व्यवहारविचक्षणः ।
सर्वसंकल्पसीमान्तो न तु जानाति तत्पदम् ।। २
अनन्तयत्नसंसाध्ये स चिन्तामणिसाधने ।
प्रवृत्तो वाडवो वह्निरब्धिसंशोषणे यथा ।। ३
तस्य यत्नेन महता कालेनाध्यवसायिनः ।
सिद्धश्चिन्तामणिः किंवा न सिद्ध्यत्युद्यतात्मनाम् ।। ४
प्रवृत्तिमुद्यमं प्रज्ञां प्रयुंक्ते चेदखेदवान् ।
अकिंचनोऽपि शक्तत्वं समवाप्नोत्यविघ्नतः ।। ५
मणिमग्रे स्थितप्रायं हस्तप्राप्यं ददर्श सः ।
मेरावुदयश्रृङ्गस्थो मुनिरिन्दुमिवोदितम् ।। ६
बभूव मणिराजेन्द्रे न तु निश्चयवानसौ ।
राज्ये द्रागिति संप्राप्ते सुदीन इव पामरः ।। ७
इदं संचिन्तयामास मनसा स्मयशालिना ।
संप्राप्तोपेक्षया दीर्घदुःखसंभ्रमशालिना ।। ८
अयं मणिर्मणिर्नायं मणिश्चेत्तद्भवेन्न सः ।
स्पृशामि न स्पृशाम्येनं कदाचित्स्पर्शतो व्रजेत् ।। ९
नैतावतैव कालेन मणीन्द्रः किल सिद्ध्यति ।
यत्नेन जीवितान्तेन सिद्ध्यतीत्यागमक्रमः ।। १०
कृपणः कूणितेनाक्ष्णा लोलालातलतोपमम् ।
रत्नालोकं प्रपश्यामि द्विचन्द्रत्वमिव भ्रमात् ।। ११
कुत एतावती स्फीता भाग्यसंपन्ममागता ।
अधुनैव यदाप्नोमि मणीन्द्रं सर्वसिद्धिदम् ।। १२
केचिदेव महान्तस्ते महाभाग्या भवन्ति हि ।
येषामल्पेन कालेन भवन्त्यभिमुखाः श्रियः ।। १३
अहमल्पतपाः साधुवराको मानुषः किल ।
सिद्धयः कथमायान्ति मामभाग्यैकभाजनम् ।। १४
एवं विकल्पसंकल्पैश्चिरमज्ञः परामृशन् ।
न मणिग्रहणे यत्नमकार्षीन्मौर्ख्यमोहितः ।। १५
न यदा येन लब्धव्यं न तत्प्राप्नोत्यसौ तदा ।
चिन्तामणिरवाप्तोऽपि दुर्धिया हेलयोज्झितः ।। १६
इति तस्मिन्स्थिते यातो मणिरुड्डीय सिद्धयः ।
त्यजन्ति ह्यवमन्तारं शरो गुणमिवोज्झितः ।। १७
हत्वा प्राज्ञपदं पुंसः संयान्ति किल सिद्धयः ।
आगताः संप्रयच्छन्ति सर्वं यान्त्यसहत्यलम् ।। १८
पुमान्भूयः क्रियायत्नं चक्रे रत्नेन्द्रसाधने ।
नोद्विजन्ते स्वकार्येषु जना अध्यवसायिनः ।। १९
ददर्शाथ कचद्रूपं काचखण्डमखण्डितम् ।
हसद्भिर्वञ्चकैः सिद्धैः पुरस्कृतमलक्षितैः ।। २०
अयं चिन्तामणिरिति मूढस्तस्मिन्स वस्तुताम् ।
बुबुधे मोहितो ह्यज्ञो मृदं हेमेति पश्यति ।। २१
अष्टौ षष्ठं द्विषं मित्रं रज्जुं सर्पं स्थलं जलम् ।
चन्द्रौ द्वौ कुरुते चित्तगतो मोहोऽमृतं विषम् ।।२२
तं दग्धमणिमादाय प्राक्तनीं च श्रियं जहौ ।
सर्वं चितामणेरस्मात्प्राप्यते किं धनैरिह ।। २३
देशोऽयमसुखो रूक्षो जनैः पापिभिरावृतः ।
किं तद्गेहं गतप्रायं किं नाम मम बन्धवः ।। २४
दूरं गत्वा यथाकामं सुखं तिष्ठामि संपदा ।
इत्यादाय मणिं मूढः शून्यकाननमाययौ ।। २५
तत्र काचकणेनासौ तेन तामापदं ययौ ।
कज्जलाद्रेरिव निभा मौर्ख्यस्यैवाङ्ग या समा ।। २६
दुःखानि मौर्ख्यविभवेन भवन्ति यानि
नैवापदो न च जरामरणेन तानि ।
सर्वापदां शिरसि तिष्ठति मौर्ख्यमेकं
कृष्णं जनस्य वपुषामिव केशजालम् ।। २७
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षो० निर्वाणप्रकरणे पू० चूडा- मणिकाचोपाख्यानं नामाष्टाशीतितमः सर्गः ।। ८८ ।।