योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०८९
चूडालोवाच ।
अथेममपरं रम्यं वृत्तान्तं शृणु भूमिप ।
परं प्रबोधनं बुद्धेः साधो सदृशमात्मनः ।। १
अस्ति विन्ध्यवने हस्ती महायूथपयूथपः ।
आगस्त्या शुद्धया बुद्ध्या विन्ध्येनेवोदितः स्वतः ।। २
वज्रार्चिर्विषमौ दीर्घौ तस्यास्तां दशनौ सितौ ।
कल्पानलशिखातुल्यौ सुमेरून्मूलनक्षमौ ।। ३
स बद्धो लोहजालेन हस्तिपेन किलाभितः ।
मुनीन्द्रेणेव विन्ध्याद्रिरुपेन्द्रेणेव वा बलिः ।। ४
निबद्धो यन्त्रणामाप शस्त्रकुम्भर्दितो गजः ।
तां जगाम व्यथां धीरो नवाग्नौ पुरमेति याम् ।। ५
रिपौ हस्तिपके दूरादपश्यति स वारणः ।
अयःसमुद्गके यस्मिन्निनाय दिवसत्रयम् ।। ६
खेदान्निगडनिर्भेदे यत्नवान्स मतंगजः ।
चकार किकिणीक्वाणं मुखोद्धातैरथान्यदा ।। ७
दन्ताभ्यां यत्नतस्ताभ्यां मुहूर्तद्वितयेन सः ।
बभञ्ज शृङ्खलाजालं स्वर्गार्गलमिवासुरः ।। ८
तं तस्य निगडच्छेदमपश्यद्दूरतो रिपुः ।
बलेः स्वर्गावदलनं हरिर्मेरुतलादिव ।। ९
तस्य विच्छिन्नपाशस्य मूर्ध्नि तालतरो रिपुः ।
पपात क्रमतः स्वर्गं हरिर्मेरोर्बलेरिव ।। १०
स पतन्पादपद्माभ्यामप्राप्य करिणः शिरः ।
पपातोर्व्यां फलं पक्वं वाताहतमिवाकुलः ।। ११
तं पुरः पतितं दृष्ट्वा महेभः करुणां ययौ ।
स्फुरत्स्फारगुणाः सन्तः सन्ति तिर्यग्गतावपि ।। १२
पतितं दलयामीति किं नाम मम पौरुषम् ।
वारणोऽपीति कलयन्न जघान स तं रिपुम् ।। १३
केवलं निगडव्यूहं विदार्याभिजगाम ह ।
विततं सेतुमुत्सार्य विपुलौघ इवाम्भसः ।। १४
दयामाश्रित्य मातङ्गो भङ्क्त्वा जालं जगाम ह ।
विदार्य मेघसंघातं नभसीव दिवाकरः ।। १५
गते गजे समुत्तस्थौ हस्तिपः स्वस्थदेहधीः ।
गजेनैव समं तस्य व्यथा दूरतरं गता ।। १६
प्रोच्चलत्तालशिखरात्स तथा पतितोऽपि सन् ।
न भेदमाप दुर्भेदा मन्ये देहा दुरात्मनाम् ।। १७
वर्धते प्रावृषीवाभ्रं कुकार्येष्वसतां बलम् ।
आसीदधिकमुत्साही स च चंक्रमणे तदा ।। १८
वारणारिरसिद्धाङ्गो गतेभो दुःखमाययौ ।
आगत्योपगतेऽन्तर्धिं निधान इव वर्धनः ।। १९
सोऽन्वियेष गजं यत्नाद्गुल्मकान्तरितं वने ।
पयोदपिण्डितं भोक्तुं राहुरिन्दुमिवाम्बरे ।। २०
चिरेणालभतेभेन्द्रं कस्मिंश्चित्कानने स्थितम् ।
विश्रान्तं तं तरुतले समरादिव निर्गतम् ।। २१
अथ यत्र स्थितो नागस्तत्र तद्बन्धनक्षमम् ।
परया राजसामग्र्या गजलम्पटभूमया ।। २२
स खातवलयं चक्रे हस्तिपः काननेऽभितः ।
सर्वदिक्कं विधिर्भूमौ समुद्रवलयं यथा ।। २३
उपर्यस्थगयद्वाललतौघेन स तं शठः ।
शून्यतातन्तुजालेन शरत्काल इवाम्बरम् ।। २४
दिनैः कतिपयैरेव वारणो विहरन्वने ।
तस्मिन्निपतितः खाते शुष्काब्धाविव पर्वतः ।। २५
व्रजन्पर्याकृतौ कूपे पातालतलभीषणे ।
खातशुष्काब्ध्यधोभागे गजरत्नसमुद्गके ।। २६
इति भूयो दृढं बद्धस्तेन हस्तिपकेन सः ।
तिष्ठत्यद्यापि दुःखेन भूसद्मनि यथा बलिः ।। २७
अहनिष्यत्पुरैवासौ यद्यग्रे पतितं रिपुम् ।
तन्नालप्स्यत्ततो दुःख गजः खातनिबन्धनम् ।। २८
मौर्ख्यादागामिन कालं वर्तमानक्रियाक्रमैः ।
अशोधयन्नरो दुःखं याति विन्ध्यगजो यथा ।। २९
मुक्तोऽस्मि शस्त्रनिगडादिति तुष्टो हि वारणः ।
दूरस्थोऽपि पुनर्बद्धो मौर्ख्यं क्व च न बाधते ।। ३०
मौर्ख्यं हि बन्धनमवेहि परं महात्म-
न्बद्धो न बद्ध इति चेतसि तद्विमुक्त्यै ।
आत्मोदयं त्रिजगदात्ममयं समस्तं
मौर्ख्ये स्थितस्य सहसा ननु सर्वभूमिः ।।३१
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षो० निर्वाणप्रकरणे पू० चू० हस्तिकोपाख्यानं नामैकोननवतितमः सर्गः ।। ८९ ।।