योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०९२


द्विनवतितमः सर्गः ९२
चूडालोवाच ।
यदुक्तं नयशालिन्या तया विदितवेद्यया ।
तदा चूडालया ज्ञानं तत्कस्मान्नोररीकृतम् ।। १
सा हि तत्त्वविदां मुख्या यद्यद्वक्ति करोति च ।
तत्सर्वं सत्यमेवाङ्ग तदनुष्ठेयमादरात् ।। २
अथ चेद्वचनं तस्यास्त्वया नानुष्ठितं नृप ।
तत्सर्वसंपरित्यागः कस्मान्न निपुणीकृतः ।। ३
शिखिध्वज उवाच ।
राज्यं त्यक्तं गृहं त्यक्तं देशस्त्यक्तस्तथाविधः ।
दारास्त्यक्तास्तथाप्यङ्ग सर्वत्यागो न किं कृतः ।। ४
चूडालोवाच ।
धनं दारा गृहं राज्यं भूमिश्छत्रं च बान्धवाः ।
इति सर्वं न ते राजन्सर्वत्यागो हि कस्तव ।। ५
तवास्त्येवापरित्यक्तः सर्वस्माद्भाग उत्तमः ।
तं परित्यज्य निःशेषमायास्यसि विशोकताम् ।। ६
शिखिध्वज उवाच ।
राज्यं चेन्मम नो सर्वं तत्सर्वं वनमेव मे ।
शैलवृक्षादिगुल्माढ्यं तदप्येतत्त्यजाम्यहम् ।। ७
श्रीवसिष्ठ उवाच ।
इति राम वदन्नेव कुम्भवाक्यप्रणोदितः ।
निमेषान्तरमात्रेण वशी वीरः शिखिध्वजः ।। ८
प्रममार्ज वनास्थां तां कृतः सुदृढनिश्चयः ।
प्रावृडोघस्तटगतां रजोलेखामिवात्मना ।। ९
शिखिध्वज उवाच ।
सवृक्षाद्रिवनश्वभ्राद्विपिनादपि वासना ।
परित्यक्ता मया नूनं परित्यागः स्थितो मम ।। १०
कुम्भ उवाच ।
अद्रेस्तटं वनं श्वभ्रं सलिलं पादपस्थलम् ।
इत्यादि तव नो सर्वं सर्वत्यागः कथं तव ।। ११
तवास्त्येवापरित्यक्तः सर्वस्माद्भाग उत्तमः ।
तं परित्यज्य निःशेषं परामायास्यशोकताम् ।। १२
शिखिध्वज उवाच ।
एतच्चेन्मम नो सर्वं तत्सर्वं स्वाश्रमो मम ।
वापीस्थलोटजयुतस्तमेवाशु त्यजाम्यहम् ।। १३
श्रीवसिष्ठ उवाच ।
इति राम वदन्नेव कुम्भवाक्यप्रबोधितः ।
निमेषध्यानमात्रेण वशी वीरः शिखिध्वजः ।। १४
प्रममार्जाश्रमास्थां तां संविदा शुद्धया हृदि ।
स्फुरन्तीं स्फुरणेनैव रजोलेखामिवानिलः ।। १५
शिखिध्वज उवाच ।
स वृक्षोटजवीरुत्काद्वासना स्वाश्रमादपि ।
परित्यक्ता मया नूनं सर्वत्यागः स्थितो मम ।। १६
कुम्भ उवाच ।
वृक्षो वापी स्थलं गुल्ममुटजं व्रततीवृतिः ।
इति किंचिन्न ते सर्वं सर्वत्यागः कुतस्तव ।। १७
तवास्त्यन्योऽपरित्यक्तः सर्वस्माद्भाग उत्तमः ।
तं परित्यज्य निःशेषं परामायास्यशोकताम् ।। १८
शिखिध्वज उवाच ।
एतच्चेन्मम नो सर्वं तत्सर्वं भाजनादि मे ।
चर्मकुड्यकुटीरादि तत्तावत्संत्यजाम्यहम् ।। १९
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा स समुत्तस्थावविक्षुब्धमतिः शमी ।
विष्टरादवदातात्मा श्रृङ्गादिव शरद्धनः ।। २०
कुम्भस्त्वालोकयन्नेव तत्क्रियाः सस्मितः स्वयम् ।
आसने लोककार्येषु स्वस्यन्दन इवांशुमान् ।। २१
यत्करोति करोत्वेतदस्यैतत्पावनं परम् ।
इति तूष्णीं स्थितः कुम्भः शिखिध्वजमवैक्षत ।। २२
शिखिध्वजस्तु तत्सर्वं भाण्डोपस्करमाश्रमात् ।
एकत्रैवानयामास भुवो वार्यब्धिभूरिव ।। २३
तत्संस्थाप्येन्धनैः शुष्कैर्ज्वालयामास पावकम् ।
करैः संचारवानर्कः सूर्यकान्तपदं यथा ।। २४
भाण्डोपस्करजालं तदग्नौ त्यक्त्वा विवेश सः ।
ध्वंसिकायां जगद्धुत्वा मेरुश्रृङ्गे यथा रविः ।। २५
एतावन्तं मया कालं वृत्ता यत्त्वं पतिप्रिये ।
अजातबुद्धिभेदेन तेनैव कृतमस्तु ते ।। २६
भ्रान्तौ तु विनिवर्तिन्यां नाधुनोपकरोषि माम् ।
मन्त्राटव्यां चिरं भ्रान्तं विहृतं कार्यवर्त्मसु ।। २७
दृष्टानि धर्मस्थानानि विश्राम्याम्यधुना सखि ।
इत्यक्षमालां ज्वलने चिक्षेपोक्त्वा शिखिध्वजः ।। २८
कल्पान्ताग्नाविव व्योम तारालीं पवनोऽमलाम् ।
मया नरमृगेण त्वं चिरं वनमृगाच्च्युतम् ।। २९
अबोधेन धृतं वृस्यामिदमेव मृगाजिनम् ।
इदानीं गच्छ तुच्छाय पन्थानः सन्तु ते शिवाः ।। ३०
वह्निना व्योमतां गच्छ सतारं व्योम ते समम् ।
तद्वृस्यङ्गात्कराभ्यां स धृत्वा चर्माजहाविति ।। ३१
नृपोऽग्नावम्बुधेर्वातो दववह्नाविवाचलात् ।
महावृत्तेन भवता त्वया वारि धृतं मम ।। ३२
साधो कमण्डलो सम्यङ् न ते प्रतिकृतं कृतम् ।
सौहृदस्य मनोज्ञस्य सौजन्यस्यस्थिरस्य च ।। ३३
साधुत्वस्य च सर्वस्य त्वमेव परमास्पदम् ।
येनैव वह्निना देहं संशोध्याभ्यागतोऽसि माम् ।। ३४
तेनैव गच्छ हे मित्र पन्थानः सन्तु ते शिवाः ।
इत्युक्त्वा श्रोत्रियायैव कमण्डलुमदात्तदा ।। ३५
अग्नये महते वापि दातव्यं साधु यद्भवेत् ।
मूर्खस्येव मतिर्गुप्ते नित्यमेव पतस्यधः ।। ३६
उचिता ते गतिः सैव बृसिके भस्मतां व्रज ।
इत्युक्त्वादाय बृसिकामग्नावेव स मृद्विकाम् ।। ३७
शुद्ध्यर्थमासनार्थं वै चिति तत्याज भासुरे ।
यत्त्याज्यमचिरेणैव त्यक्तव्यं किल तत्सदा ।। ३८

विस्तरः क्रियते सद्भिरुपादेये इति स्थितिः ।
शीघ्रमग्नाविदं सर्वं भाण्डजातं त्यजाम्यहम् ।। ३९
एकवारं दहत्यग्निर्दाह्यं भवति तुष्टये ।
साधो क्रियोपकरणं निष्क्रियाय त्यजाम्यहम् ।
न खेदस्तत्र कर्तव्यो नन्वयोग्यं बिभर्ति कः ।। ४०
इत्युक्तवान्झटिति भोजनभाजनाद्यं
सर्वं जुहाव वनवासविलासयोग्यम् ।
तद्भाण्डजालमनले सममेव राजा
कल्पान्ततेजसि जगज्ज्वलतीव कालः ।। ४१
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० चू० सर्वत्यागकरणं नाम द्विनवतितमः सर्गः ।।९२।।