योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः १००
शततमः सर्गः १००
शिखिध्वज उवाच ।
एवं चेत्तन्महाबुद्धे यादृशं कारणं परम् ।
कार्यं तादृशमेवेदं जगदित्येव वेद्म्यहम् ।। १
कुम्भ उवाच ।
यत्र कारणता तस्य कार्यं तदुपपद्यते ।
यन्न कारणमेवादौ तस्मात्कार्यं कुतो भवेत् ।। २
नेहास्ति कारणं किंचिन्न च कार्यं कदाचन ।
विद्यमानमिदं सर्वं सर्वं शान्तमजं जगत् ।। ३
जायते कारणात्कार्यं यत्तत्कारणवद्भवेत् ।
यन्न जायत एवेह तस्मिन्सदृशता कुतः ।। ४
बीजमेव न यस्यास्ति तत्कथं वद जायते ।
अप्रतर्क्यमनाख्यं च यत्तस्य क्वेव बीजता ।। ५
देशकालवशात्सर्वे हेतुमन्तः प्रमाणगाः ।
अकर्तृब्रह्मविषयः प्रमा कारणयोः कथम् ।। ६
अकर्तृकर्मकरणे नास्ति कारणता शिवे ।
तस्मात्तत्कारणं नास्ति जगच्छब्दार्थवेदनम् ।। ७
ब्रह्मैव त्वं स्वरूपं सद्यत्स्थितं धारयस्व तत् ।
असम्यग्दर्शिविषयं तदेव जगदाचितम् ।। ८
चिन्मात्रमजरं शान्तं यदेकं तत्प्रमीयते ।
तेनैवायं जगद्ब्रह्म सच्छान्तं बुद्ध्यते वपुः ।। ९
अन्यथैव च यो भावश्चेतसः पृथिवीपते ।
स एव नाशः कथितः स्वानुभूतश्च पण्डितैः ।। १०
चित्तं नाशस्वभावं तद्विद्धि नाशात्मकं नृप ।
क्षणनाशो यतः कल्पचित्तशब्देन कथ्यते ।। ११
असंकल्पनमात्रेण सम्यग्ज्ञानोदयात्मना ।
संकल्पः क्षीयते सिद्ध्यै स्वयमेवासदात्मकः ।। १२
नाम्नैवाङ्गीकृताभावं यदि विश्वं हि कथ्यते ।
विद्यमानं कथं तत्स्यान्ननु तामरसेक्षण ।। १३
हस्तावुत्क्षिप्य यो ब्रूते शद्रोऽस्मीति भृशं गिरा ।
कथं स विप्रो भवति विप्रत्वं त्वस्य कीदृशम् ।। १४
विवृत्तधातुरत्युच्चैर्मृतोऽस्मीति विरौति यः ।
मृतिमेवागतं विद्धि जीवनं तस्य संभ्रम ।। १५
भ्रमाकृति यदस्तीह दृश्यतेऽलातचक्रवत् ।
मृगतृष्णाद्विचन्द्रादिबालवेतालकादिवत् ।। १६
तत्कथं किल नाम स्यात्सत्यं श्रमभरात्मकम् ।
अज्ञानभ्रान्तिरेवान्तश्चित्तमित्येव कथ्यते ।। १७
अज्ञानमुच्यते चित्तमसत्सदिव संस्थितम् ।
असंवेदनमज्ञानं ज्ञानं संवेदनं भवेत् ।। १८
अज्ञानसत्त्वसंवित्तेर्ज्ञानात्संवेदनात्क्षयः ।
जलज्ञानं मुधा भ्रान्तिः साधो मरुमरीचिषु ।। १९
नैतज्जलमिति ज्ञानात्संवित्तेः प्रविलीयते ।
इदं चित्तमिति प्रौढं यदज्ञानमलं हृदि ।। २०
नास्ति चित्तमिति ज्ञानात्तत्समूलं विनश्यति ।
यथा रज्ज्वां भुजङ्गत्वमज्ञानभ्रमसंभवम् ।। २१
न सर्पोऽयमिति ज्ञानाद्हृदि रूढात्प्रणश्यति ।
तथात्मनि मनोभूतमज्ञानभ्रमसंभवम् ।। २२
चित्तं नास्तीति विज्ञानाद्हृदि रूढाद्विनश्यति ।
चित्तं मनोऽहमित्यन्तर्यावदज्ञानसंभवम् ।। २३
न चित्तमस्ति नो चैवमहंकारादिसंयुतम् ।
किंचिदेव जगत्यस्मिन्संविदेकान्तनिर्मला ।। २४
तया संकल्पचित्तादि कृतमासीद्विमूढया ।
अद्यासंकल्पतः सर्वं परित्यक्तं प्रबुद्धया ।। २५
संकल्पेन यदा याति त्वसंकल्पेन गच्छति ।
पवनेन महाबाहो ज्वालाजालमिवानले ।। २६
आत्मतत्त्वैकघनया ततया ब्रह्मसत्तया ।
जगत्सर्वमिति व्याप्तं समुद्र इव वारिणा ।। २७
नाहमस्मि न चान्योस्ति न त्वं नैते न चित्तकम् ।
नेन्द्रियाणि न चाकाशमात्मा त्वेकोऽस्ति निर्मलः ।। २८
घटाद्याकाररूपेण स एवायं विलोक्यते ।
इदं चित्तमयं चाहमिति कैव कुकल्पना ।। २९
न जायते न म्रियते किंचिदस्मिञ्जगत्त्रये ।
केवलोऽयं चिदुल्लासः सदसद्भावनात्मना ।। ३०
सर्वमात्मा परंब्रह्म सकृत्प्रकटमाततम् ।
द्वित्वैकत्वे न विद्येते न भ्रान्तिर्न च संभ्रमः ।। ३१
सर्वेन्द्रियगणाकारे सन्नेवासि सखे ततः ।
न दह्यसे महाबुद्धे न च क्वचन लिप्यसे ।। ३२
न ते विनश्यति सखे न च किंचिद्विवर्धते ।
निर्मलाकाशरूपस्य कैवल्यानन्तरूपिणः ।। ३३
इच्छानिच्छात्मिके शक्ती येतरापि त्वमेव च ।
न ह्यंशुव्यतिरेकेण शशाङ्क उपलभ्यते ।। ३४
अजमजरमनाद्यजस्वभावं
सकृदमलं विलसत्सदैकरूपम् ।
विगलितकलनं कलाख्यलीलं
सदुदितमाद्यमजं तदात्मतत्त्वम् ।। ३५
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षो० निर्वाणप्रकरणे पू० चू० शिखिध्वजपरमावबोधनं नाम शततमः सर्गः ।। १०० ।।