योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः १०५


पञ्चाधिकशततमः सर्गः १०५
शिखिध्वज उवाच ।
एवं स्थिते महाभाग कथमुद्वेगमीदृशम् ।
लब्धवानसि देवोऽपि वद वेद्यविदां वर ।।१

कुम्भ उवाच ।
श्रृणु कार्यमिदं चित्तं मदीयं वसुधाधिप ।
कथयामि तवाशेषं सर्गे यद्वृत्तमद्य मे ।। २
सुहृद्यावेदितं दुःखं परमायाति तानवम् ।
घनं जडं कृष्णमपि मुक्तवृष्टिरिवाम्बुदः ।। ३
सुहृदा पृच्छता साधु चेतो याति प्रसन्नताम् ।
स्वच्छतोपगतेनाशु कतकेन जलं यथा ।। ४
अहं तावदितो यातो भवते पुष्पमञ्जरीम् ।
दत्त्वा गगनमुल्लङ्घ्य संप्राप्तश्च त्रिविष्टपम् ।। ५
ततः पित्रा महेन्द्रस्य सभास्थाने यथाक्रमम् ।
स्थित्वोत्थाय तथोत्थानकाले पित्रा विवर्जितः ।। ६
इहागन्तुमहं त्यक्त्वा स्वर्गं संप्राप्तवान्नभः ।
दिवाकरहयैः सार्धं वहाम्यनिलवर्त्मनि ।। ७
अथैकत्र गतो भानुरेकेनान्येन वर्त्मना ।
आगच्छाम्यहमाकाशं सागरापतिताकृतिः ।। ८
अथाग्रे वारिपूर्णानां मेघानां मध्यवर्त्मना ।
अपश्यं मुनिमायान्तमहं दुर्वाससं जवात् ।। ९
पयोधरपटच्छन्नं विद्युद्वलयभूऽषितम् ।
अभिसारिकया तुल्यं धाराधौताङ्गचन्दनम् ।। १०
स्थितां सुतरुसुच्छायामापगां वसुधातले ।
वेगेनाभिसरन्तं तां तपोलक्ष्मीमिव प्रियाम् ।। ११
तस्य कृत्वा नमस्कारमुक्तं खे वहता मया ।
मुने नीलाभ्रवस्त्रस्त्वमभिसारिकया समः ।। १२
इत्याकर्ण्य मुमोचासौ मयि मानद शापकम् ।
स्तनकेशवती कान्ता हावभावविलासिनी ।। १३
गच्छानेन दुरुक्तेन रात्रौ योषा भविष्यसि ।

इति श्रुत्वाऽशुभं वाक्यमुत्थितं जर्जरद्विजात् ।। १४
विमृशामि मनाग्यावत्तावदन्तर्हितो मुनिः ।
इत्युद्वेगमनाः साधो संप्राप्तोऽहं नभस्तलात् ।। १५
एतत्ते कथितं सर्वं संपन्नोऽस्मि निशाङ्गना ।
अतिवाह्यं दिनान्तेषु स्त्रीत्वमेतन्मया कथम् ।। १६
योषित्स्तनवती रात्रौ वक्तव्यं किं मया पितुः ।
संसृतौ भवितव्यानामहो नु विषमा गतिः ।। १७
अहमप्यद्य यद्दैवाद्यूनामामिषतां गतः ।
कष्टं मदपहारेण कलहो जायतेऽधुना ।। १८
दिवि देवकुमाराणां कामाकुलधियामिह ।
गुरुदेवद्विजातीनां लज्जापरवशात्मना ।। १९
कथमग्रे मया सम्यग्वस्तव्यं यामिनीस्त्रिया ।
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा क्षणमेकं सा तूष्णीं स्थित्वा मुनिस्थितौ ।। २०
धैर्यमाश्रित्य कुम्भोऽत्र पुनराह रघूद्वह ।
किमज्ञ इव शोचामि किं मम क्षतमात्मनः ।। २१
यथागतमयं देहो मत्तोऽन्योऽनुभविष्यति ।
शिखिध्वज उवाच ।
परिदेवनया कोऽर्थो देवपुत्र तथैतया ।। २२
यदायाति तदायातु देहस्यात्मा न लिप्यते ।
कानिचिद्यानि दुःखानि सुखानि विहितानि च ।। २३
तानि सर्वाणि देहस्य देहिनो न तु कानिचित् ।
यदि त्वमपि कार्याणामखेदार्होऽपि खिद्यसे ।। २४
तदन्येषामुपायः स्यात्क इवागमभूषणः ।
खेदे खेदोचितं वाच्यमिति किंचित्त्वमुक्तवान् ।।२५
इदानीं समतामेत्य तिष्ठाखिन्नो यथास्थितम् ।
श्रीवसिष्ठ उवाच ।
तावेवमादिभिर्वाक्यैरन्योन्याश्वासनं स्वयम् ।। २६
कृत्वा स्थितौ वनस्निग्धौ सुहृदौ खेदिनौ मिथः ।
अथार्कोऽप्यस्य कुम्भस्य स्त्रीत्वमुत्पादयन्निव ।। २७
जगामास्तं जगद्दीपो दीपः स्नेहक्षयादिव ।
व्यवहारभरैः सार्धं पद्माः संकोचमाययुः ।। २८
मार्गाश्च पथिकैः सार्धं पान्थस्त्रीहृदयानि च ।
दाशवद्विहगान्सर्वान्कुर्वदेकत्र संचितान् ।। २९
तारकारत्नजालाढ्यं भुवने साम्यतां ययौ ।
खं हसदिव ताराढ्यं विकासिकुमुदाकरम् ।। ३०
ययावुन्नादचक्राह्वभ्रमद्भ्रमरपेटकम् ।
सुहृदौ तावथोत्थाय संध्यामुद्यन्निशाकराम् ।। ३१
वन्दयित्वा तथा कृत्वा जप्यं गुल्मान्तरे स्थितौ ।
ततः कुम्भः शनैस्तत्र स्त्रैणमभ्याहरन्वपुः ।। ३२
शिखिध्वजं पुरःसंस्थं प्रोवाच गलदक्षरम् ।
पतामीव स्फुरामीव द्रवामीवाङ्गयष्टिभिः ।। ३३
लज्जयैव च ते राजन्मन्ये स्त्रीत्वं व्रजाम्यहम् ।
पश्येमे परिवर्धन्ते राजन्मम शिरोरुहाः ।। ३४
प्रस्फुरत्तारकामाला दिनान्ततिमिरा इव ।
पश्येमौ मम जायेते प्रोन्मुखावुरसि स्तनौ ।। ३५
कोरकाविव पद्मिन्या वसन्ते गगनोन्मुखौ ।
आगुल्फमेव लम्बानि संपद्यन्तेऽम्बराणि मे ।। ३६
देहादेव सखे पश्य स्त्रिया इव शनैः शनैः ।
भूषणान्युत रत्नानि माल्यानि विविधानि च ।। ३७
पश्येमान्यङ्ग जायन्ते स्वाङ्गेभ्यो वृक्षपुष्पवत् ।
पश्यायं स्वयमेवाद्य चन्द्रांशुकरशोभनः ।। ३८
मूर्ध्नि पट्टांशुको जातो नीहारोऽद्राविवाङ्ग मे ।


सर्वाणि कान्तालिङ्गानि जातानि मम मानद ।। ३९
हा धिक्कष्टं विषादो मे किं करोम्यङ्गनास्म्यहम् ।
हा धिक्कष्टमहो साधो स्थित एवाहमङ्गना ।। ४०
संविदानुभवाम्यन्तर्नितम्बजघने त्विमे ।
विपिने कुम्भ इत्युक्त्वा तूष्णीं खिन्नो बभूव ह ।।४१
राजापि च तमालोक्य तथैवासीद्विषण्णधीः ।
मुहूर्तमात्रेणोवाच शिखिध्वज इदं वचः ।। ४२
कष्टं सोऽयं महासत्त्वः संपन्ना वरवर्णिनी ।
साधो विदितवेद्यस्त्वं जानासि नियतेर्गतिम् ।। ४३
अवश्यभाविन्यर्थेऽस्मिन्मा खिन्नहृदयो भव ।
आपतन्ति दशास्तास्ताः सुधियां देहमात्रके ।। ४४
न चेतस्यधियां त्वेताश्चित्तं यान्ति न देहकम् ।
कुम्भ उवाच ।
एवमस्त्वनुतिष्ठामि यामिनीस्त्रीत्वमात्मनः ।। ४५
न खेदमनुगच्छामि नियतिः केन लङ्घ्यते ।
इति निर्णीय तौ खेदं तं नीत्वा तनुतामिव ।। ४५
एकतल्पे निशां तूष्णीं नीतवन्तौ चिरेण ताम् ।
अथ प्रभाते तत्स्त्रैणं वपुरुत्सृज्य यौवनम् ।। ४७
बभूव कुम्भः कुम्भाभः कुचप्रोज्झितमूर्तिमान् ।
इति सा राजमहिषी चूडाला वरवर्णिनी ।। ४८
कुम्भत्वमास्थिता भर्तुः पश्चात्स्त्रीत्वमुपागता ।
विजहार वनान्तेषु कुमारीधर्मिणी निशि ।
कुम्भरूपधरा चाह्नि भर्त्रा मित्रेण संयुता ।। ४९
कैलासमन्दरमहेन्द्रसुमेरुसह्य-
सानुष्वविस्खलितयोगगमागमा सा ।
साकं प्रियेण सुहृदा भवता यथेच्छं
स्रग्दामहारवलिता विजहार नारी ।। ५०
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू० कुम्भस्य स्त्रीत्वलाभो नाम पञ्चाधिकशततमः सर्गः ।। १०५।।