योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः १०८


अष्टोत्तरशततमः सर्गः १०८
श्रीवसिष्ठ उवाच ।
तां मायां शममानीय चूडाला समचिन्तयत् ।
दिष्टया भोगेच्छया नायं ह्रियते वसुधाधिपः ।। १
शान्तः समसमाभोग एवं शक्रसमागमे ।
असंरम्भमहेलं च कृतवान्व्यावहारिकम् ।। २
भूय एव प्रपञ्चेन विमृशाम्येव सादरम् ।
रागद्वेषप्रधानेन केनचिद्बुद्धिहारिणा ।। ३
इति संचिन्त्य सा रात्राविन्दावभ्युदिते वने ।
गृहीतमङ्गनारूपं कान्ता मदनिका सती ।। ४
वाते वहति फुल्लाढ्ये मधुरामोदमांसले ।
संध्याजप्यपरे नद्यास्तीरसंस्थे शिखिध्वजे ।। ५
संतानकलतागेहं नीरन्ध्रैः पुष्पगुच्छकैः ।
शुद्धान्तं वनदेवीनां प्रविवेश मदान्विता ।। ५
तत्र संकल्पिते पुष्पशयने माल्यमालिता ।
कण्ठे संकल्पितं कान्तं खिङ्गमादाय संस्थिता ।। ७
आगत्यान्विष्य कुञ्जात्स प्रददर्श शिखिध्वजः ।
लतागेहे मदनिकां कण्ठे खिङ्गं मनोहरम् ।। ८
कुन्तलावलितस्कन्धं समालब्धं च चन्दनैः ।
शयनावृतिनिक्षेपपर्याकुलितशेखरम् ।। ९
हेमाभे द्विगुणाकारबालाबाहूपधानके ।
संसक्तश्रवणापाङ्गकपोलतलकुन्तलम् ।। १०
मिथुनं तद्ददर्शाथ मिथः प्रहसिताननम् ।
अन्योन्यवदनासक्तं छन्नं कल्पलतांशुकैः ।। ११
आलोलमाल्यशयनं मदनातुरमाकुलम् ।
अङ्गलग्नच्छलेनात्मरागमन्योन्यमर्पयत् ।। १२
अभ्युन्मुखं समानन्दमुद्दाममदमन्थरम् ।
परस्पराहतं पुष्पैर्वक्षोभ्यां पीडितस्तनम् ।। १३
तदालोक्याविकारेण चेतसालं तुतोष सः ।
अहो सुखं स्थितौ खिङ्गावित्याह स शिखिध्वजः।।१४
तिष्ठताङ्ग यथाकामं सुखं खिङ्गौ यथास्थितम् ।
विघ्नं माकरवं भीतावित्युक्त्वा निर्जगाम सः ।। १५
ततो मुहूर्तमात्रेण प्रपञ्चं तमुपेक्ष्य सा ।
निर्ययौ दर्शयन्ती स्वं रतिफुल्लाकुलं वपुः ।। १६
उपविष्टं ददर्शैनं नृपं हेमशिलातले ।
समाधिसंस्थमेकान्ते मनाग्विकसितेक्षणम् ।। १७
तं प्रदेशमुपागम्य लज्जावनमितानना ।
तूष्णीमासीत्क्षणं खिन्ना म्लाना मदनिकाङ्गना ।। १८
क्षणाच्छिखिध्वजो ध्यानाद्विरतस्तामुवाच ह ।
अत्यन्तमधुरं वाक्यमिदमक्षुब्धया धिया ।। १९
तन्वि किं शीघ्रमेव त्वं विघ्नितानन्दमागता ।
आनन्दायैव भूतानि यतन्ते यानि कानिचित् ।। २०
भूयस्तोषय तं गच्छ कान्तं प्रणयवृत्तिभिः ।
परस्परेप्सितस्नेहो दुर्लभो हि जगत्त्रये ।। २१
अहमेतेन चार्थेन नोद्वेगं यामि मानिनि ।
यद्यदिष्टतमं लोके तत्तदेव विजानता ।। २२
अहं कुम्भश्च तन्वङ्गि वीतरागाविहेतरा ।
दुर्वासःशापजा बाला त्वं यदिच्छसि तत्कुरु ।। २३
मदनिकोवाच ।
एवमेष महाभाग स्त्रीस्वभावो हि चञ्चलः ।
कामो ह्यष्टगुणः स्त्रीणां न कोपं कर्तुमर्हसि ।। २४
अबलाहमनेनास्मि रात्रौ गहनकानने ।
त्वयि संध्याजपपरे किं करोमि वराकिका ।। २५
अबला वा कुमारी वा जारं न रतिरोधनम् ।
करोति परिखिङ्गेन नाङ्गे स्वे विनिवेशितम् ।। २६
स्त्रियः सुन्दरतां याताः पुरपुंसामसङ्गमे ।
मन्युर्निषेध आक्रन्दः सतीत्वं किं करिष्यति ।। २७
अबला स्त्री तथा बाला मूढाहमपराधिनी ।
क्षन्तुमर्हसि नाथ त्वं क्षमावन्तो हि साधवः ।। २८
शिखिध्वज उवाच ।
मन्युर्मम न बालेऽन्तर्विद्यते ख इव द्रुमः ।
केवलं साधुनिन्द्यत्वान्नेच्छामि त्वामहं वधूम् ।। २९
सुहृत्त्वेन वनान्तेषु पूर्ववत्सुखमङ्गने ।
वीतरागतया नित्यं सममेव रमावहे ।। ३०
श्रीवसिष्ठ उवाच ।
एवं समतया तत्र स्थिते तस्मिञ्छिखिध्वजे ।
चूडाला चिन्तयामास तत्सत्त्वेनोदिताशया ।। ३१
अहो वत परं साम्यं भगवानयमागतः ।
वीतरागतयाऽक्रोधो जीवन्मुक्तोऽवतिष्ठते ।। ३२
नैनं हरन्ति ते भोगा न महत्योऽपि सिद्धयः ।
न सुखानि न दुःखानि नापदो न च संपदः ।। ३३
चिन्तिताः सकला एकं प्रयान्त्येनमनिन्दिताः ।
मन्ये महर्द्धयः कान्ता नारायणमिवापरम् ।। ३४
आत्मवृत्तान्तमखिलं तमेनं स्मारयाम्यहम् ।
कुम्भरूपमिदं त्यक्त्वा चूडालैव भवाम्यहम् ।। ३५
इति संचिन्त्य चूडाला चूडालावपुरक्षता ।
दर्शयामास तत्राशु त्यक्त्वा मदनिकावपुः ।। ३३
तस्मान्मदनिकादेहाच्चूडाला निर्गतेव सा ।
बभावस्य पुरो युक्ता निर्गतेव समुद्गकात् ।। ३७

तां ददर्शानवद्याङ्गीं पुनः प्रणयपेशलाम् ।
कान्तां मदनिकामेव चूडालां दयितां स्थिताम् ।।३८
समुदितामिव माधवपद्मिनी-
मुपगतामिव भूमितलाच्छ्रियम् ।
प्रकटितामिव रत्नसमुद्गका-
त्परिददर्श निजां दयितां नृपः ।। ३९
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० चू० चूडालास्वरूपदर्शनं नामाष्टोत्तरशततमः सर्गः १०८