योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः १०९
नवाधिकशततमः सर्गः १०९
श्रीवसिष्ठ उवाच ।
अथ तां दयितां दृष्ट्वा विस्मयोत्फुल्ललोचनः ।
शिखिध्वज उवाचेदमाश्चर्याकुलया गिरा ।। १
का त्वमुत्पलपत्राक्षि कुतः प्राप्तासि सुन्दरि ।
किमिहासि कियत्कालं किमर्थमिह तिष्ठसि ।। २
अङ्गेन व्यवहारेण स्मितेनानुनयेन च ।
मम जायाविलासेन तत्कलेवोपलक्ष्यसे ।। ३
चूडालोवाच ।
एवमेव प्रभो विद्धि चूडालास्मि न संशयः ।
अकृत्रिमेण देहेन लब्धोऽस्यद्य मया स्वयम् ।। ४
कुम्भादिदेहनिर्माणैस्त्वां बोधयितुमेव मे ।
प्रपञ्चः शतशाखत्वमिह यातो वनान्तरे ।। ५
यदा राज्यं परित्यज्य मोहेन तपसे वनम् ।
त्वमागास्तत्प्रभृत्येव त्वद्बोधायाहमुद्यता ।। ६
अनेन कुम्भदेहेन मयैव त्वं विबोधितः ।
कुम्भादिदेहनिर्माणं त्वां बोधयितुमेव मे ।। ७
मायया न तु कुम्भादि किंचित्सत्यं महीपते ।
अथो विदितवेद्यस्त्वं ध्यानेनैतदखण्डितम् ।। ८
सर्वं पश्यसि तत्त्वज्ञ ध्यानेनाश्ववलोकय ।
अथ चूडालयेत्युक्तो बद्ध्वा परिकरं नृपः ।। ९
आत्मोदन्तं विशेषेण ध्यानेनामलमैक्षत ।
अभिराज्यपरित्यागाच्चूडालादर्शनावधि ।। १०
सर्वं मुहूर्तध्यानेन चात्मोदन्तं ददर्श सः ।
आराज्यसंपरित्यागाद्वर्तमानक्षणक्रमम् ।। ११
सर्वमालोक्य भूपालो विरराम समाधितः ।
समाधिविरतो हर्षविकासिनयनाम्बुजः ।। १२
विसार्य तरसा बाहू पुलकोज्ज्वलतां गतौ ।
गलदङ्गं घनस्नेहं मुञ्चद्बाष्पं स्फुरत्स्पृहम् ।। १३
आलिलिङ्ग चिरं कान्तां नकुलो नकुलीमिव ।
तयोरालिङ्गने तस्मिंस्तत्र भावो बभूव यः ।। १४
न स वासुकिजिह्नाभिर्वक्तुं हर्षेण शक्यते ।
दिविस्थाविव पङ्केन कृताविव मिलत्तनू ।। १५
शैलाविव समुत्कीर्णौ श्लिष्टावास्तां चिरं प्रियौ ।
मुहूर्तेन गलद्धर्मजलौ पुलकपीवरौ ।। १६
बाहू विश्लथतामीषन्निन्यतुस्तौ शनैः प्रियौ ।
अमृतापूर्णहृदयौ संशून्यहृदयोपमौ ।। १७
उन्मुक्तभुजमास्तां तावलक्षस्थितलोचनम् ।
घनानन्दक्षणं स्थित्वा तूष्णीं प्रणयपेशलम् ।। १८
कान्तां चिबुकसंलग्नकरः प्रोवाच भूपतिः ।
अत्यन्तमधुरस्निग्धः कान्तः स्वकुलयोषिताम् ।। १९
पुण्यश्च रतिनिष्पन्दः स्वादुर्नामामृतादपि ।
कियत्प्रमाणस्तन्वंग्या त्वया बालेन्दुमुग्धया ।। २०
अनुभूतश्चिरं क्लेशो भर्तुरर्थेन दारुणः ।
एवं दुरुत्तरात्तस्मात्संसारकुहरादहम् ।। २१
उत्तारितो यया बुद्ध्या सा हि केनोपमीयते ।
अरुन्धती शची गौरी गायत्री श्रीः सरस्वती ।। २२
समस्ताः पेलवायन्ते तव तन्व्या गुणश्रिया ।
धीः श्रीः कान्तिः क्षमा मैत्री करुणाद्यास्तु सुन्दरि ।। २३
कान्तास्वाकारकान्तासु प्रथमेवाभिलक्ष्यसे ।
परेणाध्यवसायेन त्वयाहमवबोधितः ।। २४
केन प्रत्युपकारेण परितुष्यति ते मनः ।
मोहादनादिगहनादनन्तगहनादपि ।। २५
पतितं व्यवसायिन्यस्तारयन्ति कुलस्त्रियः ।
शास्त्रार्थगुरुमन्त्रादि तथा नोत्तारणक्षमम् ।। २६
यथैताः स्नेहशालिन्यो भर्तृणां कुलयोषितः ।
सखा भ्राता सुहृद्भृत्यो गुरुर्मित्रं धने सुखम् ।। २७
शास्त्रमायतनं दासः सर्वम भर्तुः कुलाङ्गनाः ।
सर्वदा सर्वयत्नेन पूजनीयाः कुलाङ्गनाः ।। २८
लोकद्वयसुखं सम्यक्सर्वं यासु प्रतिष्ठितम् ।
निरिच्छायाः प्रयातायाः पारं संसारवारिधेः ।। २९
कथमस्योपकारस्य करिष्ये ते प्रतिक्रियाः ।
मन्ये कुलाङ्गनां लोके लोके सर्वास्त्वयाधुना ।। ३०
नारीसौजन्यचर्चासु व्यपदेश्या भविष्यसि ।
त्वां निर्मितवतो धातुर्गुणजालातिशायिनीम् ।। ३१
मन्ये प्रकुपिता नूनमरुन्धत्यादिकाः स्त्रियः ।
सती त्वं रूपसौजन्यगुणरत्नसमुद्गिके ।। ३२
एहि मे त्वद्गुणोत्कस्य पुनरालिङ्गनं कुरु ।
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा मृगशावाक्षीं चूडालां तां शिखिध्वजः।। ३३
आलिलिङ्ग पुनर्गाढं नकुलो नकुलीमिव ।
चूडालोवाच ।
देव शुष्कक्रियाजालपरे त्वय्याकुलात्मनि ।। ३४
भूयोभूयो भृशमहं त्वदर्थं दुःखिताभवम् ।
तेन त्वदवबोधात्मा स्वार्थं एवोपपादितः ।। ३५
मया तदत्र किं देव करोषि मम गौरवम् ।
शिखिध्वज उवाच ।
त्वया यथा वरारोहे स्वार्थः संपाद्यते शुभः ।। ३६
तमिदानीं तथा सर्वाः साधयन्तु कुलाङ्गनाः ।
चूडालोवाच ।
बुध्यसे कान्त विश्रान्तो जगज्जालतटे विभो ।। ३७
अद्य तं प्राक्तनं किंचिन्मोहं समनुपश्यसि ।
इदं करोमि नेदं तु प्राप्नोमीदमिति स्थितिम् ।। ३८
अन्तर्हससि तां कच्चिद्दशापेलवतां धियः ।
तास्तुच्छतृष्णाकलनास्ताः संकल्पकुकल्पनाः ।। ३९
त्वयि नाद्यावलोक्यन्ते देव व्योम्नीव पर्वताः ।
किं त्वमद्याङ्ग संपन्नः किंनिष्ठोऽसि किमीहसे ।। ४०
कथं पश्यसि पाश्चात्यं देहचेष्टाक्रमं विभो ।
शिखिध्वज उवाच ।
सुमनःपूर्णनीलाब्जमालासारविलोचने ।। ४१
त्वमेव यस्य यस्यान्तस्तत्तस्याहमुपास्थितः ।
निरीहोऽस्मि निरंशोऽस्मि नभःस्वच्छोऽस्मि निस्पृहः।। ४२
शान्तोऽहमर्थरूपोऽस्मि चिरायाहमहं स्थितः ।
तां दशामुपयातोऽस्मि यतश्चित्तैकवर्त्मनि ।। ४३
प्रतिषेधन्ति सहसा न यां हरिहरादयः ।
नकिंचिन्मात्रचिन्मात्रनिष्ठोऽस्मि स्वस्थ आस्थितः।। ४४
भ्रमेणाहं विमुक्तोऽस्मि संसारेणालिलोचने ।
न तुष्टोस्मि न खिन्नोऽस्मि नायमस्मि न चेतरत् ।। ४५
न स्थूलोऽस्मि न सूक्ष्मोऽस्मि सत्यमस्मि च सुन्दरि ।
तेजोबिम्बात्प्रयातेन भित्तावपतितेन च ।। ४६
क्षयातिशयमुक्तेन प्रकाशेनास्मि वै समः ।
शान्तोस्मि साम्यं नेतास्मि स्वस्थोस्मि विगताशयः।। ४७
परिनिर्वाण एवास्मि सदृशोऽस्मि पतिव्रते ।
यत्तदस्मि तदेवास्मि वक्तुं शक्रोमि नेतरत् ।। ४८
तरङ्गतरलापाङ्गे गुरुस्त्वं मे नमोऽस्तु ते ।
प्रसादेन विशालाक्ष्यास्तीर्णोऽस्मि भवसागरात् ।। ४९
पुनर्मलं न गृह्णामि शतध्मातसुवर्णवत् ।
शान्तः स्वस्थो मृदुर्यत्तो वीतरागो निरंशधीः ।। ५०
सर्वातीतः सर्वगश्च खमिवायमहं स्थितः ।
चूडालोवाच ।
एवं स्थिते महासत्त्व प्राणेश हृदयप्रिय ।। ५१
किमिदानीं प्रभो ब्रूहि रोचते ते महामते ।
शिखिध्वज उवाच ।
प्रतिषेधं न जानामि न जानाम्यभिवाञ्छितम् ।। ५२
यदाचरसि तन्वि त्वं कदाचिद्वेद्मि तत्तथा ।
यद्यन्मतं ते सकलं तथास्त्वविकलं प्रिये ।। ५३
न किंचिदनुसंधातुं जानाम्यम्बरसुन्दरः ।
यदेव किंचिज्जानासि तदेव कुरु सुन्दरि ।। ५४
तदेव धारयिष्यामि प्रतिबिम्बं यथा मणिः ।
चेतसा गलितेष्टेन यथाप्राप्तमनिन्दितम् ।। ५५
न स्तौमि न च निन्दामि यदिच्छसि तदाचर ।
चूडालोवाच ।
यद्येवं तन्महाबाहो समाकर्णय मन्मतम् ।। ५६
आकर्ण्य जीवन्मुक्तात्मस्तदेवाहर्तुमर्हसि ।
सर्वत्रैक्यावबोधेन मौर्ख्यक्षयभुवान्विताः ।। ५७
निरिच्छास्तावदाकाशविशदाः संस्थिता वयम् ।
यादृगेषणमस्माकं तादृशं तदनेषणम् ।। ५८
यत्प्राणानैषणे कोऽत्र चिन्मात्रोऽभ्यसते हि कः ।
तस्मादाद्यन्तमध्येषु ये वयं पुरुषोत्तम ।। ५९
शेषमेकं परित्यज्य त एवेमे स्थिता वयम् ।
राज्येन सांप्रतेनेमं कालं नीत्वा क्रमेण वै ।। ६०
विदेहतां प्रयास्यामः प्रभो कालेन केनचित् ।
शिखिध्वज उवाच ।
वयमाद्यन्तमध्येषु कीदृशास्तरले वद ।। ६१
शेषमेकं परित्यज्य तिष्ठामः कथमेव वा ।
चूडालोवाच ।
वयमाद्यन्तमध्येषु राजानो राजसत्तम ।। ६२
मोहमेकं परित्यज्य भवामः पुनरेव ते ।
स्व एव नगरे राजा भव त्वं स्वासने स्थितः ।। ६३
ललामो ननु कान्तानां महिषी ते भवाम्यहम् ।
सनृपा मत्तवास्तव्या नृत्यन्नवनवाङ्गना ।। ६४
सपताका ध्वनत्तूर्या पुष्पप्रकरिणी पुरी ।
लसद्वल्ल्या समञ्जर्या रणत्पुष्पालिमालया ।
मधुमासलतालक्ष्म्या चिराद्भवतु सा समा ।। ६५
श्रीवसिष्ठ उवाच ।
इति चूडालया प्रोक्तो विहस्य स शिखिध्वजः ।
प्रोवाच मधुरं वाक्यमक्षुब्धं विगतज्वरः ।। ६६
एवं चेत्तद्विशालाक्षि स्वायत्ता नस्त्रिविष्टपे ।
सिद्धभोगश्रियस्तासु निवसामि न किं प्रिये ।। ६७
चूडालोवाच ।
न राजन्मम भोगेषु वाञ्छा नापि विभूतिषु ।
स्वभावस्य वशादेव यथाप्राप्तेन मे स्थितिः ।। ६८
न सुखाय मम स्वर्गो न राज्यं नापि च क्रिया ।
यथास्थितमविक्षुब्धं तिष्ठामि स्वस्थचेष्टिता ।। ६९
इदं सुखमिदं नेति मिथुने क्षयमागते ।
सममेव पदे शान्ते तिष्ठामीह यथासुखम् ।। ७०
शिखिध्वज उवाच ।
युक्तमुक्तं विशालाक्षि त्वयैतत्समया धिया ।
को वार्थः किल राज्यस्य ग्रहे त्यागेऽपि वा भवेत् ।। ७१
सुखदुःखदशाचिन्तां त्यक्त्वा विगतमत्सरम् ।
यथासंस्थानमेवेमौ तिष्ठावः स्वस्थतां गतौ ।। ७२
इति तत्र कथालापकथनेन तयोर्द्वयोः ।
कान्तयोश्चिरदंपत्योर्वासरस्तनुतां ययौ ।। ७३
अथोत्थाय दिनाचारं यथाप्राप्तमनिन्दितौ ।
सोत्कण्ठावप्यनुत्कण्ठौ चक्रतुः कार्यकोविदौ ।। ७४
स्वर्गसिद्धिमनादृत्य तस्थतुः पूर्णचेतसौ ।
एकस्मिन्नेव शयने तैस्तैः प्रणयचेष्टितैः ।
सा व्यतीयाय रजनी तयोर्जीवद्विमुक्तयोः ।। ७५
तद्भोगमोक्षसुखमुत्तमयोः स्वय स-
माशंसतोः प्रणयवाक्यविलासगर्भम् ।
उत्कण्ठतां प्रणयिनोर्धियमानयन्ती
दीर्घा मुहूर्तवदसौ रजनी जगाम ।। ७६
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे पू० चू० चूडालाप्रकटीकरणं नाम नवोत्तरशततमः सर्गः ।। १०९ ।।